________________
३१६ न्यायविनिश्चयविवरणे
[३१४०-४१ श्रस्य बोधे प्रत्यवभासनम्, , अननुभवात् । 'अप्रत्यवभासित्वे च बाबतदभाषयोः कश्चिन्नावकाशः । ततो देशभेदवत् सूर्येऽपि विभ्रमस्येवोपपत्तेः 'पारम्पर्य' इत्यादेरशक्यापाकरणवानुपपत्तिः । कथं वा विभ्रमात्मना भानुमदेशभेदोपलम्भेन शब्दविषयव्यावर्णिततदुपलम्भव्यभिचारः ? प्रत्यभिज्ञानेऽपि प्रसङ्गात् । शक्यं हि वक्तुम्-न घटादिषु प्रत्यभिज्ञानादेकत्व५ प्रतिपत्तिः, लुनपुनरुत्पन्नरोमनखादिप्रत्यभिज्ञानेन व्यभिचारादिति । तदेवाह--
__ मत्यभिज्ञाऽप्रमाणं स्यात् युगपद्भिन्नदेशयोः !॥४०॥ इति ।
प्रत्यभिजा 'स एवायं गकारो योऽन्यत्र श्रूयते' इति प्रत्यवमर्शः । सोऽयं युगपत् अक्रमेण भिन्नवेशयोर्वर्णयोः प्रवर्त माना तदेकत्व सिद्धी अप्रमाणं स्यात् भवेत् व्यभिचारभावादिति भावः । ततो भेदवदभेदस्यापि वर्णेष्वव्यवस्थितेः तदभाव एव प्राप्तो भेदाभेदविकलस्य तस्तुन एत्राप्रतिपत्तेः । न च विभ्रमतोऽपि जलपात्रेषु भिन्नदेशतयोपलब्धिर्गभस्तिमालिना, निर्विन माया सदराका एक तातिपतः । तथाऽगि तत्र तत्कल्पनायामव्यवस्थव, ततोऽप्यन्यत्र पुनस्ततोऽप्यन्यत्र प्रबलप्तेरनिवारणात् ।
भवतु तत्प्रतिनिघरेव तत्रोपलब्धिस्तयाऽपि व्यभिचारः तस्याप्यभिानस्यैव भिन्नदेशतया प्रतीतेः, अभेदस्य समानबुद्धिगम्यत्वेन व्यवस्थापनात् । अत एवोक्तम्
"अनेकवेशवृत्तौ वा सत्यपि प्रतिबिम्बने । समानबुद्धिगम्यत्वान्नानात्वं नव बघते ॥"
[मी. इलो० शब्दनि श्लो० १९० ] इति चेत् : तन्न; जलतत्पात्राणामप्येवमभेदापत्तेः समानबुद्धिगम्यत्त्रस्य भावात् । इदमेवाह-'प्रत्यभिज्ञा' इत्यादि । प्रत्यभिज्ञा समानबुद्धिः सा युगपन्निवेशयोर्जलयोस्त. २० स्पात्रयोश्च प्रवर्तमाना तदेकत्वसाधनं प्रमाणं स्यात् । नायं दोषः, तत्र न्यूनाधिकभावेन
तबुद्धिगम्यत्वाभावादिति चेत् ; न; प्रतिबिम्बऽपि तुल्यत्वात्-तस्याप्यल्पमहतोरधिकरणयोरल्पमहत्वेनैव प्रत्यवलोकमात् । प्रतिबिम्बरूपतया अस्त्येव तत्रापि तद्बुद्धिगम्यत्वमिति चेत्, न; जलादावपि जलत्वादिना तदविशेषात् । भवतु ततस्तत्रापि अभेदप्रतिपत्तिरिति चेत् अत्राह
सर्वार्थानामनादिले स विशेषो निराश्रयः ।
योऽन्यथासम्भवी शब्दघटायाख्योऽवभासते ।।११।। इति ।
शब्दश्च घटादिश्च तयोराख्या कथनं यस्यासौ शब्दघटायाख्यः दाद घटादौ च कथ्यमान इत्यर्थः । कोऽसौ ? विशेषः 'तयोरेव वलक्षण्यम् । काथग्भूतः ? अन्ययासम्भवी
शब्दादन्येन प्रकारेण घटादौ सम्भवी, स नानित्यत्वमव्यापित्वमने व्यक्तिकतयासामान्या३० धिष्ठानत्वमित्यादिः, घटादरम्यन्येन प्रकारेण शब्दे गम्भवी, सोऽपि नित्यत्वं व्यापित्वमेक
व्यक्तिकत्वेन सामान्यबैकस्यमित्यादिः, योऽवभासते मीमांसकस्य चेतमि परिस्फुरति । निराश्रयः प्रमाणात्मन आश्रयान्निष्क्रान्तो भवेत्। कदा? सर्वेषां शब्दवत् घटादीनामपि अर्थानाम् अमारित्वे प्रत्यभिज्ञानबलान् नित्यत्वे स्थापिते सति । उपलक्षणमिदं तेन व्यापिस्वपीति । तथा हि
१ अप्रत्यवभासते च प्रा0 1 २ नगरादिषु प्रा० । ३-मानमित्य-पा०।४ तयोयल-मा।