SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ५ १३४ न्यायविनिश्चयविवरणे ३० { ३५२ दावभावात् । ततो निषिद्धमेतत् ] इति । असत्यपि "मेये कर्तुरभावात्तदोबारा म नास्ति नः ।" [ कर्तरि दहनादिवत्तत्र तच्छङ्काया अनिवृत्तेः सदोष एव हि दहनादिरपीरुषेयोऽपि, अन्यथा ततो मध्याप्रतीतेरनुत्पत्तेः । किं पुनः तत् सत्यं यदभिधायित्वेन शब्दः सत्य उच्यते इत्याहसर्वार्थानामनेकात्मपरिणामी व्यवस्थितौ । मार्गस्तद्विषयश्चेति मतं सत्यं चतुर्विधम् ॥ ५२ ॥ इति 1. अनेकश्चासावात्मा च अनेकात्मा युगपद्भावी नानारूपो वस्तुस्वभावः, स च परिणामश्च प्रायाकारपरित्यागाज हतोत्तराकारोपादानलक्षणो विवर्त्तस्तावनेकात्मपरिणाम हो सत्य), तौ च सर्वेषामेव जोवादीनामर्थादीनां व्यवस्थित तद्विकलानाममस्तु१० त्वापादनात् । तत्रानेकात्मनः प्रागुपादानम्, परिणामं प्रति तस्य साधनत्वात् । प्रतिपादितं हि विप्रतिपन्नं प्रति तस्य तत्साधनत्वमवश्याभ्युपगमत्वञ्च अन्यथा निष्कलस्याप्रतिपत्तेः सर्वाभावप्रसङ्ग इति । तथा मार्गों निःश्रेयसप्राप्त्युपायः, स च सम्यग्दर्शन । दिविकरुपत्रयात्मक एव एकशस्तस्य तदनुपायत्वात् । न हि सम्यग्दर्शनस्यैव तदुपायत्वं सम्यग्ज्ञानाभावे तस्वार्थविपदस्थ उपनिवेद्यालक्षपस्वासम्भवात् । नापि तद्विशिष्टस्य तत्त्वार्थाधिगम१५ लक्षण सम्यग्ज्ञानस्यैव तत्कारणत्वमुपपन्नम् उत्पन्नतत्त्वज्ञानस्यापि शरीरेन्द्रियादिसम्बन्धापरिच्युतेः, अन्यथा न कस्यचिदभ्युपदेष्टृत्वं प्रत्युत्पन्नतत्त्वज्ञानस्य शरीरपातेन तदनुपपत्तेः । अपरिवतितशरीरस्यापि तत्त्वपरिज्ञानाभावात् । एवं च निविषयंत्रेयं श्रुतिः स्थात्""आचार्यवान् पुरुषी वेद" [छान्दो० ६।१४ २ ] इति । आत्मविषयश्च सम्यग्दर्शनाद्यभ्यासी विफलः स्यात्, अनुप सम्पृक्ततदभ्यासादपि "तत्वमसि [छान्दो० ६६८७ ] इत्यादि वाक्य२० सामथ्र्यपनी तादात्मज्ञानादात्मनोऽपि निःश्रेयसोपपत्तेः । aavare - "निपि वस्तुनि विपर्ययानुवृत्तिपलभ्यते यथा चन्द्राव द्वित्वादिः, तदागमप्रामाण्याक्षिणी तेऽप्यात्मनि नित्यशुद्धादिरूयेण विपर्ययोपाल पसंभवात् तनिवृत्तिपरस्तदर्शनाद्यभ्यासः "आत्माऽयं द्रष्टव्यः " [ वृहदा० २/४/५ ] इति इत्यादिना वेद्यमानो म जैफल्यदोषाय कल्पते ।" [ ] इति तत्प्रतिषिद्धम् न तत्त्वज्ञान२५ मेवादरोपाधिकं निःश्रेयसनिमित्तम् अपि तु चारित्रसव्यपेक्षमिति । आत्मादितत्वाभ्यासस्यैव चारित्रताsस्माभिरभ्यनुज्ञानात् । ततः समुदित एवं सम्यग्दर्शनादिनिःश्रेयसस्याङ्गम्, अन्तमापायेऽपि तदनुपपतेः । अत एव सूत्रे "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " [] त० सू० ११] इति समुदायरूपेण सम्यग्दर्शनादेरेकीभूतस्य निःश्रेयसनिमित्तत्व निवेदनार्थमुत्तरपदमेकवचनान्तमेवोपदशितम् । तस्य मार्गस्य विषयो गोचरस्तद्विषयः । स च सप्तधा- "जीवाजीवावयन्धसंघर निर्जरामास्तरम् ।" [ ० सू० १४ ] इति सूत्रात् । तस्य च तद्विषयत्वं श्रद्धेयत्वादिना न प्राप्यत्वेन ततो मोक्षस्यैव तत्त्वात् । चशब्दः समुच्चये । ताविमौ द्वौ सत्यों प्राच्याभो इति एवं मतमभ्युपगतं सत्यं चतुविधं चतुःप्रकारं सर्वस्यापि सत्यस्यायंत्रान्तर्भावात् । तत एतत्सत्यचतुष्टयप्रतिपादनात् प्रवचनं सत्यमत्रगन्तव्यम् जीवादीनां च भागविषयत्वप्रतिपादन३५ परिज्ञाततद्रूपस्य प्रेक्षावतो मोक्षार्थायाः प्रवृत्तेरनुपत्तेः । अत एव आह १- यस्यैव सवा० २६ सुनि-आ०, ब०, प० । ३- ये तव भा०, ब०, प० । ४ प्राप्य । ५ तत एव सरस-आ०, ब०, प० ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy