________________
३।२७]
३ प्रवचनप्रस्ताव
२९७
चेत् कार्यत्वाद्यविशेषेऽपि घटादिकमेव बुद्धिमद्धेतुकं न तनुकरणादिकमित्यपि विभागस्तथा भवेदिति कथमीश्वरसिद्धियतः तज्ज्ञानमतत्पूर्वमुच्येत ? तल किञ्चिदेतत् । नन्वेवमागमस्य तत्पूर्वकत्वं न भवेत, ततोऽपि पूर्व तस्याभावादिति चेत: अनाह-नच तेन विनागमः' इति । तेन केवलशानेन विना आगमः तदर्थानुष्ठानहेतुः न प नैव सिद्धयेत् । तस्यापौरुषेयस्य निषेत्रात् । न चैवमन्योन्यसंश्रयः; हेतुहेतुमद्भावेन परमागमकेबलज्ञानसन्ता- ५ नस्य बीजाङकुरवदनादित्वात् । एतदेव दर्शयन्नाह---
सत्यमर्थवलादेव पुरुषातिशयो मतः ।
प्रभवः पौरुषेयोऽस्य प्रबन्धोऽनादिरिष्यते ।।२७।। इति । सत्यम् अवितथम् । कि तत् ? पुरुषातिशयः पुरुषस्यातीन्द्रियार्थदर्शनादिरूपः प्रवचनहेतुरतिशयः प्रकर्षों मतोऽभ्यनुज्ञातः । इतिशब्दोऽत्र द्रष्टव्यः । तदभ्यनुज्ञानं च १० अर्थस्य आगमप्रामाण्यलक्षणस्य अन्ययाऽनुपपत्ति लक्षणात् बलादेव, न हि तत्पुरुषातिशयमन्तरेणोपपन्नमिति निरूपितम् । एवञ्च अस्म प्रवचनस्य प्रभवः क्वचित् कदाचिच्चोच्छेदवतः पुनरुन्मज्जनं पौरुषेयः पुरुषकृतः प्रबन्धस्तु सन्तानापरनामा अनादिरिष्यते। तथा तदिष्टौ कस्यचिद् बाधकस्याभावात् । न केवलं तदबलादेव तदभ्यनुज्ञानम्, अपि तु अनुमानादपि । तच्चेदम्'-पो यत्रानुपदंशालिङ्गानन्वयव्यतिरेकाविसंवादि वचनोपक्रमः स तत्साक्षा- १५ त्कारी यथा सुरभिचन्दनगन्धादौ अस्मदादिः, तथाविधवचनोपक्रमश्च कश्चित् ग्रहनक्षत्रादिगतिविकल्पे मन्त्रतन्त्रादिशक्तिविशेषे च तवागमप्रणेता पुरुष इति। तदागमस्यापौरुषेयत्वेन प्रणेतुरभावादाश्रयासिद्धः तदभिधेयविषयस्तथाविधवचनोपक्रम इति चेत्, न 'वेदस्य' इत्यादिना तमोत्तरस्य वक्ष्यमाणत्वात् । एवमप्यसिद्ध तद्विशेषणमनुपदेशत्वम्, उपदेशात् कस्यचित् तदुपक्रमसम्भवादिति चेत्न ; उपदेष्टुस्तदर्यदर्शनाधतिशयसम्भवे तस्यैव निखिलविषय- २० विज्ञानाधिष्ठानत्वेनास्मदिष्टप्रतिष्ठानात् तस्याप्युपदेशवलादेव उपदेष्ट्र स्वपरिकल्पनायामनादि: उपदेशप्रवन्धः परिकल्पितो भवति । तत्र च 'अनादिसम्प्रदायश्चेत्' इत्यादिना दोषं वक्ष्यामः । तन्नानुपदेशत्वमसिद्धम् । नाप्यलिङ्गत्वम् ; न हि लिङ्गबलात् तस्य तद्विकल्पाद्युपदेशः, लिङ्गस्यैव तत्र कस्यचिदसम्भवात् । सम्भवेऽपि तस्य प्राकृतपुरुषविषयत्वे सर्वस्यापि ततस्तत्प्रतिपत्ति सम्भवात् दैवज्ञत्वमविशिष्टं भवेत् । विशिष्टप्रतिपत्तृगोचरत्वे तु सिद्ध २५ तत्प्रतिपत्तुरतीन्द्रियार्थसाक्षात्करणं तदपरस्य तद्वंशिष्टयरयायोगादिति नासिद्ध मलिङ्गत्वम् । नापि अनन्वयव्यतिरेकित्वम् । न हि अन्वयव्यतिरेकाभ्यां ग्रहचारादेः सम्भवति प्रतीति:, तस्प चतमजदेमधमासादिवत देशकालादिनियमाभावात । नापि तस्यात्रिसंवादित्वम: सति तद्वाच्यसम्बन्धपरिज्ञाने तत्र संवादस्यैव प्रतीतेः । कदाचित् विसंवादप्रतीतिस्तु प्रतिपत्तुरेव यथावत्तत्सम्बन्धपरिज्ञानसामर्थ्य वैकल्यलक्षणादपराधात्, न तद्वचनोपक्रमस्य। ततो ३० युक्तं तदन्यथाऽनुपपत्त्या क्वचित तद्विषयसाक्षात्करणसाधनम् । एवमपि ग्रहगत्यादिविषयमेव ततस्तत्सिद्धचेत् नाशेषविष यमिति च त्; न; तद्विषयस्येय तस्याशेषविषयतोपपत्तेः । ग्रहमत्यादयो हि देशकालजातीयधिकल्पेन प्राणिनां श्रेयःप्रत्यवायोपनिपातपिशुनतया प्रतीयमाना निःशेषानपि देशकालविशेषान् तम्नि वासिन: असरथावराद्यनेकविकल्पान्
१ निरूपमेवश्च तास, आछ, वा । २ "सूरुमायोपदेशो हि तरसाचारकर्तृ पूर्वकः । परोपदेशखिकापानपेक्षामितयस्वतः ॥" -स: श्लो पृ० ११ । ३-वाशापि श्रा, २०, प01 ४ 'असिम्' इति सम्बन्धः।