________________
३५०
तापलेः ।
३ प्रवचनप्रस्ताव वर्गास्तरसमुवायो वा" [स्फोटसि० पृ० २८] इति मण्डनः; सोऽपि न स्फोटमण्डने पण्डितः; वर्णानामेव क्रमविशेषाधिष्ठानानां पदत्वेन प्रत्यायकत्वोपपत्तेः पदान्तरकल्पनावफल्यात् । तेषामितरेतरकालपरिहारवतां कथमेकस्यां प्रत्यायनक्रियायामुपयोगः सहकारित्वानुपपत्तेरिति चेत् ; इतरेतरदेशपरिहारबता कर्मकादिकारकाणामपि कथं त्यनिदेकर कार्ये व्यापारः ? एककालगतत्वादिति चेत्, वर्णानामप्येकबुद्धिगतत्वादिति किन्न स्यात् ? नहि प्रतिवर्ण तबुद्धिभेदः कारकेष्वपि तद्वत्तदर्थभेदेन युगपदप्यनेकतत्प्रतिपत्तेरभावापत्तेः । न च तदभ्युपगमो न्याय्यः प्रतीतिविरोधात् । ततो युगपद्भाविना कारकाणामिब क्रमभुवां वर्णानामप्येकस्या बुद्धी विषयभावेनोपनिपातादुपपन्न एव तेषामेकत्र विषयप्रत्यायने व्यापारः । ततो यदुक्तम्-"इवं तादव वर्णवादी प्रष्टव्यः गौरव इति वा केबलोच्चारणे वा को विसर्जनीयस्य भेदो यत्कृतोऽबंधीभवः, प्रत्ययभावाभावी व ? नन्धेवं विशेषः क्वचिवसहायः क्वचिद्वर्ण- १० विशेषसहाय इति । क्व पुनरत सहायता यदा विसर्जनीयसमयेन वर्णान्तरोपलब्धिरस्ति । कायें खलु व्यापारवतः सहायता, न चासतस्तदा व्यापतिरस्ति ।" [स्फोटसि• पृ० ३३] इति तत्प्रतिविहितम् ; विसर्जनीयसमये गकारादीनामभावेऽपि स्वसमये भावेन सत्सहायतोपपत्तेः, अन्यथा दण्डादीनामनधिगतचक्रदेशानां तत्सहायत्वाभावप्रसङ्गात् , तदानीमसतामिव तत्रासतामपि व्यापारानुपपत्तेः ।
दण्डाद्यभिनदेशा अप्येक चेत् कर्म कुर्वते । भिन्नकालाः कथं तद्वद्वर्णा अपि न कुर्वते ॥१८०३।। सर्वत्रैवं प्रसङ्गश्चेत्कालभेदाविशेषतः । भवेदेवं यदा न स्यात् प्रत्यासत्तिनियामिका ।।१८०४।। अन्यथा देशभेदेऽपि कार्यकारित्वमिच्छत्तः । '
वादिनोऽप्येष दोषः किं मूनिं नाधिरोहति ।।१८०५।। प्रत्यासत्तिश्च प्रतिपादितव । क्रमविशेषाधिष्ठानत्वे सत्येकबोधोपारोहितत्वमिति । न चेदमप्यत्र चोद्यम्-अक्रमो हि बोधः कयं तदुपारोहिणां वर्णानां कम इति ? 'कथं न हि तदुपारोहित्वं नाम तेषां तदनुप्रवेशः अपि तु तद्विषयत्वम्, तच्च अतत्कालानामप्यतद्दे शानामिव सम्भवतीति क्रमानुपद्रवात् । निवेदितं च तत् "यदा यत्र" इत्यादिना' तत दर्द २५ प्रत्याख्यातम्-"न कं प्रत्याख्यान (प्रख्यान) नानावर्णावयवात्मनि परे भिन्नम् अवध्यवधिमनावमवेक्षितु क्षमते।" [स्फोटसि पृ०६८] इति ; देशकृतस्येव प्रासादस्तम्भेषु कालकृतस्यापि वर्णेषु पौर्वापर्यस्यावध्यवधिमद्भावस्थावेक्षणं प्रतिप्रख्यानस्यकस्यापि प्रत्यभिज्ञानविकलापस्य सामोपपादनात् । यदि वर्णा एव पदं तदा तेषामने कवक्तकतया योगपद्येऽपि वर्णत्वस्याप्रच्यतेः किन्न पदत्वमिति चेत् ? न; क्रमवतामेव तेषां पदत्वेन सम्प्रदायात्, ३० तत्प्रधानत्वाच्चार्थप्रत्यायनस्य । क्रमान्तरपरिग्रहे 'तहि पदत्वम् अक्र मत्वाभावादिति चेत् । न; तस्मिन्नर्थे तत्क्रमस्यैव पदभावाङ्गत्वात् । अर्थान्तरत्वे तु कमान्तरस्यापि तदङ्गत्वान्न निषेवचत एव, राकेति कारेति पौर्णमासी-बन्धनागारयोः, नादीति दीनेति नादवत्-कृच्छ्र
१तदामी वा--भा० । २ कथमिति पश्मधिक माति। ३ स्यायवि० श्लोक २।४ चैकस्मिन् मानाषणांवयवात्मनि...-रकोटसि० पू० ५। ५प्रतिपल्याख्याम-पा, २०, ५०।६ सहिन पदत्वं क-मा०,०, प । ७ निश्चित श्रा, प. | "पदावं न निषेभ्यतेति सम्बन्धः ।
४२ .