________________
३१५८-५९]
३ प्रवचनप्रस्तावः
३४३
वान्तर्भावप्रत्यायनात् । तदेवं क्लेशकर्मकतिपयव्यक्ति विशेषगतस्य कार्यकारणभावस्या - नुमानतः परापरभेदात् प्रतिपत्तावना दिरेव स व्यवतिष्ठते, तदनुमानबलभाविना तर्कज्ञानेन सचैव तत्र प्रतिपत्तेः । तत्प्रामाण्यस्य च निरूपितत्वात् ।
साम्प्रतं तत्वज्ञानेत्यादिनोक्तमपि कर्मनिर्जरणं विनेयानुजिघृक्षया स्पष्टमभिधित्सुराह्
सात्मीभावाद्विपक्षस्य सतो दोषस्य संक्षये ।
कर्माश्लेषः [ मत्तानां निवृत्तिः फलदायिनाम् ] ||१८|| इति |
भवति हि सतो विद्यमानस्य दोषस्य रागादे: संक्षयः सामस्त्येन विनाशः तद्विपक्षस्य रागादिप्रत्यनीकस्य निरूपितस्य तपसः सात्मीभावात्, अनात्मरूपस्यात्मरूपतया भावनात् । सति च तत्संक्षये कर्मभिरागन्तुभिरश्लेषोऽसम्बन्धः आत्मनः तेषां दोषनिदानत्वेन १० दोषाभावेऽनुसते, अनुत्पन्नश्च सम्बन्वस्यासम्भवात् । प्रवृत्तानां तहि कर्मणां कथं निवृत्तिः ? इत्याह
वृत्तानां निवृत्तिः फलदायिनाम् । इति ।
प्रवृत्तानां पूर्वोपातानां कर्मणां निवृतिरात्मनो विश्लेषः । कीदृशानाम् ? फलदायि - नाम् । विशेषणमप्येतद्धेतुत्वेन द्रष्टव्यं फलदायित्वादिति । दृश्यते च फलदायित्वेनो- १५ पात्तस्यापि मदिरादेविनिवृत्तिः तथा कर्मणामपि । फलञ्च तेषां स एव रागादिर्दोष:, तथान्तरमेव निरूपणात् । तदेवमात्मनः कर्मसम्बन्धाभावे तत्सम्बन्धतिरोहितस्यानन्तज्ञानादिस्वभावस्याविर्भावात् भवत्येव परमा निर्वृतिः । कथं पुनरात्मनः कर्मसम्बन्धाभावे कर्तृत्वभोक्तृत्वे तयोस्तदुपनिबन्धनत्वात् ? ' तदभावे चात्मैव न भवेत् तस्य तल्लक्षणत्वात्, अतो न तत्सम्बन्धाभावेन तस्य निःश्रेयस कल्पनात्मवादिनामुपपन्नमिति चेत् तम यथावस्थि- २० तस्वपरविषयपरिशुद्धज्ञानस्यैव तल्लक्षणत्वात् । तत्र च " प्रभास्वरमिदं चित्तम्" [ प्र० वा० १।२१०] इति ब्रुवतः सोगतस्यापि विवादाभावात् । चित्तस्यैव कथञ्चिदन्वयिनः आत्मत्वेन व्यवस्थापनात् । ततः क्रिया भोगयोरभावेऽपि न परिहाणिरिति दुर्व्याहृतमेतत्"आत्मीयमेव यो नेच्छेन्द्रोक्ता इव न विद्यते । आत्मापि न तदा तस्य क्रियाभोगौ हि लक्षणम् ॥" [प्र० वा० १२५७ ] इति ।
कुतः पुनर्विवपक्षस्य सास्मीभाव इत्याह
२५
प्रतिपक्ष स्थिरीभावः माय: संस्कारपाटवात् । इति ।
प्रतिपक्षो रागादीनां तत्त्वज्ञानभावनारूपं तपः तस्य स्थिरीभावः आत्ममयत्वं संस्कारस्य तद्भावनोपनीतवासना विशेषस्य पाटवात् । स च ततः प्रायो बाहुल्येन कदाचिद- ३० सत्यपि तस्मिन् क्षयोपशमविशेषादेव भावात् । के पुनस्ते दोषा येषां तद्भावना विपक्षभावेनोपक्षिप्यते ? इति चेत् अत्राह
निर्हासातिशयौ येषां तत्प्रकर्षापकर्षयोः || ६ || इति ।
तस्य तत्त्वज्ञानाभ्यासस्य प्रकर्षापकर्षावुपचयापचयौ तयोः सतोर्येषां रागादीनां निहसातिशय हानिवृद्धी तेषां स विपक्ष इति प्रतीयते, अन्यथा तत्प्रकर्षादौ तन्निसादेरनु- ३५
१-शः सचत श्र०, ब०, प० । २ दायित्वमिति आ०, ब०, प० । ३ तद्भावे मा०, ५०, ५० । ४ पेश प० । ५ बास्यैव प्रा०, ब०, प० ।