________________
२ प्रवचमप्रस्तावः शालाशब्दे सम्बन्धपरिशानात् मालादिशब्दस्यापि तदर्थवाचकत्वम्, वर्णमात्रेण सादृश्येऽपि पदरूपतया तदभावात् । यदप्युक्तम्
"सादृश्यात् प्रतिपती व भान्तिज्ञान प्रसज्यते । घूमे दृष्टेऽग्निसम्बन्धे वाष्पादिव कृशानुधीः ॥"
[मी० श्लो. शब्दनि० श्लो० २६९] इति। ५ तत्रोपपन्नं बाष्पादग्निज्ञानं भ्रान्तमिति घूमस्यैव तत्र प्रतिबन्धपरिशानम्, तत्सादृश्यस्य शब्दस्य तु तदन्तरसदृशस्यैव तदर्थे तत्परिज्ञानात् । कुतस्ततः तज्ज्ञानस्य विभ्रमत्वम् ? अपि च, एवं घूमान्तरादपि दहनज्ञानं भ्रान्तं भवेत, तस्यापि सादृश्यादेव गमकत्वात् । सामान्यस्य तदर्थान्तरस्य प्रत्याख्यानात् । अप्रत्याख्यानेऽपि वाष्पादनलज्ञानं भक्तोऽपि कुतो भ्रान्तम्, घूमसामान्यस्य तत्राभावादिति चेत् ? न ; पाण्डुत्वादेर्भावात् । तद्विशेषस्याभावादिति १० चेत् ; ममापि हि सादृश्यविशेषाभावात् भवतु ततस्तज्ज्ञानं भ्रान्तम्, न तद्वतः शब्दात् तदर्थशानमिति समः समाधिः । ततः सूक्तम्-'तादृशो वाचकः' इत्यादि ।
मवतु तादृशस्य वाचकत्वं शब्दस्य मयापि तथा तदभ्युपगमादिति सौगतः; तन्न तन्मते शब्दस्यवासम्भवात् । स हि पदादिरूपो न विना वर्णव्यवस्थितिमवस्थातुमर्हति । वर्णक्रमसन्दोहस्य पदत्वात्, पदक्रमसङ्घस्य च वाक्यत्वात् । स च वर्णः क्षणक्षीणेकध्वनि- १५ स्वभावः, क्षणपर्यायप्रवृत्तानेकध्वनिरूपो वा प्रकारान्तरानिरूपणात् ? न तावदाद्यो विकल्पः; अनभ्युपगमात्, क्रमप्रवृत्तासख्येयध्वनिभागपरिनिष्ठितास्मा ह्येककोऽपि वर्णस्तस्याभिप्रेतः । तत्रासङस्येयक्षणनिमेषपरिसमाप्तिरिति वातिक श्रवणात । नापि द्वितीयो बिकल्पः; ध्वनिक्षणानां निरवधिनाशे हेतुफलभावानुपपत्त्या तन्निबन्धनस्य पौर्वापर्यस्यासम्भवात् । निरूपिता च तत्र तदनुपपत्तिः । सम्भवत्यपि तस्मिन् कथं बहुष्वेकव्यपदेशोऽयमकारो २० गकारो देति ? तेष्वेकत्वस्य कल्पनास् तद्रूपत्वाच्च वर्णादेरिति चेत् ; ननु कल्पनमपि शम्दादेव "विकल्पाः शम्बयोनयः" [
] इति वचनात् । स शब्दो यदि स एवाकारादिः तर्हि "विकल्पात्तस्य, ततो विकल्पस्य निष्पत्तिः' इति परस्पराश्रायात् नोभयस्यापि सम्भवः स्यात् । अथान्य एव स शब्दो यतो विकल्प इति; तन्न; तस्यापि तत एक कल्पने तथैव दोषात् । पुनरप्यन्यतः तत्कल्पितादेव शब्दात् तद्विकल्पपरि- २५ कल्पनायामितरेतराश्रयप्रवाहप्राप्तः । विकल्पान्तरकल्पितातु ततस्तत्कल्पनमित्यपि न युक्तम् । तदन्तरस्यापि स्वकल्पितादेव शब्दादपरापरस्मादुत्पत्तिपरिकल्पनायो पूर्ववदोषात्, तस्यापि तदन्तरकल्पितात् ततस्तत्रपरिकल्पनायामनवस्थाप्राप्तेः । नायं दोषो हेतुफलभावेनानादित्वात् शब्दाकारावमासिनो विकल्पप्रवाहस्येति चेत् ; न; एवमपि तदसम्भवात् । तथा हि
अवस्तुसन् यदा वर्णः तदा तत्कल्पनाकरी। बुद्धिस्तन्मात्ररूपत्वात्कथं वस्तुसती भवेत् ॥१७९९।। यतः शम्दस्प सा हेतुस्तस्याः शब्दोऽपि वा फलम् ।
न ह्यसत्कस्यचिद्धेतुः कार्य वा व्योमपुष्पवत् ॥१८००॥ १ "समात्योऽपि हिपमा निमेषतमितस्पितिः। स च क्रमानेकासम्बन्धेन निविवति ॥" -प्र.पा. १९५। "स चाक्षिनिमेषकाजस्थायी प्रकारादिः अनेकेषामाकारातमःसंशितान पचममाखाइमपतिबामधूना सम्बन्धेनाकमणेन निमेषकाखसशिवेन क्रमाद् मूसः क्षम्यवधानात् नितिष्ठति परिसमापते"-मनोस्थन।