________________
न्यायविनिश्वयविपरणे
[ ३६
नाप्यनुमानस्य प्रत्यक्षाभावे तस्य तत्पूर्वकत्वे अपतेः । निस्य च तत्कार्यस्य तत्स्वभावस्य च विचारासहत्वेनाव्यवस्थितेः । ततो युक्तं तत्सत्यस्य अनात्मज्ञत्वम् अतश्च तदुपादेयं भिगेव प्राद पथाऽतिवतिनो वस्तुवृतेनानुपादेयत्वात् । तथा सत् प्रशस्तं परिशुद्धज्ञानस्वभाव बुद्धस्य " प्रमास्वरमिदं चित्तम्" [ प्र० वा० १।२१० ] इति वचनात् । तत् द्देयं नैराल्यभावनापरिपाकब लेन ५. परित्याज्यमित्यपि विव, प्रशस्तस्य परित्यागानुपपत्तेः निर्वाणवत् । कथं वा तस्य तत्परित्यागे परात्मपरिज्ञानं यतः तत्रुपतापपरिहारपरवशतया तदुपायाभियोगमात्मसात्कुर्वीत नेरूपत्वेन तदनुपपत्तेः | एतदेवोक्तम्- 'अनात्मज्ञम्' इति | आत्मा विनेश्रसन्तानस्तस्य ज्ञौ तद्बुद्धिस्तस्या अभावेऽनात्मज्ञम्, अर्थाभावेऽव्ययीभावात् । एतदुक्तं भवति-पतोऽपि स्वभावस्य परित्यागे तस्य परपरिज्ञानं न भवेत् अतस्तस्य त्वं निन्दितमिति । नास्त्येव तस्य तत्परत्यागः " तिष्ठन्त्येव पराधीना येषां तु १० महती कृपा ।" [ प्र० वा० १२०१ ] इति यचनादिति चेत् कथं पुनराम्यभावना परिपाके तरकारणे सति तदभावः खादेरपि ततस्तदभावात् । अथ तत्परिपाकोऽपि कृशसम्पर्कविकल एव तद्धेतुः स खादेरेव न महामुनेः, तस्य परार्थपरतया महाकृपालुत्वादिति चेत्; खङ्गादेः कस्मादकृपालुत्वम् ? परार्थवृत्तेरभावादिति चेत्; अस्तु नाम तस्य परत्राकृपालुत्वमात्मनि तु भवत्येव स्वार्थ वृत्तेरवश्यग्भावात्, अन्यथा निर्वाश्रयोपक्रमानुपपत्तेः । अथ तस्य निर्वाणेनैवार्थित्वं नावस्थानेनेति । १५ कुत एतत् तस्य निर्दोषत्वात् समानमिदमन (मव) स्थानेऽपि तस्यापि सकल मल बिकलप्रभास्वरचित्तरूपत्वेन अभ्युपगमात् । अथ तचिचेनावस्थितेनापि न किञ्चित् फलमिति न तत्रार्थित्वं तस्य तईि तन्नाशेऽपि न भवेत् ततोऽपि कस्यचित् फलस्याभावात् प्रत्युत तदेव मुमुक्षूणां फलं यत् सकलक्लेशपरिशुद्ध ज्ञानरूपतयाऽवस्थानम्, तच्चेत् कुतश्चित् सम्मपद्येत किमन्येन ! फलेऽपि फलान्तर सीक्षायाम नवरथापत्तेः । ततो युक्त तत्रैव तस्यार्थित्वम् । अथ सत्यपि तत्र तस्यार्थवेन तस्यावस्थानं तदपरित्यागे तत्परिमिश्रवलेशपरित्यागासम्भवात् अन्नापरित्यागे तत्परिमिश्रविषपरित्यागासम्भवादिति चेत्; न; तथा तीथागतस्य चित्तस्यापि परित्यागप्रसङ्गात् । अथास्ति कश्चित् तस्योपायो यतोऽवस्थितेऽपि चित्ते तत्क्लेश परित्यागः तस्य भवेत् स तहिं खादेरपि तेन वक्तव्यो येन after मध्यवस्थितमेव परिगलितनिखिललेश भयपरिनिर्वाणपदं प्राप्नुयात् । एवं हि तेनामनस्तायित्वम" सुस्पष्टं प्रतिष्ठापितं भवति स्वयं परिदृष्टमार्गोपदेशस्यैव तत्त्वात्, "तायः स्वदृष्टमागति:" [ प्र० वा० ११४७ ] इति वचनात् । ततो यदि कृपामाहात्म्यात् अवस्थानं बुद्धचि तस्य स्वङ्गादिविसस्यापि स्यात् । न चेत्; इतरस्यापि न स्यादित्युपपन्नमुक्तम्- 'हेयं सत्' इति । यदि वा, सत् विद्यमानं संसारिचितं हेयं धिगिति व्याख्येयम्, तस्य सत्त्वासिद्ध, सत एव हेयत्वो
२५
२०
२६०
१ तस्य प० । २ जात आ०, प० । ३ “निर्वाणेऽपि परे मासे कृपात्रीकृतचेतसः” । इति पूर्वार्धम् । ता० टि० । ४ वचनादेदेवि प० । ५- आ०, ब०, प० । ६ निर्वाणस्य । ७ अवस्थान परिस्यागाभावे । ८ तथा आ, ब०, प० । ९ तचित्तस्यो -आ०, ब०, प० । १० पिलो न आ०, ब०, प० । ११ “प्रमाणभूताय जगद्वितैषिणे प्रणम्य शास्त्रे सुगताय तायिने ।” -ता० दिन ।