SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३२६] ३प्रवचनमस्तावः पुनरपि तदेव प्रतिक्षिपनाह-'घिगनात्मकं तदसाध्यमसाधनम्' इति । तात्पर्यम विद्यमानस्यैव हेयादितत्वस्य लुगतोऽपि प्रवक्ता भवेन्नापरस्य व्योमकुसुमादिवत् । विद्यमानत्वं च न तस्य कार्यस्वेन, असति कारणे तदनुज्ञानात् , असति च तदयोगानिहतुकत्यापत्तेः । नापि कारणत्वेन; कार्यकालमप्राप्य निवृत्तस्य चिग़पकान्तवत्तदनुपपत्तेः । निरूपितं चैतत् सविस्तर मिति । पदार्थः कथ्यतेतत् हेयादितत्वम् । असाध्य कस्यचिदप्यकार्यम् असाधनम् अकारणं च प्रतिसमयविलयप्राप्तिविग्रह- ५ स्योक्तनात्याऽनुपपत्तेः । अन्धरूपवे तदुपपपिरिति चेत् ; स्यादेतदेवं यद्यन्वयवादी सुगतः, न चैवम् । एतदेवोक्तम्-'अनात्मज्ञम्' इति । 'आत्मा'इत्यन्वय एवोच्यते अतति गच्छति तांस्तान् पर्यायानित्यात्मेलि व्युत्पादनात् । तन्न जानाति नोपैति इत्यनात्मज्ञः सुगतस्तं तस्येत्यर्थः । धिक्शब्देन योगे पष्ठीविषय एवं द्वितीयाविधानात् । तदयमर्थ:-यतस्तदनात्मज्ञस्य सम्बन्धि तस्माद् असाध्यमसाधनम् अतः धिक कुत्सनमनात्मज्ञस्त्र नस्य वा। यदि बा, तदसाध्यं साधयितुम- १० शक्यम् । कुत एतत् : असाधनम् अविद्यमानप्रगाप्यं यत इति । एतदपि कस्मात् ! 'अनात्मज्ञम्' इति । आत्मा जीवः स चासौ ज्ञश्च जैनोयगतो न योगकल्पितः आत्मज्ञः स न विद्यते यस्य सोऽयम् अनात्मज्ञो बुद्ध एव तस्य सम्बन्धी यत इति । नानी हिताय दात् साधनं तच्च नासति । ज्ञस्वभावे नरेऽस्तीति पूर्वमेतन्निवेदितम् ॥१६१२।। अज्ञातमप्रमाणत्यादकार्यस्यादितोऽप्यसत् । कथं हेगादिकं तत्त्वं बुद्धो वक्तुं प्रवर्तताम् ? ॥१६१३॥ तस्मादयमसद्धादैलिशान् विप्रलम्भयन् । किर्तव्यः कथं नाम न भवेन्न्यायवेदिनाम् ॥१६१४॥ पुनाप्यत्रोपचयमाह सर्वथाऽसदुपादेयं हेयं सत् [तदकारणम् । इति ।। सर्वथा सर्वेण सकल रागादिले शप्रकारेणेव परिशुद्ध ज्ञानरूपेणापि असत् अविद्यमानं निरोधमत्यम् । उपादेयं पुरुषार्थबुद्धया परिणामम् 'धिगनात्मज्ञम्' इति सम्बन्धः । कुतो धिक्कार इति चेत् ? अनात्मकत्वादेव | आत्मेति निरोधसत्यस्य स्वभावस्तस्य ज्ञानं बुद्धि स न विद्यते यस्मिन् तद् अनात्मनं तत्सत्यमेव यत एवं ततो धिगिति । तथा हि-निरुद्ध सकलाकारं निर्वाणं न तावत् २५ प्रत्यक्षतः प्रतिपत्तव्यं प्रतिबन्धाभावात् । न हि तस्य तत्वार्यत्वम् ; नीरूपयाकारणत्वात्, अन्यथा नीरूपस्यायोगात् । नापि तस्वभावत्वम् , स्ययं नीरूपत्वप्रसङ्गात् । न च नीरूपादेव तस्य परिज्ञानकल्पने विज्ञानकल्पनावैफल्योपनिपातात् । पुनरम्यतः प्रत्यक्षात् तत्परिज्ञानकल्पनायां प्रकृतपर्यनुयोगानतिवृत्तेः अनवस्थादोषविषाविषधरल्यापारमयपरिपालस्य च परिह मशक्यत्वात् । न चाप्रतिबद्धादेव ततस्तत्परिज्ञानम्, अनभ्युपगमात्, प्रतिवन्धान्तरस्य च । तन्न प्रत्यक्षस्य तज्ज्ञानत्वम् । ३० १ कारिपादानुज्ञानात् । कार्यासादायोगाल । ३ अज्ञान् । "शिशावजे व बालिशः। इत्यमरः"-ता०टिका४धिछात-आ०.बल,प. 1 ५ "अनभ्युपगमाविति सम्बन्धः ।"-वादि। ६ निवाणविषयकज्ञानस्वम् ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy