________________
३५४] ३प्रवचनप्रस्तावः
३३७ क्रियाविशेषः तद्व्याधिविशेषस्य, कर्मनिदानरागाद्यानबप्रत्यनीकं च तपः, तस्मासदपि तद्विपक्ष इति । कतः पनः कर्माणि कतो वा तेषां तदानवनिदानत्वं यदेवमच्यते इति चेत? आस्तामेतत, अनन्तरमेव निरूपणात् । तथापि कथं तादगासवप्रत्यनीकत्वं तपस इति चेत् ? तत्प्रकर्षविशेषे तदास्रवस्यापकर्षविशेषात् । न चायं तस्य तत्प्रत्यनीकत्वाभाव सम्भवति, क्रिमाविशेषस्य प्रत्यनीकस्यैव सतः प्रकर्षविदोषाद् बातादेरपकर्षविशेषप्रतिपत्तेः ।
भवत्वेवमागन्तनों तन्निदाननिबारणेनोत्पादप्रतिषेधः, कर्मणामुत्पन्नानां तु कथं परिहाणिः ? तपसो पुत्लादप्रतिषेध एवोक्तेन बर्मना सामर्थ्यं न चोत्पन्नानां प्रतिषेधे, अविरोधादिति चेत् का पुनस्तेषां परिहाणिः या तपःसामर्थ्यान्न भवतीति ? उच्यतेस्वरूपप्रच्युतिरिति चेत्, न; तस्यास्तेषामनभ्युपगमात् । आत्मसम्बन्धानां तेषां ततो विश्लेष इति चेत् ; सिद्ध तहिं तत्रापि तपस एव सामर्थ्यम् । सति तत्प्रभाबे तदुपदलेष- १० वाहिनो रागादिस्नेहस्य प्रध्वंसात् तेषां ततो विश्लेषोपपत्तेः । विश्लिष्टानाञ्च फलदानशक्ति विकलतया कर्मभावप्रच्यवनात् । ततो युक्तमुपात्तकर्मापेक्षयापि तपस एव विपक्षत्वम् । तदेवाह
सपसश्च प्रभावेण निर्जीर्ण' कर्म जायते ॥५४॥ इति । तपसो निरूपितरूपस्य यः प्रभावः सामर्थ्य तेनेन, चशब्दस्यावधारणत्वात् १४ निजीण निरवशेषगलितं कर्म ज्ञानावरणादि जायते भवति । नतो यदुक्तं धर्मकीर्तिना
"असम्भवाद्विपक्षस्य न हानिः कर्मदेह्योः । अशक्यत्वाच्च तृष्णायास्तद्वेतौ पुनरुदयात् ॥ द्वयक्षया यत्ने च व्यर्थः कर्मक्षये श्रमः । फलवैचित्र्यदृष्टश्च शक्तिभेदोऽनुमीयते ॥ कर्मणां तापसंक्लेशान्नेकरूपात्ततः क्षयः । फलं कथञ्चित्तज्जन्यमल्पं स्थान विजातिमत्॥ अथापि तपसः शक्त्या शक्तिसङ्करसंक्षये । क्लेशात् कुतश्चिद्धीयेताशेषमयले शले शतः ॥ यदीष्टमपरं क्ले शाततपः क्लेश एब चेत् । तत्कर्मफलमिरयस्मान शक्तः सकरादिकम् ॥"
[प्र. वा० १।२७५-८० ] इति । तत्प्रति विहितम् । यथोक्ते तपसि कर्मविपक्षे तदसम्भवस्याभावात् । तत्प्रभावादेव तृष्णाया अपि स्थित्यभावे तद्वलेन पुनः कर्मो पत्तरसम्भवान्, तृष्णापहारादपरस्य च कर्मक्षयपरिश्रमस्यानभ्युपगमात् । न च कायपरितापरूपं तपः कारणं कर्मनिबर्हणस्य ; अपितु 'उक्ततपःपरिहणस्यक ।
"बाह्यं तपः परमदुश्चरमाचरस्स्वमाव्यात्मिकस्य तपसः परिब हणार्थम् ।" [ बृहत्स्व० श्लो० ८३] इति वचनात् । ततस्तत्र तनिबर्हणकारणबु द्ध्या फलवचिश्मवृष्टेः' इत्यादिवचन जैनमतानभित्वमेव 'तस्यावेदयति ।
१-स्याप्रकर्ष-मा०, २०, ५० ।- जीवानां तृष्णायां पु-भा०प० । "- तृष्यायां स्थितायां पुन-"प्रवा०।३संवर-रूपतपःपरिवर्धनस्यैव कारणमित्यर्थः। उक्तं तपः-तारि०1४ धर्मकोतः।