________________
३४३-४४ ]
३१९
निबन्धनादपि स एवायमित्यभेदसमारोपवतः प्रत्यभिज्ञानादर्थापतेर्वा वैदिकानां यदि नित्यत्वपरिकल्पनं प्रत्यागमानामपि भवेत् तदविशेषात् इत्यपौरुषेयतया तेषामपि धर्मादी प्रामाण्यात् " खोवनैव प्रमाणम्" [मी० श्लो० चो० श्लो० ४] 'इत्यवधारणमनवधारणप्रयुक्तमिति न वा ततो नित्यत्वप्रतिपत्तिः तदागमवता मनित्यत्वाभ्युपगमेन बाधनात् । न तहि वैदिकेष्वपि स्यात् "लक्षणयुक्त बाधासम्भवे तरलक्षणमेव ब्रूषितं स्थात " प्रमाणवा तिकाल - १० ३।७१] इति न्यायात् तत्रापि तेषां तदभ्युपगमभावाच्च । तत्र प्रत्यभिज्ञानादेः शब्दे नित्यत्वप्रतिपत्तिः । आत्मादौ तु ततस्तत्परिज्ञानमनुपद्रवत्वादिति न किञ्चिदसमञ्जसमासज्यते । कथं पुनरसति नित्यत्वे शब्दस्य प्रामाण्यमिति चेत् ? क एवमाह-वस्य प्रामाण्यमिति, सम्यग्ज्ञानस्यैव तत्त्वात् शब्दस्य तु त्वं तत्कारणत्वेनोपचारात् । न च तद्धेतुत्वमपि नित्यस्वात्, अपि 'तु तदर्थं वेदिपुरुषपूर्वं कटवान् । एतदेव दर्शय शाह
वाचः प्रमाणपूर्वायाः प्रामाण्यम् । इति ।
प्रमाणमिह वागर्थवेदिनः पुरुषस्य ज्ञानं तत्पूर्वाधा वाचो वचनस्य प्रामाण्यं न नित्यस्वापरनामधेयादपौरुषेयत्वात् । अत्रैवोपपत्तिमाह
प्रवचनेप्रस्तावः
पुनर्बहुधा लोकव्यवहारस्य दर्शनात् । इति ।
स सङ्केतः । पुनरिति वितर्के । बहुधा कथितेन प्रतिपत्तिप्रकार बहुत्वेन बहुप्रकार इत्यर्थः । कुत एतत् ? तथैव लोकव्यवहारस्य तत्प्रतिरूपस्य दर्शनानुपलम्भादिति । साम्प्रतं वाच्यवाचकयोविकल्पेनापि सङ्केतस्य भेदं दर्शयशाह
५.
वस्तुसिद्धये । स्वतः सामर्थ्यविश्लेषात् सङ्कतं हि प्रतीक्षते ||४३|| इति |
agar एव तस्य सिद्धिः ज्ञप्तिः तदर्थं हि यस्मात् सतं समयं प्रतीक्षते वाक्, अतः तत्पूर्वाया एव तस्याः प्रामाण्यम् । तत्प्रतीक्षत्वमपि कुतस्तस्या इति चेत् ? स्वतोऽन्यनिरपेक्षत्वेन सामग्यंस्य वस्तुसाधनशक्तेः विश्लेषाभावात् । ननु समयप्रतिपत्तिरपि roser शब्दादेव तस्यादि समयप्रतीक्षत्वं तत्रापि तत्प्रतिपत्तिरन्यतः शब्दात् तत्राप्यन्यतस्ततः इति परापरशब्दप्रतीक्षायामेव कालोपक्षयान प्रकृते तत्प्रतिपत्तिर्भवेत् । तस्य तदन- २० पेशवे तु सिद्धं स्वतोऽपि सामर्थ्यम्, अन्यथा ततस्तत्प्रतिपत्तेरसम्भवात् । तथा च शब्दान्तरस्यापि तदविरोधाद् व्यर्थ तत्प्रतीक्षणमिति चेत्; न; शब्दादेव तत्प्रतिपत्तिरिति नियमाभावात् । भवति हि बालकादेर्वृजव्यवहारदर्शनादपि पदतदर्थादिसम्बन्धप्रतिपत्तिः । कस्यचित् जन्मान्तरसंस्कारोन्मीलनादपि अश्रुतपूर्वस्याख्यानकृतोऽपि दर्शनात्। कस्यचित् स्वबुद्धिबलादपि यथा पाणिने :- 'आर्दो वृद्धि:' इति, अदेशो गुण:' इति, "बुद्धिरादैच् [पा० सू० २५ |१|१|१] इति "अवेष गुण:" [० सू० १|१| २ ] इति च तेनैवाभिधानात् । यथा वा तत्रैव पूज्यपादस्य भगवतः ऐबिति 'एबिति च "आरेज" [ जैनेन्द्र० १ १ १५ ] इति “अबे प्" [ जैनेन्द्र० १११।१६] इति च तस्यैव वचनात् । तदेवमनेकधा समयप्रतिपत्तिसम्भवेनोपपर्श तत्प्रतीक्षर्यवार्थप्रत्यायकत्वं वचनस्य । तदनेकत्वमेव दर्शयन्नाह-
१ चोदनाको धर्मः - अमिनि० १|१|२| चोवनैव प्रमाणं चेत्येतद् धर्मेवारितम् मी० रो० । २ एभिरभिति च प्रा० ।
१०
१५.
३०