SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३२६ न्यायविनिश्चयविवरणे [ ३४९ पुनस्ते स्वयं भवन्तस्तदुनयस्य हेतव इति चेत् ? स्वहेतुभ्य एव । स्वहेतवश्च तेषामुपादानतया पुद्गलविशेषाः, सहकारितया च ताल्वादिस्थानप्रयत्नभेदास्तेभ्य एव । कथमेवमपि युगपत् समानाने कर्णोत्पनिरिति चेत् ? योगपद्येन बहुभिरुपलम्भादेव । न चायमेकत्वे वर्णस्य सम्भवति, एकश्रोत्रप्रविष्टस्य तदेव तदन्तरप्रवेशासम्भवात् । एकस्यापि व्यापिनः ५ सम्भवत्येव युगपदने कतत्प्रवेश इति चेत्; न; तथापि समग्रस्य तदसम्भवात् असमग्रोपलब्धस्य च वाचकत्वानुपपतेः । एतदेवाह सकलाग्रहणात् [तेषां युक्ता हि श्रोत्रगोचराः ] । इति । १० सकलस्य समग्रशकदपरिणामस्य यद् अग्रहणम् एकत्वाभ्युपगमे प्राप्तं तस्मात् समानोयहेतव एव त इति । कथमेक एवं मारावीति तदुपलब्धिमतां संवाद इति चेत् ? न; सादृश्यादपि तदुपपतेः । दृश्यते हि ततोऽपि तथासंवाद :- यर्थंक एवाहारः पक्तिगतानामिति । ततो युगपत् सकलाकारतया भिन्नदेशव्यवस्थितानेकप्रतिपत्तुगोचरत्वादनेक एवं शब्द | श्रस्याप्यकारिनेकस्यापि शब्दस्य तथा तद्विषयत्वोपपत्तेः नातस्तनानात्वप्रतिपत्तिरिति च ेत्; न; तत्प्राप्यकारित्वस्यानुमानतः प्रतिपतेः । प्राप्यकारि श्रोत्रं प्रत्यासन्न१५ ग्रह्णात् सावर्येण घाणवत् वैधर्म्येण नयनवत् । न चैवं दिग्विभागस्य दूरादिभावस्य चाप्रतिपत्तिरेव श्रोत्रं प्रति शब्दस्याभिपतन विशेषादेव प्राच्योऽयमुदीच्योऽयं प्रत्यासनोऽयमन्यथा वेति तत्र प्रतिपत्तेः सम्भवात् प्राप्यकारिण्यपि घ्राणेन्द्रिये तत एव तद्भावात् । कथमन्यथा पिपीलिकादीनां गन्धाभिनदिगभिमुखतया प्रत्यासन्ते दूरे वा गन्धद्रव्ये प्रवृत्तिः ? एवं तहि दूरत्वस्यासत एव तत्र प्रतिभासनात् श्रोत्रज्ञानं कथमभ्रान्तमिति चेत् ? न शब्दरूपस्य सत एवं तंत्र प्रत्यवभासनात् । भ्रान्तेतरात्मकत्वमेकत्र विरुद्धमिति चेत् न, दृष्टत्वात् । कथमन्यथा साकारज्ञानवादिनस्तवाप्ययं न दोषः - ज्ञानान्तर्गतत्वेनादूरस्यैव नीला रतया प्रत्यवभासनात् । न हि तद्विषयं ज्ञानमपि दूरमेव शरीरस्य निर्ज्ञानत्वापत्तेः । ज्ञानान्तरेण तस्य राज्ञानत्वमिति चेत् न तस्य निर्विषयस्याभावात् सविषयस्य पूर्ववद्दूरत्वापत्तेः पुनरपि ज्ञानान्तरेण तस्य सज्ञानत्वकल्पनायामध्यवस्थितिप्रसङ्गात् । तन शरीराद् २५ बहिर्शनिकल्पनमुपनं निःशरीरस्य ज्ञानस्याप्रतिवेदनात् । ततो दुष्परिहरमेवाप्राप्यकारि श्रोत्रादिकं ब्रुवतोऽपि तज्ज्ञाने विभ्रमेतरात्मकत्वमिति न तेन वयं पर्यनुयोक्तव्याः । ततो युक्तं श्रोत्रस्य घ्राणादिवत् प्राप्यकारित्वम्, अन्यथा नयनादिवत् प्रत्यासन्नग्राहित्वाभावप्रसङ्गात् । अस्ति च तत्रेदम् - कोटकध्वानादेः कर्णविवरान्तर्वतिनोऽपि तेन प्रतिवेदनात् । न तदप्राप्यकारिणि चक्षुषि दृष्टं तदन्तर्गतस्याञ्जनादेस्तेनाप्रतिपत्तेः । तथा च कस्यचित् ३० सुभाषितमपि "न स्वमलमति पश्यति शशिति कलङ्कं निरूपविष्यति” | ] इति । चक्षुरपि प्राप्यकार्ये 'बाह्येन्द्रियत्वात् त्वगादिवदिति चेत्; अत्र चक्षुर्यदि गोलकमेव न हि तत्र प्राप्यकारित्वसाधनमुपपन्नम्, तत्पक्षस्य अनुष्णाग्निपक्षवत् प्रत्यक्षेण बाधनात् विषयविप्रकृष्टस्यैव हि गोलकस्य प्रत्यक्षेण प्रवेदनं न तत्प्राप्तस्य । रश्मिद्वारेण तत्प्राप्तस्या: स्त्येव तस्यानुमानतः प्रतिपत्तिः । तच्चेदमनुमानम् - रश्मिकलापालअकृतं चक्षुः तैजसत्वात् ૨૦ १ प्राप्पार्थं परितेन्द्रियत्वात् स्वगिद्रियचत्" - म्यापा० ० ५०७३ । म्याप कुमु० कि० पृ० ७५ टि० २ ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy