________________
३२० ]
३ प्रवचन प्रस्तावः
२८७
दिन्यप्रवृतेः तदप्रवृत्तिलक्षणादनुपलम्भात् अभाव एव तस्येति तत्र न तावत्तस्याभावो नीरूप एव तस्य प्रमाणाविषयत्वात् । न ह्यसो अद्रूपाद्व्यावृत एव तद्विषयः, तदतद्विभागाभावापत्तेः । उपावृतश्चेत्; न; व्यावृतिशक्तिवैकल्ये तदनुपपत्तेः । तच्छक्तिभावे च नीरूपत्वयापत्तेः शक्तिमधानरूपत्वात् भावानाम् । भवतु पर्युदासवृत्त्या विश्विज्ञत्वमेव तदभाव इति चेत् तदपि न प्रतिनियत पुरुषाधि ष्ठानम् तस्य तदभावत्वेनाभीष्टत्वात् । सकलदेशक लवर्तिपुरुष परिपदधिष्ठानस्य तु तस्य क ५ निरवशेषतत्परिज्ञानविकलेन प्रतिवेदनम् ? अधिष्ठानप्रतिवेदन एवाधिष्ठेयप्रतिवेदनोपपत्तेः । तत्परिं ज्ञानवरवे तु कस्यचित् कथन तस्यैव निरुपद्रवं सकळवेदित्वमापद्येत यतः "सर्वज्ञोऽयमिति ह्येवम्" [ मी० लो० ] इत्यादि मीमांसकस्य परत्र चिन्तितं दूषणं स्वगृहं प्रत्युपगतं न भवेत् । तन्नानुपलम्भादपि अभावा परनामधेयात् सर्वत्र सर्वदा सर्वज्ञाभावसाधनमुपपन्नम् । किञ्च, अयमनुपलम्भो वादिनः स्वस्य वा भवेत्, सर्वस्य या गत्यन्तरासम्भवात् । तत्रोभयत्रापि दोषमावेदयन्नाह - सफलज्ञस्य नास्तिस्वे स्वसर्वानुपलम्भयोः । आकासिद्धते तस्याप्यग्दर्शनतोऽगतेः ॥ २० ॥ इति ।
१०
सर्वाभावसाधने स्वानुपलम्भस्य गमकत्वम् तस्य परचेतोवृत्तिविशेषे सत्यपि भावेन व्यभिचारिणः संशयहेतुत्वात् । न हि सत्र नियोगतः प्रत्यक्षादीनामन्यतमस्य प्रवृत्तिरेव प्रथमदर्शन एव तदवधारणात् 'मूर्खोऽयं पण्डितो वा' इत्यादिनिमेश मावापत्तेः । न चानवथा- १५ रितोऽपि से मास्त्येव, पुनः कुतश्चित् कार्यविशेषात् तदस्तित्वस्य निर्णयात् । नापि सर्वसम्बन्धिन तस्यैवासिद्धेः । तदेबाह-‘तस्याप्यग्दर्शनतोऽगतेः' इति । तस्यापि सर्वसम्बन्धिनोऽनुपलम्भस्यापि अपि शब्दान्न केवलं सर्वज्ञस्य अग्रतेः अगतिश्च तस्पाचग्दर्शनतः । अर्वाची हि वस्तुभागस्य दर्शनमस्मदादिप्रत्यक्षं तत्कथं तस्य सर्वविषयत्वं यतः सर्वसम्बम्धिनोऽनुपलम्भस्य सतोऽवगतिः ।
1
यत्पुनरत्रानुमानम् - सर्वेऽपि सर्वज्ञं नोपलभन्ते पुरुषत्वादे रथ्या पुरुषवदिति तदपि न सम्यकू सर्वेषामग्दर्शनतोऽनवगमेन हेतोराश्रयासिद्धेः । न चास्ति पुरुषत्वादेः सर्वज्ञत्वोपलम्भेनविरोधः सोऽवदेशिनि सम्भवन्नपि न सर्वज्ञे स्यात् तेनात्मनोऽन्यस्य च सर्वज्ञतया दर्शनसम्भवात् । स एव नास्तीति चेत्; न; अन्यतः तन्नास्तित्वेऽनुपलम्भस्य वैफल्यापतेः । तत एव सर्वसम्बन्धिन इति चेत्; न; परस्पराश्रयात् - सिद्धे तन्नास्तित्वे तदनुपलम्भस्य ततोऽपि तन्नास्तित्वस्य सिद्धेः । अतो नानुमानादपि सिद्धिस्तदनुपलम्भस्येति न तस्मादभावः सर्वज्ञस्य |
नापि तत्वादेः द्वितीयमस्तावे तनिषेधस्याप्यभिहितत्यात् । भावस्तु तस्यानुमानतो निरूपितो निरूपयिष्यते च । कथं पुनः सर्वज्ञविज्ञानस्यात्ये सूक्ष्मान्तरितदुरगोचरत्वमस्मदादिपरीक्षाधि आ०, ब०, प० । ३ संशयाभावः पतेः । ४ परखेोवृत्तिविशेषः । ५-सम्बन्धिनस्तस्यैत्रासः य आ०, ब०, प० । ६-मनेन वि-आ०, ब०, प० । ७ - वस्ततोऽवग्द-आ०, ब०, प०८ दर्शिन्यसंभवान्नापि सर्वज्ञे आ०, ब०, प० । ९ सवादि -आ०, ब०, प० ।
१ - आ०, ब०, प० । २
२०
२५