________________
३०२
न्यायविनिश्चयविवरणे
[२३१-३३ तथा तक्तब्यम विशेपादिति कथं तन्छक्तिरन्यतो न भवेत् यतः सत्यज्ञानशक्तिरपि 'तथा परतो नानकम्प्येत । स च पर: पुरुषरतदर्थसाक्षात्कार्यव नापरः, ततः तदनवकल्पनस्य वक्ष्यमाणत्वात् । तदेव दर्शयन्नाह--
शास्त्रज्ञाने तथैव स्यात् सामग्रीगुणदोषतः । इति । एवकारी हेतुपदानन्तरं द्रष्टव्यो भिन्नक्रमत्वात् । तदयमर्थ:-शास्त्राद्वेदादन्यतो यजाने तदर्थविण तत् स्यात् भवेत् । कथम् ? तया तेन सत्यमिथ्यात्वात्मना प्रकारेण । कुतम्मथा तत् स्यात् ? सामयी शास्त्र ता गौ माता लोणी पुषविशेषापादितसत्यमिथ्याज्ञान जननशक्तिरूपी तत एव ताभ्यामेव । दोपग्रहण निदर्शनार्थम्, यथा दोषतो मिथ्यात्वेन
भावस्नया सत्यत्वेन गुणत इति । सतोऽपि गुणस्य दोषापाकरण एव व्यापारो न सत्यज्ञाने, १० तस्य शास्त्रादेव भावादिति चेत्ः किमेवं दोषस्थापि गुणापाकरण एव व्यापारात् मिथ्या
ज्ञानमपि शास्त्रादेव न भवेत् ? दोषतः पूर्व गुणस्यैवाभावादिति चेत्; गुणतः पूर्व दोषस्याप्यभावात् न ततोऽपि तदपाकरणं स्यात् । सम्भवनियमे वा दोषस्य गुणस्यापि स्यादविशेषान् । ततो युक्तं तज्ज्ञानस्य पुरुषायत्तगुणोपनिबन्धनत्वेन परत एव प्रामाण्यम्
कि पुनवेदे तदर्थदर्शिना पुरुषेण ? न हि तेन तस्य करणं नित्यत्वात्, नापि तदर्थज्ञानस्य १५ तम्यादि जैमिन्यादिसम्प्रदायपरम्परात एवोपपत्तेरिति चेत् नः प्रयत्नसापेक्षत्वेन तत्र नित्याविरोधस्याभिधानात् । तदविरोधेऽपि दूषणमाह
अविरोधेऽपि नित्यस्य भवेदन्यपरम्परा ॥ ३१ ॥
तदर्थदर्शिनोऽभावान्म्लेच्छादिव्यवहारवत् । इति ।
अन्धवत् अन्धो जैमिन्यादिसम्प्रदायः तस्यातीन्द्रियस्वर्गयागसम्बन्धादिवेदार्थसंस्पर्श२० वैमुग्यात् तस्य परम्परा प्रवाहो भवेत् । कदापि ? अबिरोधे पि विरोधाभावेऽपि । कस्य ?
नित्यस्य वंदस्य। कुतो भवेत् ? तवयंशिनो जैमिन्यादीनां मध्ये तदर्थ वेदार्थ पश्यतीत्येवंशीलस्य कस्यचिदपि अभावात । अत्र निदर्शनम-म्लेच्छाः 'प्रत्यन्तवासिनो बलावादयः, आदिशब्दादन्येऽपि तादृशा व्याधादय: तेषां व्यवहारो मातृविवाहादिस्तव
तदिति । प्रसिद्ध हि परस्यापि मातृयिवाहादेः श्रेयोहेतुत्वशिनः कस्याप्यभावात्, अतद्दर्शि२५ सम्प्रदायस्य च तद्विमुखत्वादन्ध प्रवाहत्वं तथा प्रकृतस्यापीत्युपपन्नो दृष्टान्तभावः ।
. सत्यपि तदर्थाभि मुख्य अनादिसम्प्रदायत्वे वेदागमस्य भवितव्यं तदर्थदर्शिना पुरुषेणेति प्रनिपिपादयिषुः पूर्वपक्षयति
__ अनादिसम्प्रदायश्चेत् आयुर्वेदादिरागमः ॥ ३२ ॥ इति । मुवोधमिदम् । अत्रोत्तरमाह
कालेनैतावतानातः कथन्न प्रलयं गतः । इति । एतावता अनादिरूपेण कालेन कयन्न प्रलयं गतः तवागमः । कीदृशः ? अनाप्तः अविद्यमानतदर्थ साक्षात्कारिपुरुषः । प्रलयं गतोपपत्त्येव (गत एव उपपत्त्या) रागाद्युपहतचेतस्कतया प्रज्ञाबलवैकल्यादिना त्र अग्दिर्शिनामनुपदेशान्यथोपदेशादेः अप्रतिवेदनान्यथाप्रतिवेदनादेश्च प्रतिपुरुषमुपक्षीयमाणस्य सर्वत्रापि देशे अनादिना कालेन निर्मूलोन्मूलनस्य सम्भवात् ।
तदा भा०, ब, प० । २ 'प्रत्यन्तो म्लेच्छदेशः स्यात्' इत्यमरः । ३ -सदाभिमुखेऽसाक्षाश्रा, घ, प० ।
२०