________________
३३१४]
३ प्रवचनप्रस्ताषः [ योगसू० २१२८ ] इति । तन्न सांसर्गिकादपि चैतन्याचस्य तदर्थ प्रवर्तनमुपपन्नम्, सति तस्मिन् सर्वदा विवेकस्यैव दर्शनेनाविवेकवि श्रमस्यापसङ्गात् , अन्यथा पश्चादपि तदर्शनाभावस्य निवेदि. तत्त्वात् । भवतु अचेतनस्यैव तस्य तदर्थ प्रवर्तन सत्सवृद्धि निमित्त क्षीरस्येव । तदुक्तम्
"वत्सविवृद्धि निमित्तं धीरस्य यथा प्रकृचिरज्ञस्य ।
पुरुषविमोचनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥" [ सांस्यका० ५७] ५
इति चेत्, तन्नै सारम्; तत्पवर्तनेन चेसनाधिष्ठानसाधनस्य पूर्वोक्तस्य विरोधात् । तदयं तदिधिष्ठतस्यैव प्रवृत्तिमभिधाय पुनरन्यथाऽपि तां ब्रुवाणो विस्मरणशील एवेश्वरकृष्ण हति सुनिश्चितं नश्चेतः । तन्न तदर्थस्य प्रवर्तनस्यापि तत्र लिङ्गत्वमिति न सुभाषितमेतत्
"सातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानाद ।
पुरुषोऽस्ति भोक्तभावात् कैवल्पार्थ प्रवृत्तेश्च ॥" [ सारख्यका० १७ ] इति । १०
तन्नानुमानं पुरुषे प्रमाणम् । नापि
"महतः परमात्मा का गुला पा।
पुरुषानापरं किश्चित् सा काष्ठा सा परा गतिः ॥" [ कठो० ३११ । इत्यादिरागमः; तेनापि पुरुषस्वभावस्य तदस्तित्वज्ञानस्याकरणात् , सन्नित्यत्वव्यापत्तेः । बुढेश्चा
चेतनत्वेन तज्ज्ञानत्शनुपपत्तश्चेति । सम्पर्कस्य च तत्र निषेत्स्यमानत्वात् । अन्यस्य च प्रमाण. १५ स्यानभ्युपगमादसन्नेव पुरुषः प्रमाणातिवांति कथं तस्य सुखादिविषयो यतस्तन्मतं साहसमेव न मवेत् ? सतोऽपि तस्य स विषय इति साहसमेवेति न मन्यानेन इदमुक्तम्-'अपि साचात' इति । साक्षात् अव्यतिरिक्तया सत्तया न वैशेषिकादिवत् व्यतिरिक्तया सतोऽपि विद्यमानस्यापि नित्यस्यात्मनः स विषय इति साहसमेव । तथा हि सदुन्मुखमात्मरूपं सर्वदेति सुखादिरपि सर्वदा भवेत् , असति तथा तस्मिन् तथा तदनुपपत्तेः, अन्यथा सदपि तदभाव एव सत्सम्भवान्न ततः सुखादि- २० स्वरूपस्यापि व्ययस्थापन मिति निविषयमेवेदम् .-"बुद्धयध्यवसितमर्थ पुरुषश्वेतयते" ] इति । न च तस्य निस्यत्वम्; "हेतुमदनित्यम्" [सांख्यका० १०] इति तदनित्यत्ववचनविरोधात् । न साक्षादात्मरूपं तद्न्मुखं' यतोऽयं प्रसाः किन्नु तदभिमुखचिच्छायासक्रमद्वारेणैव । तच्छायायाश्चात्मनोऽर्थान्तरत्वेनानित्यत्वादुपपन्नमेव अनित्यत्वं मुखादेरिति चेत्, न; तस्या अचिदूपत्वे कलशादिवत् तदुनमुखवासम्भवात् , अन्यथ सुम्वादेरेव स्वात्मनि उन्मुखत्वसम्भवात् व्यथैव तत्सक्रम- २५ कल्पना भवेत् । चिद्रूपत्वे च पुरुषस्वेनानित्यतानुपपत्तेः "चैतन्यं पुरुषस्य स्वरूपम्ग [ योगभा० १९] इति वचनात् । चिच्छायासक्रमादेव तत्रापि तद्रूपत्वं न साक्षासदयमदोष इति चेत्, तवसारम्; यस्मात्
तत्सङक्रमादचिपात्तत्र चिद्रूपता कथम् ।
अन्यथा लोहितत्वं स्यात् स्फटिके पीतसङ्गमात् ॥ १६३३ ॥ ३ १ अचैतन्यस्यैव आ०, ब०, ५०। २ न दरसार १०। ३-मुख्यं य-प०॥