________________
३२४९ ३ प्रवचनप्रस्तावः
३२७ प्रदीपवत् । 'तेजसं च तत् रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् तद्वदेव । ततो गोलकादभिसपंतस्तत्कलापस्य विषयप्राप्तेः प्राप्यकार्येव चक्षुरिति चेत् अत्र पदि गोलकस्य स्वतो रूपप्रकाशकत्वं रश्मिकलापकल्पनस्य वैद्यर्थ्यम् । तत्कलापद्वारकमेव तस्य तदिति चेत्, कयं तदसिद्धौ तस्य तद्द्वारकं तत्प्रकाशकत्वम् ? तसिद्धिश्च यद्यन्यतः; तदेवोच्यतां कि तेजसत्वेन ? तंजसत्वादेवेति चेत् । तहि तस्मात् तस्कलापसिद्धी तवारकं तस्य रूपप्रकाश- ५ कत्वं ततोऽपि तेजसत्वं सिद्धयतीति कथन परस्पराश्रयः स्यात् ? तन तरकलापसिद्धिरिति न तवारकमपि चक्षुष: प्राप्यकारित्वम् । कथं वा प्राप्यकारित्वे तस्य व्यवहितविषयत्वं प्राप्त्यभावात् । दृश्यते च शुद्धस्फटिकघटीभित्ति व्यवहितस्यापि वस्तुनस्तेन प्रकाशनम् । तस्यास्त्येव तेन प्राप्तिः तभित्तेनिर्भदादित्यपि न सङ्गतम् ; तदन्तर्गतस्य जलादेब हिरवस्रंसनप्रसङगात् तच्छिद्रानुपलब्धेश्च । न तस्य तेन प्रकाशनं तत्प्रतिविम्बस्यैव बहिरपक्रान्तस्य १० प्रकाशनादित्यपि मन्दमतेरेव स्पन्दितम् अन्तर्गतस्य बहिष्प्रतिबिम्बापक्रमानवलोकनात । तस्मादप्राप्यकायेंव चक्षः। तथा चोपपन्न श्रोत्रस्य प्राप्यकारित्वे तस्य वैधम्योदाहरणत्वं साध्याश्यावृत्तिदोषाभावात् । ततः श्रोत्रं प्राप्यकार्येव उक्तान्यायात्। एतदेवाह
तेषां युक्ता हि श्रीगोचराः। इति । तेषां शब्दभागानां मध्ये युक्ताः श्रोत्रेण सम्बद्धा हिरवधारणे श्रोत्रस्य गोघरा १५ विषया अन्यथा प्रत्यासन्नग्राहित्वाभावप्रसङ्गादिति मन्यते । कि पुनरिदं श्रोत्रेन्द्रियस्य प्राप्यकारित्वोपकल्पनम् ? आकाशमिति कश्चित्'; तन्न; तस्य विभुत्वेन दुरभूतानामपि शब्दानां प्राप्त्यविशेषेण ग्रहणप्रसङ्गात्। तस्यैकत्वेन सर्वेषामेकोरत्दापत्त्या सर्वविषयस्य केन एकविषयस्य सर्वैरपि ग्रहणापत्तेश्च । न च तस्य प्रदेशवत्वं यतोऽदृष्टविशेषोपनिबद्धसंस्काराधिकरणस्य तत्प्रदेशस्य श्रोत्रत्वात्, तेन च दूरभूतानामपासनं प्रथमो दोषः, नागि द्वितीयस्तस्य प्रतिपाणिभेदेन श्रोत्रनानात्वस्यवोपपत्तेरिति व्यवस्थाद्वयं परिकल्प्येत; निष्प्रदेशस्यैव । तस्याभ्युपगमात् । कल्पितस्य च तत्प्रदेशस्याकिञ्चित्करत्वात् । तदुक्तं कुमारिलेन
"आकाशश्रोत्रपक्षे तु विभुत्वात्प्राप्तितुल्यता। दूरभावेऽपि शब्दानामिति ज्ञान प्रसज्यते ॥ श्रोत्रस्य चैवमेकरवं सर्वप्राणभृतां भवेत् । तेनैकश्रुतिवेलायां शृणुयुः सर्व एव ते॥ तस्यामवयवत्वाच्च न धर्माधर्मसंस्कृतः। नभोवेशो भवेरछोत्रं व्यवस्थावयसिद्धये ॥"
[ मी० श्लो० शब्दनि० ५६.-५९ ] इति । ततः क्षयोपशमविशेषाधिकरणजीवप्रदेशावष्टब्धः कश्चिच्छरीरावयव एव श्रोत्रमिति १० स्यातादिनः, तत्संस्पर्श व शब्दस्य प्रत्यवभासनात् । शब्दावभासनं हीन्द्रियं श्रोत्रम् । तच्च तदवयव एव युक्तः, तत्सम्बन्धादेव तस्योपलम्भात् तदभावे च विपर्ययात् । तथा च 'पुद्गलपर्यायः शब्दः शरीरावयवसम्बन्धेनोपलभ्यमानत्वात् शीतातपादिवत्' इत्यनुमानविजृम्भणात नाकाशगुणत्वं तस्य तद्वदेवेति प्रतिपादितं भवति । एतदेव दर्शयन्नाह
१"तैजसवं तु तस्य रूपाविषु मध्ये नियमेन रूपस्यैवामिव्याकस्मात् प्रदीपवत्-प्रशमन्द. १०. ग्यायकुमु०पू० ७६ दि० २।२ वैशेषिकः । ३ आकाशस्थ ।