________________
श५०-५१]
३ प्रवचनप्रस्ताव भासिनः शब्दतत्त्वस्य प्रतिपत्तिः । नाप्यविभागावभासिनः शब्दतत्त्वस्य प्रतिपत्तिः; तस्यैवाप्रतिवेदनात् । ततस्तदप्रतिपत्तौ च कुतस्तत्र 'साक्षित्वमनुमानस्य यतः "स खलु" [
] इत्यादि सूक्तमबकल्प्येत । ततो न परपरिकल्पिता निरवयवनित्यस्फोटात्मान: पदवाक्यादयः शब्दाः, तेषां प्रत्यक्षानमानाभ्यामिवागमादप्यनध्यवसायात । तदागमस्य "साक्षात्कृतवर्माग ऋषयो बभूवः'' । निहत० ११२० ] इत्यादः प्रमाणान्तरप्रतिक्षिप्तार्थ- ५ तया प्रामाण्याभावात् । ततो वर्णा एव क्रमविशेषसम्बन्धोपाधयः शब्दा: तद्वयतिरिक्तानां तेषामभावात् । एतदेवाह
अभावादतिरेकिणाम् । इति अतिरेकिणः पुद्गलस्कन्धपरिणामविशेषेभ्योऽर्यान्तरभूता नित्या वर्णपदादयस्तेषाम् उक्तन्यायेन अभावात् तद्विशेषा एव ध्वनय इति । साम्प्रतं प्रकरणार्थमुपसंहृत्य दर्शयन्नादितः शब्दानामपौरुषेयत्वे दोषमावेदयति
वाचामपौरुपेयीणामाविर्भावो न युज्यते ॥५०॥ इति । वाचां वर्णात्मनां पदादिस्फोटात्मनां चापौरुषेयीणां नित्यानाम् , अनित्यानामपौरुषेयत्वायोगात् , आविर्भावो व्यक्तिन युज्यते न घटते। स्वतोऽनाविर्भावात् , सहकारिप्रतीक्षायाश्च तत्र प्रतिक्षेपात् । अतो ध्वनयो न तदात्मान इति दोषः । कथम् ? नियतं यथा १५ भवति तथा। नियतत्वं चात्र विलवत्रिवेकेन स्वरूप एवावस्थानम् । विप्लवस्य वर्णेषु ह्रस्वदीर्धादेः पदेषु च वर्णक्रमस्य पुरुषप्रयत्नोपनीतनादभेदनिबन्धत्वेन पुरुषनिरपेक्षत्वे शब्दस्यासम्भवात् । न च तथा कश्चिदपि' चायमुपलभ्यते ( ? ) ह्रस्वायुदात्तादिभेदोपरक्तस्यैव वर्णस्य वर्णक्रमोपसंपृक्तस्य॑ब पदस्य तत्क्रमाद्युपश्लिष्टस्यैव च वाक्यादेः प्रतीतिपथप्रस्थायिनः प्रत्यवलोकनात् । ततो नापौरुषेयस्य निरवयवात्मनः शब्दस्य वाचकत्वम् अप्रतीतः । २०
पौरुषेयस्यापि वाचकत्वमभिमतवदनभिमतस्यापि किन्न स्यादिति चेत् ? अत्राह
सम्यग्ज्ञानाकुशः सत्यः पुरुषार्थाभिधायकः ।
इति [अत्रापौरुषेयत्वं जातु सिद्धमनर्थकम् ||५१॥] इति । न हि सर्वोऽपि पौरुषेयः शब्दः पुरुषार्थस्य 'श्रेयस्तत्कारणस्याभिधायकोऽपि तु सत्यो २५ विप्रतिसारविकलः । न च सर्वोऽप्यसो तद्विकल एव अपि तु सम्यक् ज्ञानाङकुशः सम्यग्ज्ञानं तत्प्रणेतुः पुरुषस्य तदर्थविषयं निरुषप्लवं ज्ञानं तदेवाङकुशो नियामको यस्य स एव, स चायमेव स्याद्वादामोघलाञ्छनो वचनप्रबन्धो नापरः, तत्प्रणेतृणां तज्ज्ञानाभावस्य निवेदनात् । न च वमपौरुषेयत्वमेव. शब्दस्याविप्रतिसारतया नियामकमिति शक्यमुपपादयितुम् ; अपोझप्रेयस्यापि दहनादेनीलोत्पलादी विपर्पयोपदशितत्वेन विप्रतिसारप्रतिपत्तेः । एतदेवाह- ३०
अत्रापौरुषेयत्वं जातुसिद्धमनर्थकम् । इति । अत्र दहनादौ यदपौरुषेयत्वं तद् जातु कदाचिन्नीलोत्पलादिमन्निधानवेलायां सिद्धं निर्णीतम् । कीदृशम् ? अनर्थकमविद्यमानार्थ तदुपदर्शितपोताद्याकारस्य वस्तुतो नीलोत्प
१ सापेपिस्व-मा०,०, प० । २-३ मित्यरवम्चात्र मा०, पप०,। ३-नीतध्वनिभेद-भात, २०, ५०,४-पि नयग्नुपल-पा०, २०, ५०, ५-निःश्रेयसस्तका-भा०, ब०,०।