________________
न्यायविनिश्चयविवरणे
[३।२३-२४ विनाऽपि तस्मादत्रेद मिति हेतोर्व्यवस्थिते (तो)। न च तस्याः परं विचित समवायप्रयोजनम् ॥१७१८॥ तस्मादिहेदम्भावस्य समवानिमित्त ताम् । ब्रुवता ज्योम्नि चैतन्यं जीवन परिकल्प्यताम् ||१७१९॥ अदृष्टाभावतस्तत्र संसारो नास्ति चेदसत् । चेतनावददृष्टस्य समवायादवस्थिते ॥१७२०॥ सत्यप्येवं स्वतस्तस्याचेतनवादसंसृती।
स्वतचैतन्यमायातं जीवे संसारिणि स्फुटम् ॥१७२१॥ स तर्हि कस्मात् सर्वतो न प्रकाशते सर्व विषयलयेति चेत् ? अत्राह
मलैरिव मणिर्विद्धः कमेनिने प्रकाशते ॥२३॥ इति ।
यथा समन्ततः प्रकाशात्माऽपि जात्यो मणिः मलै रजः-कदमादिभिः विद्धो न प्रकाशते तथा जीवोऽपि कर्मभिराबरणापग्नामधेयैर्विद्धः परस्परप्रदेशानुगमप्रबन्धेन बद्धो न प्रकाशते ।' यदा तु तदावरणमलानां तदुपादानकारणमत्यनीकात् उपायाभियोगात् निःशेषवृत्त्या जीवतो विश्लेषस्तदा प्रकाशत एवासी समन्ततः सर्वार्थसाक्षात्करणारूपतया च । तदुक्तम
"जो ज्ञेये कथमज्ञः स्यादसति प्रतिबद्धरि।।
दाझेऽग्निर्दाहको न स्यादसति प्रतिबद्धरि ।" [ योगवि० श्लो० ४३१] तदेवाह---
सर्वार्थग्रहसामर्थ्य चैतन्यप्रतिबन्धिनाम् ।
कर्मणां विगमे कस्मात् सर्वानर्थान्न पश्यति ॥ २४ ॥ इति ।। २० जीवः सर्वानान कस्मान्न पश्यति पश्यत्येव । कदा ? विगमे निःशेषविश्लेषे ।
केषाम् ! कर्मणाम् आवरणमलानाम् । कीदृशानाम् ! सो निरवशेषो योऽर्थों देशादिविप्रकृष्टस्तस्य ग्रहः परिज्ञानं तत्र समर्थमेव सामध्यं तच्च तच्चैतन्यं च तत्प्रतिवनन्तीत्येवं शीलानामिति । कः पुनरयं तस्तस्य प्रतिबन्धो नाम ! पटवत् विषयप्रच्छादनमिति चेत् । ततः कथ
मग्रहणं विषयस्य ? तदापि विप्रकृष्ट ग्रहणस्य तत्स्वभावस्यापरिम्लानात् तेषाचे दर्शनप्रसङ्गः पटवत् । २५ असामर्थ्यान्नेति चेत् ; न; वेदनसमर्थप्रतिज्ञाव्यापतेः। आवरणान्तः प्रतिब-धाम्नेति चेत; न; तत्राप्येवं प्रसङ्गादनवस्थापत्तेश्च । तन्न तत्पच्छादनं प्रतियन्धः । शक्तिप्रध्वंस इति चेत् : उच्यते--
एकैव ज्ञानशक्तिब्धेत् सा च तैयस्यते यदि। जीव एव भवेद् ध्वस्तस्तदा गत्यन्तरच्युतेः ॥१७२२॥
१५
१भाकाशस्य । २ वचतोऽयम्--असहपृ०५० जय ३कर्मणाम् ।
पृ०६६। ध० आप०५५३ ।