________________
३४४
न्यायविनिश्चय विवरणे
[ ३५९
पपत्तेः । तया च यत् यत्पाटवे सत्य होयते ततस्यात्यन्तपाटवान्निर्मूलमपहीयते बघा दहन पाटवाच्छीतस्पर्श, तत्रज्ञान पटवा दपहीयन्ते च रागादय इति सिद्धः संवरस्तत्वज्ञानात्मा । ततश्च दोपामहानादागतकर्मानुत्पत्ती उत्पन्नानाञ्च तदपहातव्य क्लेशमात्र फलप्रदानामाद्भवति परिशुद्धिः या सिद्धिरात्मनः काष्ठागतात्तत्त्वज्ञानपाटात् दोषाणां ५ समूलतलप्रहाणादात्मनोऽपि स्यात् अव्यतिरेकात, अन्यथा दोषाणामपि न भवेदिति चेत्; न; आत्मन एवं तद्रूपस्य प्रहाशात् । प्रहीणस्य कथमवस्थितिः, यतः कैवत्यमिति चेत् ? तथापि प्रतीतेरेव । निरूपितं च स्थित्यादित्रयात्मकत्वं सर्वस्यापि भावस्व । ततो नेदं जैन प्रति दूषणम् -
१०
"यस्यात्मा बल्लभस्तस्य स नाशं कयमिच्छति । " [प्र० वा० १।२३६] इति ।
सन्नेव ह्यात्मा कस्यचिद्वल्लभः । न च कौटस्थ्ये तस्य सत्त्वम्, तत्र क्षणभङ्गकान्तदक्रियाशक्ति कल्यस्य निरूपणात्। परिणामिनि च विनाशस्यावश्यम्भावात् तमिच्छत एव तद्वल्लभत्वोपपत्तेः । न तत्र कथमिति प्रश्नोपपत्तिः, अनुपपत्तिविषय एव 'तदुपपत्तेः । अय सौगतेनापि तत्वज्ञानं भावनाधिष्ठितं निःश्रेयसनिबन्धनमभिहितं कस्माशेष्यते ? १५ इति चेतुः किं पुनस्तस्य तत्रज्ञानम् ? "स्वादिलिङ्गोपजनितमनुमानमिति चेत्; कुतः तत्सिद्धम् ? असिद्धस्य ज्ञानत्वानुपपत्तेः । स्वसंवेदनादिति चेत् नः तस्य प्रत्यक्ष 'विशेषत्वेन स्वलक्षणविषयत्वात् अनुमानस्य च सामान्याकारत्वात्, अन्यथा शब्दसम्बन्धयोग्यत्वानुपपत्तेः । स्वतः स्वलक्षणात्मवानुमानं सामान्याकारस्तु तत्र विकल्पान्तरोपनीत इति चेत्; न; तदन्तरस्याप्य विदितस्याज्ञानत्वात् स्वसंवेदनाच्च सामान्याकारत्वेन विदितत्या२० योगात् । तत्रापि तदाकारस्य विकल्पान्तरोपनीतत्वकल्पनायां प्रकृतप्रसङ्गानतिवृत्तेः अनवस्थापत्तेश्च । सत्यपि तत्र स्वसंवेदने कथमनारोपात्तत्प्रतिपत्तिः न चारोपस्यैवानुत्पत्तिः ""परोक्षा तो बुद्धिः" [ ] इति ब्रुवतां " तत्रास्वसंवेदन समारोपस्यस प्रादुर्भावात् । स्वसंवेदनेनैव तदुत्पत्तेः प्रतिबन्धादिति चेत् न "अनन्वयेऽपि चित्त"प्रबन्धे तेनवे" कत्वारोपजन्मनः प्रतिबन्धात् अनारोपप्रतीतिभावेनानु मानव कल्योपनिपातात् । २५ अनुमानान्तरात्तत्राप्यना रोपप्रतीतिकत्वकल्पनायाम् अनवस्थानम् अनुमानपरम्पराया
'अपरिसमान्तेः । ततो नानुमानस्य सम्भवो निराशेपायास्तत्प्रतीतेरभावात् ।
सम्भवतोऽपि कस्तस्य भावविता ? विना तेन भावनानुपपत्तेः । न चित्तक्षण एव; कस्यचित्तस्य परापरकालावस्थायित्वेन परमताप्रसिद्धेः । क्षणविनाशिनश्च भूयोवृत्या "तद्भावकत्वानुपपत्तेः । सन्तान इत्यपि न युक्तम् अन्वयिनस्तस्यापि वस्तुवृत्ते३० नाभावात् अवस्तुवृत्या सम्भवतश्च भावनादी वन्ध्यास्तनन्धयवदनुपयोगात् । तन्न तस्य भावना । तत्सम्भवेऽपि न किञ्चित् फलमित्यावेदयति-
१ यथा च प० । २ सुपजायते आ०, ब०, प० । ३ सिद्धिः भ० ब०, प० । तत्राहाराध्य ०, ब०, प० । ५ वा सि ता० । ६ प्रभोषपतेः। ७ स्वश्वादि श्रा०, ब०, प०८ विषयत्वेन प्राo, ब०, प० । ९ र विप० । वस्तुवि श्र० १० १०- रोपास्यैवा प० । ११ “तस्मादप्रत्यचा बुद्धिः” मी० भा० १११।५ । १२ "मीमांसका नाम " - सा० दि० । १३ -स्य विदितस्य प्र०, ०
१६ एक धारोपपतेः - ता० शि० ।
प० । १४ अन्वयेपि आ०, ब०, प० । १५ प्रबन्धेनैवैक प्रा०, २०१० १७ अपि स -आ०, ब०, प० । १८ “सौगलमवेऽप्रसिद्धेः " - सा० द०
|
१९ तद्बाधकत्वा-आ०, अ०, प० ।