________________
५।४५-४६]
३प्रवचनप्रस्ताव सर्वार्थ शब्दस्य या योग्यता सा न साध्वी इति निवेदिताद् दोषात् । नायं दोषः, तस्याः सङ्केतात् विषयनियमोपपत्तेः । एतदेवाह
'सङ्कतान्नियमो यदि। इति । अत्रापि तदेव दूषणम्-तदन्तरस्यानभिधानात् । तथा हि-यदि सत्यामपि योग्यतायां सङ्केतस्थापेक्षा स एव तहि-शब्दस्प तवर्थप्रत्यायने शक्तिरिति न स्वतो योग्यता साध्वी। ५ द्वितीयेऽपि विकल्पे दोषमाह
सम्बन्धनियमेऽन्यत्र समयेऽपि न बसताम् ||४५॥ इति । सम्बन्धस्य योग्यतारूपस्य नियमो नियतविषयत्वम् तस्मिन् अन्यत्र अर्थान्तरे समयेऽपि शब्दो न वसंताम् न प्रवर्तत । वर्तते च उर्वश्यादिशब्दस्य देवगणिकादौ प्रसिद्धस्य दादापि सङ्केत वशात प्रवृत्ति प्रतिपत्तेः । तन्न शब्दार्थयोरपौरुषेयः सम्बन्धः सम्भवति । १० तदेवाह--
ततः शब्दार्थयोर्नास्ति सम्बन्धोऽपौरुषेयकः । इति । सुबोधर्मतत् । कस्तहि तयोः सम्बन्धः ? इत्याह
सहि शब्दार्थसम्बन्धो यतोऽर्थः सम्प्रतीयते ।।४६।। इति ।। यतो यमाश्रित्य शब्दादर्थप्रतिपत्तिः स एव तयोः सम्बन्धो भवितुमर्हति । स च सङ्केत १५ एव, तद्वलादेव शब्दार्थप्रतिपत्तेपालम्भात् न स्वतो योग्यत्वम् । यद्येवं शास्त्रकारेण कथमन्यत्र प्रतिपादितम् ?
"योग्यः शब्दो विकल्पो या सर्वः सर्वत्र बेत्स्वतः । मिथ्यात्वं परतस्तस्य चक्षुराविधियामिव ॥"
[सिद्धिवि० परि ५] इति । इति चेत् : न; यतो न हि तत्रापि स्वतो योग्याचेन तस्म तात्पर्यम्, अपि तु तदभ्युपगमेन शब्दस्यार्थविषयत्वमिति निवेदन एव तत्रापि तात्पर्यम्, अन्यथा कथमत्रेदमभिदध्यात-स्वतः सामध्यविलेषात' इति? कथं चेदम वाचः प्रमाणपर्यायाः प्रामाण्यम' इति ? स्वतः शब्दस्य योग्यत्वे प्रामाण्यस्य स्वत एवोपपत्तेः, सतोऽपि पुरुषस्य गुणस्य तन्मिथ्यात्वापाकरण एवं व्यापारात् । तन्न शास्त्रकारस्य तत्र तात्पर्यम्, सङ्केत एव २१ तच्छक्तित्वेन तात्पर्यात् ।।
स्यादाकूतम्-व्यवहाराय सङ्केतः, न चानित्यत्वे शब्दस्य सतो व्यवहारः, कृनसङ्कास्य तस्य तत्समयेऽनन्वयात्, अन्यस्य तदा सम्भवतोऽप्यकृतसङ्केतत्वेनार्थवस्वापरिज्ञानादिति ; तन्न: सङकेतस्य विकल्पावभासिशब्दोपदर्शनद्वारेण देशकालानविच्छिन्नसकलतत्सदशशब्दविषयतवैव ईदृशमीदृशस्य गमकमितिवत् वाचकमिति च प्रतिपादनेन लिङ्गान्त- ३० रस्येव शब्दान्तरस्याप्यर्थवस्त्रपरिज्ञानात् कुतो न व्यवहाराय सजाकेत: स्यात् ? ततो निषिद्धमेतत
"शब्दं तावानुण्यार्य सम्बन्धकरणं कृतः ।
नवोच्चरितनष्टस्य सम्बन्धन प्रयोजनम् ॥ १मध्यम-पु. ॥१९ ।