________________
३|४० ]
३ प्रयचनप्रस्तावः
इति चेत् नः अत एव विद्युदादावपि भतो भेदप्रतिपत्तेरभावप्रसङ्गात् । अपि च न जपात्रे सवितुरर्वेक्षणं तत्र तस्याभावात् यश्च तत्रावेक्ष्यते तत्प्रतिनिधिः स भिन्न एव प्रतिपात्रमिति कथं तेन व्यभिचार: ? सपक्षेणैव तदनुपपत्तेः । भवेदाकूतं भवतः पात्रावस्थिते पयसि परिस्फुरता भानुमतस्तेजसा चाक्षुषं तेजः प्रति तत्पयः प्रवर्त्य - मानं व्योमगतमेव मरीचिमालिनं प्रतिपात्रमनेकधा भिद्यमानमवद्योतयति । न चैवमपि ५ वस्तुतो भेद इति व्यभिचार एवेति तदिदं दुराकूतम् एवमनुभवाभावात् । न हि जलपात्राणि पश्यतो व्योमगत त्रिवस्वदवलोकनस्यानुभवः, तत्प्रतिबिम्बावलोकनस्यैव तद्भावात् । तथाऽपि तदपह्नवेन इतरपरिकल्पनायां न क्वचिन्नियता तत्परिक्लुप्तिर्भवेत् । कथं चैत्र 'जलपात्रेषु' इत्याद्यविरुद्धम् स्वदेशगतस्यैव सवितुरवेक्षणे तत्पात्रेषु तदवेक्षणवचनस्यानुपपत्तेः ? ततो यदुक्तम्
३१५
१०
"अत्र ब्रूमो वयं तावन्जले सौर्येण तेजसा । स्फुरता चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम् ॥ स्वदेशभिन्नं गृह्णाति सवितारमनेकषा | भिन्नमूर्ति ययापात्रं ताकता कुतः ।"
मन्यते ।
[ मी० श्लो. शब्दनि० श्लो० १८०-८२ ] इति । तत्प्रतिविहितम् अनुभवप्रत्यनीकत्वात् स्ववचनविरोघाच्च । यदप्यन्यदुक्तम्"असूर्यदशिनां नित्यं द्वेषाचक्षुः प्रवर्तते । एक मस्ताचच तत्रोर्ध्वं सम्प्रदशितम् ॥ 'अधिष्ठातजस्रवात् साक्षात् सूर्य प्रपद्यते पारम्पर्याऽपि सन्तमबावृत्या तु बुद्धयते ॥ एवं बुलितकत्वादवागिव च अधस्तादेव तेनार्कः सान्तरालः प्रतीयते ॥ " [मी० इलो० शब्दनि० इलो० १८६-८९ ] इति । तत्रापि योऽसौ चक्षुषोज्याग्वृत्त्या सूर्यस्यावागवबोधः स वेदभ्रान्तः कथमेतद् 'अयागिय च मन्यते' इति ? विभ्रमविकात्ततः तथा मननासम्भवात् । अथ भिन्नमेव २४ तद्वात् तथा तन्मननम्, अत एव 'अवाग्वस्था तु बुद्धघते' इत्यतः पृथगेव 'अवागिव मन्यते इत्युक्तम् । न ह्यभेदे पृथग्वचनमुपपन्नं पौनरुक्त्यदोषात् । ततोऽन्यदेव तथा तन्मननं न प्रत्यक्षमिति चेत् न तथाऽसम्प्रत्ययात्। न हि प्रत्यक्षमन्यत् - यथाऽवस्थितमरीचि - मालिगोचरम्, तदनन्तरं च तदवाग्भावविभावनं मननमवलोकयामः चक्षुर्ष्यापारानन्तरम् अवाचीनस्यैव तिरुचिरूपस्य निरूपणात् । तथाऽपि तत्कल्पनायां सुखं जीवन्तु सौगताः, ३० बहिरन्तश्च निरंशक्षणिक परमाणुदर्शनस्य तदनन्तरभाविनः स्थूलैकविकल्पस्य च तत्परि कल्पितस्यापि एवमव्याकुलमवस्थितः, 'अतोऽयं भ्रान्त एव न तर्हि 'पारम्पर्यापतम् इत्याद्युपपन्नम् विभ्रमविषयस्य सत्त्वानुपपत्तेः । न सूर्ये तस्य विभ्रमो देशभेद एव तद्भावादिति चेत् न तत्रापि बाषाभावात् । सूर्यसम्बन्धिनि बाध एवेति चेत्; नः सूर्येऽपि तत्सम्ब- ३५ िित तदविशेषात् । न तन्मात्रे बाध इति चेत्; न; तस्याप्रतिभासनात् । न हि तन्मा
१
प्रदर्शितम् - मी० श्लो० । २ जिवामाना सूर्य भा० । अधिष्ठानात्वाच नाथमा सूर्य मी० श्लो० । ३ ततोऽभ्यसदेव प्रा० १ ४ यथार्थ श्रा० ।
१५
२०