________________
२०३६ ३ प्रषचनप्रस्ताव
३०५ श्रवणस्यैव सम्भवात् । कुत्तो वा प्रयासस्य व्यञ्जकत्वमेव न कारकत्वम् ? ततः प्रागपि शब्दस्य भावादिति चेत् । श्रोत्रज्ञानविषयत्वमपि भवेत् तस्य तल्लक्षणत्वादिति व्यर्थ एव प्रयासः स्यात्-तेनापि तस्यैवाभिव्यक्त्यपरनामधेयस्य करणात्, तस्य च बिनाऽपि तेन सत्वात्, सतश्च करणे तदपरिनिष्ठप्रसङ्गात् । तज्ज्ञानयोग्यत्वेनैव प्राक् तस्य भावो न तद्विषयत्वेनेति च स्; न; तत्रापि तवयाविशेषात् । तथा हि
योग्यः प्रागपि शब्दश्चेत् स्वज्ञानजननं प्रति । प्रयासापेक्षया तत्र किमन्यत् फलमुच्यताम् ।।१७४३॥ 'स प्रयासव्यपेक्षश्चेत स्वज्ञानजननक्षमः । प्रयासाधीनतच्छक्तिस्ततः पूर्व कथं भवेत् ।।१७४४।। शक्तिस्तस्य तदायता न चेत् किं तद्व्यपेक्षया । व्यक्ता (क्त्या) ख्यमेव कार्य' चेत् न स्वशक्तेस्तदुद्भवात् ।।१७४५ ।। केवला सा न हेतुश्चत् जह्याच्छक्तित्वमात्मनः । कार्यशन्याऽपि शक्तिश्चेत् शक्तिः स्याद व्योमपधिनी ॥१७४६|| जहातु नाम कैवल्ये तत्साहित्ये तु नेति चेत् । तदैव तहि सा शक्तिर्न ततः प्राक्, ततः कथम् ।।१७४७।। थोत्रवेदनयोग्यस्य शब्दस्य प्रागपि स्थितेः ।
तव्यक्तावेव सर्वोऽयं प्रयास इति कथ्यताम् ।।१७४८।। कूतो वा तस्य प्रयासात प्रागपि भावः? ततोऽभिव्यक्तेरिति चेतः संब ततः कस्मान्न निष्पतिरेव । प्रामपि ततस्तस्य भावादिति चेत् नः परस्पराश्रयात् । प्रत्यभिज्ञानात् तर्हि तदा सद्भावः ।
"शब्दोऽपि प्रत्यभिज्ञानात् प्रागस्तीत्यनुमीयते।" [ मी० श्लो. शब्दनि० श्लो. ३३ ] इति ।
- इति चेत् किं पुनरिदं प्रत्यभिज्ञानं नाम ? स एवायमिति पूर्वापरयोरेकत्वपरिज्ञानमिति चेत्, न; सर्वथैकत्वे पूर्वापरभावस्थानुपपत्तेः, तत्र हि पूर्वभाव एवं वा भवेत्, उत्तरभान एव वा ? तत्र पूर्वविकल्प पूर्वतयैव तस्याभिव्यक्तिरिति न साम्प्रतिकतया २५ प्रतिपतिर्भवेत् । पूर्वस्यापि ततः पूर्वभावे न पूर्वतयारि प्रतिपत्तिः, ततोऽपि पूर्वतयैव तत्सम्भ. वात, एवं तत्रापि वक्तव्यमिति न क्वचिदबस्थिता प्रयासतस्तदभिव्यक्तिभवेत् । उत्तरविकल्पे तु प्राग्भावस्था भावात् न प्रयासात् 'तस्योंभिव्यक्तिः । कञ्चिदेकत्वे तु पूर्वस्मादुत्तरस्य श्रोत्रबोधानुपातिनो भेदोऽप्यस्तीति 'तत्कादाचित्कत्वे कारणमभिधातव्यम्, अन्यथा तदयोगात् । तच्च न प्रयासाद् अपरमुपलभ्यत इति कथं तत्वार्यतैब तत्र न भवेत् ? सत्यपि १० तस्य प्राग्भावे प्रयासोपनीतलनिभिः कथमप्रतीतरभिव्यक्ति: ? प्रतीतरेव प्रदीपालोकादिभि: घटादीनां तदुपलब्धेः । न प्रतीतिरभिन्यवतावङ्ग शयतेरेव तत्वात्, मन्त्रादिना तनिषेधे सदालोकादीनामपि अनभिव्यञ्जकत्वात् । न च तस्यामपि पर्यनुयोग:-'कीदृशी सा' इति ? कारकशक्तावपि प्रसङ्गात, तत्रापि अतीन्द्रियत्वेनाप्रतीतेरविशेषात । न तावताऽसौ निष्प्रमाणिकव कार्यदर्शनेन कारकशक्तिवत् व्यक्तिदर्शनतो व्यञ्जकशक्तेरण्यवस्थापनात् । ३५
१ प्रमागत् मागपि । २ प्रयासेनापि । ३ सम्दः।.५ -स्याप्यभा-श्रा, बप. | ६वभिव्यकः क-आ०, ब, प० |७ शवस्य । शावमित्यरवे ।। शकावपि । १. सतीति सा।
२०