________________
२६८
न्यायविनिश्चयविधरणे
[३८-२९ प्राणिनस्तदधिकरणान् अदृष्टविशेषानपि तद्धेतुफलविकरुपेन प्रत्याययन्ति, अन्यथा तलिपानतया तत्प्रतिपत्तेरनुपपत्तेः तत्कथमशेषविषयमेव ततस्तन्न साधितं भवेत् ? एतदेवाह--
ब्रहादिगतयः सर्वाः सुखदुःरवादिहेतवः ।
येन साक्षात्कृतास्तेन किन्न साक्षात्कृतं जगत् ॥ २८ ॥ इति । ग्रह आदित्यादिरादिर्येषां तारकादीनां तेषां गतयाचारविशेषाः । उपलक्षण मिदम्लतागुल्मायोषधिगता रसवोर्यादयो मन्त्रध्यानादिगता वशीकरणशक्त्यादयोऽपि सर्वाः निरवशेषाः येन प्रतिपादितवचनोटकामा समानताम्न पुगेण किन्न साक्षात्कृतम् इत्यर्थः ? सुखदुःखादिहेतव इत्यत्रैदोपपत्तिः, यतः तद्गत्तयो रसवीर्यविपाकादयश्च जगतः
प्रीतिपरितापलाभालाभजीवितभरणादेशपिकतयोत्पादकतया चोपजाताः ततः तत्साक्षा१० स्कारिणा तदपि साक्षात्कृतमेच, अन्यथा तत्साशात्करणानुपपत्तेरिति मन्यते । ततः स्थित तद्गत्यादिसाक्षात्कारिज्ञानोपनिबन्धन एव तस्य प्रतिपादितो अचनोपक्रम इति ।
साम्प्रतं परस्य निबंधात् लिङ्गबलोपनिबन्धनत्वे सत्यपि तस्य सूक्ष्मादिपदार्थसाक्षात्करणमवश्यम्भावीति दर्शयन्नाह
सूक्ष्मान्तरितार्थाः प्रत्यक्षाः कस्यचिवथा ।
अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥ २६ ॥ इति। सूक्ष्माः परचेतोवृत्तिविशेषमन्त्रौषधिशक्त्यादयः अन्तरिता देशकालव्यवहिता जीवितमरणलाभालाभादमो दूराः मन्दरमकराकरादयरत एव अर्याः ते कस्यचित् तद्विषयानुमावतः पुरुषस्य प्रत्यक्षा विशदज्ञानविषया इति साध्यन्ते अनुमेयत्वात् अनुमानज्ञानगोचरत्वात् ।
यदि ते प्रत्यक्षाः किमनुमानेन प्रत्यक्षाविषय एव तदुत्पत्तः, “प्रत्यक्षबुद्धिः फमते न यत्र २० तल्लिङगगम्यम्" [युक्त्यनुशा० श्लो० २२] इति भवतामप्यभ्युपगमादिति चेत् : यदि न
प्रत्यक्षाः, तथापि कथमनुमानम् । कय च न स्यात् । व्यायपरिज्ञानात्। न हि प्रत्यक्षादन्यत् साध्यसाचनभ्याप्तिप्रतिपत्तो 'तस्य प्रमाणम् । अनुमानतस्तदवगतो, तत' एव; परस्पराश्रयात् । अन्यतश्चानवस्थानात् । अर्थापत्तेश्चानुमाम विशेषत्वान् । उपमानस्य च प्रत्यक्षविषम एव सादृश्योपाधिकतया प्रवृत्तः। आगमात् तत्प्रतिपत्ती व्यर्थमनुमान साध्यस्यैव ततः परिज्ञानात् । ततः प्रत्यक्षमेव तत्र प्रमाणम् । तेन च व्याप्तिमवद्योतयता सूक्ष्मादयोऽप्यवद्योतयितव्या एव, अन्यथा तल्लिङ्गपाप्तेरततोऽवद्योतनानुपपत्तेः । “प्रत्यक्षबुद्धिः" इत्यादिकं तु प्रमाणान्तरात् व्याप्तिप्रतिपत्त्यभिप्रायेणाभिहितं ततो न दोषस्तद्वचनस्य ।
पच्चोक्तम्-पदि ते प्रत्यक्षा: किमनुमानेनेति; तदपि मीमांसकस्यैव चोद्यं यः प्रत्यक्षविषयेऽपि अनमानमन्विच्छति नास्माकम, अरमाभिस्तु केवलं तत्प्रसजितेनानमान तेषां प्रत्यक्षविषयत्वं प्रत्याय्यते । अत एवेदं प्रसङ्गसाधन मामनन्ति मनीषिणः। भवेदिद प्रसङ्गसाधनं यदि प्रत्यक्षविषय एवानुमानम् । न च वम्, इन्द्रियशक्त्यादिवत् सूक्ष्मादेरप्यतद्विषयस्यैव कुतश्चित् कार्यव्यतिरेकात् अनुमानोपपत्तेरिति घन्; न; तच्छ क्त्यादेरपि अनिश्चितप्रतिबन्धात् अनुमानानुपपत्तेरतिप्रसङ्गात् । प्रतिबन्धनिश्वये प्रत्यक्षतः कथमतीन्द्रियत्वं तच्छ क्त्यादेरिति चेत् ? अयमपि भवत एव पर्यनुयोगो यस्य प्रत्यक्षात् तन्निश्चयो
सासूचातवा । २ तुलना-भासमी एलो० ५। ३-मानवतः मा०, २०, ५.१४ परस्य श्रा०,०,401५ तत एवानुमानात् स्थीयव्यातिप्रतिपत्ती । ६ नमनुमानमिति मनी-श्रा०,०प०।