________________
२९३
३॥२३]
३पन प्रस्ताव नापि वैशेषिकाभीष्टं तस्याचेतनधर्मणः । चेतनात्मगुणस्वस्य निषेषादव्यवस्थितेः ॥१७१४॥ आत्मनश्चेतनत्वञ्च यथास्थानं निवेदितम् ।
निवेदयिष्यते चातस्त्यज्यता तन्त्र विनमः ॥१७१५॥ सतः स्याद्वादिपरिकल्पितमेव पौद्गलिक कोपपन्नं तस्यैव चेतनात्मविभ्रमनिबन्धनतया ५ मदिरादिनिदर्शनबलेन प्रतिपत्तेः । कथं पुनश्चेतन आत्मा तादृशमनर्थमूलं कौरभेत तत्परित्यागस्यैव तत्रोपपत्तेः, न च तस्य परप्रभुपारवश्यम्, अनभ्युपगमात् ; इत्यप्यचोद्यम् ; मिथ्याज्ञानबलेन तस्यापि तदुपपतेः । तथाहि- विवादापन्न कर्म मिथ्याज्ञानोपनिबद्धम्, आत्मनि तद्विभ्रमहेतुत्वात् , तदुपयुक्तविषादियत् । न चाश्रयासिद्धत्वं साधनस्य फर्मसद्भाबम्य निवेदितत्वात् । तन्निबन्धनतया विभ्रमस्यापि निरूपितत्वान स्वरूपासिद्धत्वमपि । यथाऽवस्थितस्वफ्रज्ञानस्वभावस्यात्मनो मिथ्याज्ञानमेव कर्थ १० यतस्तदुपनिबद्धमात्मनि कर्म भवेदिति चेत् ! न तस्यापि तसूर्योपार्जितकर्मवलादुत्पत्ते, तस्यापि सत्याकालभावि मिथ्याशानात् , एवमनादित्वात् मिथ्याज्ञानतद्रुपनिबद्धकर्मप्रबन्धस्येत्युपपन्न चेतनस्याप्यात्मनः कर्मोपकल्पनम् । कथं पुनरमूर्तस्यात्मनो मूर्तेन फर्ममलेनाभिसम्बन्धो मूर्तस्यैव मण्यादेर्मूमलसम्बन्धस्योपलग्भादिति चेत् ? न; आकाशस्यामूर्तस्यापि मूर्तेन जलधरपटलादिनाऽभिसम्बन्धप्रतिपः । न च मण्यादावपि मूर्तिरेव मलसम्बन्धनिबन्धनम् ; तन्मात्रे तत्मसात् । न चैवम्, १५ उपकल्पितविशुद्धिविशेषे तदभावात् । अपि तु तद्गतः कश्चित् स्निग्धत्वादिरूपः परिणतिविशेष एव, तस्य चात्मन्यपि मिथ्याज्ञानादिस्वभावस्य भायात्, उपपन्न एव कर्ममला भिसम्बन्धः । न चैकान्तेनामूर्त एव संसारी जीवः तस्यानादिमूर्तकर्मसम्बन्धात् तत्प्रदेशानुप्रवेशरूपात् कथश्चिमुर्तवस्यापि भावात् । तदेवाह
__ अभिन्नो भिन्नजातीयैर्जीयः स्थाच्चेतनः स्वयम् । इति । २०
जीवः प्राणभूदात्मा प्रक्रमवशात्तस्यैव जीवषदेनाभिधानात् । भिमजातीयैः पुद्गल परिणामरूपसया स्वतो विलक्षणैः कर्ममलैः अमिन्नोऽविष्वम्भूतः स्यात् भवेत् । स्यात् कश्चिद्वा' बन्धप्रकारेण । यद्येवं मूर्ते नीबस्तहिं सन्मलबन्धवदचेतन एव स्यादिति चेत्, न; तस्य स्वयं स्वलक्षणतश्चेतनत्वात् , अन्यथा संसागनुपपचेः । दुःलानुभवबन्धो हि संसारः, स कथमचेसनस्य स्याद् घटादिवत् ? स्यादेव चिच्छायासक्रमादिति चेत् । न तस्य निराकरणात् । अस एव न २५ चेतनासमवायादपि । अपि च,
चेतनासमवाग्नेन संसारी व्योम किन्न वः। सत्रापि समवायस्य भावामित्यविभुत्वतः ॥१७१६॥ समवायस्य भावेऽपि चेतना सत्र नास्ति चेत् |
जीवे कुतः : स्वहेतोश्चेत् समबायो वृथा भवेत् ।।१७१७॥ १-दुपपता । रेषणवस-आ०५०, १०।३-वा प्रवन्ध-श्रा०प०।४-येर सं-आ०५०,५०।