________________
३२०
न्यायविनिश्चयविवरणे शब्दार्थयोर्विकल्पेन, [सन्निवेशोऽनुवर्तते ॥४४॥] इति । सयो ८३. सन्जकिर नानाख्यातनिपातोपसर्गाविरूपो भेदः, अयों वाध्यस्तस्यापि जातिद्रव्यणुणक्रियादिरूपो भेद एवं विकल्पस्तेन. सङ्केतो बहुधा शब्दादेः, तद्विषयस्य विकल्प
तस्यापि विकल्पोपपत्तिरिति भावः । मदि वा तयोविकल्पो भेदाभेदयोर्गुणमुख्यभावाभ्यां -५ परामर्शस्तेन बहुधेति । तत्र गुणभावेन भेदविकल्पे अस्यान्नस्य प्राणा इति वाचकमिति ।
अभेदविकल्पे च इदमनं प्राणा इति च सङ्केतः। गुणभूतं चानस्य प्राणत्वम् प्राणस्थितिहेतुत्वेन प्राणत्वस्य तत्रोपचारात् । अतः प्राणशब्दस्य तद्वाचकत्वमपि गुणत एव । मुख्यतस्तदुभयविकल्पस्तु एषां निःश्वासादीनां प्राणा इति वाचकम्, एते वा निःश्वासादयः प्राणा इति च सहुतः ।
कथं पुनः सकेतस्य करणं यस्याये प्रपञ्चः ? कथन स्यात् ? अनुपलब्धस्य शब्दस्य तदयोगात्। उपलब्धस्याप्युच्चरितप्रध्वंसिरवेन सरकेतकालेऽनन्वयादिति चेत्; मा भूत् प्रत्यक्षतः तत्काले तस्य प्रतिपत्तिः, प्रत्यक्षस्य॑व विषयसनिधिसव्यपेक्षत्वेन तदभावेऽनुपपत्तेः । तदुत्तरकालमाविना तु विकल्पेन भवत्येव प्रतिपत्तिस्तस्य सन्निहितवत् विप्रकृष्टंऽपि
प्रवृत्तः । तत्प्रामाण्यस्य च द्वितीये व्यवस्थापितत्वात् । एतदेवाह-शिव' इत्यादि । शम्बार्ययोः १५ यस्सलकेतोऽयमस्य वाचको वाच्यश्चायमस्येति समयः स विकल्पेन महापरनामधेयेन
प्रमाणेन । यद्येवं सर्वस्यापि शब्दस्य प्रमाणविषये एव सङकेतात सत्यवार्थे प्रवृत्तिः, नास्ति समयान्तरभेदिनि प्रधानादौ तत्र सङकेतस्यैव तनि बन्धनप्रमाणाभावेनासत्त्वात् । तदुक्तम्
"परमार्थकतानत्वे शरवानामनिवन्धना ।
न स्पात् प्रवृत्तिरर्येषु समयान्तरभेविषु॥" [प्र. वा. ३।२०६] इति चेत्, न; विकल्पेनापि प्रमाणेनैव सङ्केत इति नियमाभावात्, मिथ्याविकल्पेनापि प्रायशस्तरिक्रयादर्शनात् । तद्विकल्पस्य च परपरिकल्पनाया: समयान्तरभेदिष्वयेंषु भावात् । ततो 'विकल्पेन' इति सामान्येन अवतः शास्त्रकारस्यायमभिप्रायःभावामावतदुभयविषयत्वात् विकल्पस्य तदुपल्पित-सङ्केतसामर्यादर्थविषयत्वमावहता
शब्दानामपि तद्विषयत्वमेवोपपन्नम्, न परमार्थेकतानत्वमिति । न च करयचित् तस्य २५ परमार्थविषयत्वमिति सर्वस्यापि तत्कल्पनमुपपन्नम्, बुद्धिष्वपि प्रसङगात् । शक्यं हि वक्तु
परमार्थकतानत्वे बुद्धीनामनिबन्ध ना ।
न स्यात् प्रवृत्ति रर्थेषु समयान्तरभेदिषु ।। १७९४।। इति । ततो यया बुद्धित्वाभेदेऽपि सामग्रीगुणदोषाभ्यां भावाभावादिविषयत्वं बुद्धीनां तद्वच्छन्दानामपीति समन्जसम् । ततो न सकेतस्याकरणम्, तत्कालेऽपि विकल्पविषयतया १० शब्दस्यापकान्तस्यापि परिस्फुरणात् । एतदेवाह-सनिवेशोऽनुवर्तसे इति । सनिवेशः सन्दर्भः,
स च वर्गानामेव प्रक्रमादमुवर्तते विकल्पम् तद्विषयत्वेनानुसरति । यदि पुनः शब्दस्य वस्तुनि स्वत एव योग्यत्वं को दोषो येन सङकेतः तत्रापेक्ष्यत इति चेत् ? उच्यते-तत्सर्वविषयम नियतविषयं वा ? पूर्वविकल्पे ततो युगपत् सर्वार्थप्रतीतिप्रसङगः । तथा च न ततो नियत. विषयः प्रवृत्त्यादिरिति व्यवहारविलोपः । तत आह
न सर्वयोग्यता साध्वी सङ्कतान्नियमो यदि। इति । १ एवं मा०।