SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २५८ न्यायविनिश्चय विवरणे [314 ] इति सन्तानरूपं दुःखसत्यम् “दुःखं संसारिणः स्कन्धाः " [प्र० ० १ १४९ ] इति वचनात् । उपादेयं च तस्यैव निःशेष प्राणस्वरूपं निरोधसत्यं हेयोपादेयं तदेव तत्त्वं तस्य सोपायस्य हेयतत्स्वस्थोपायोऽविधातृष्णारूपं रुमुदय सत्यम्, “दुःखे विपर्यासमतिस्तृष्णा वा तस्य कारणम्” [ प्र० वा० ११८३] इति वचनात् । उपादेयतत्वस्य मैग़म्भावनारूपं मार्गसत्यं ५ तत्सहितस्येति । न हि दोषवत्त्वेन निर्ज्ञानस्य तत्त्वदर्शनं शक्यसम्भावनं यतस्तस्यासौ प्रवक्ता भवेदिति । यदि वेदृश इति परोपकरूपतरूपो विधूत कल्पना जाल इति प्रतिपत्तव्यं तस्यापि प्रवक्तृत्वानुपपत्तेः । कथमिति चेत् ; विकल्पाभावादेव, विक रुपकार्ये हि वचनम् "विकल्पयोनयः शब्दाः” [. वचनात् । कथं तदभावे भवेत् ? विकल्पादेव चिराक्कतादिति चेत्; न; तता विकल्पस्यापि दुर्भा वेन तस्य विधूतकल्पना जाला भावापत्तेः । चिरावृत्तादपि ततो वचनमेव न तज्जातीयो विकल्प इति १० नियम हेतोरशक्योप दर्शनत्वात् । तत्कालभाविन एव विकल्प संस्कारात् तस्य वचनमित्यपि वाचोयुक्तिः न चतुरविचारसमोचितं सौभाग्यमुद्वहति; ततो वचनवद्विकल्पस्यापि प्रसङ्गेन प्रकृतदोषानतिवृत्तेः । तत्संस्कारस्य च चित्ररूपत्येन तस्य विधूताशेषविकल्पलम्, अविकल्पत्वे च न ततो वचनम् । नच विकल्पाविकरूपव्यतिरेकेणा पर: कश्चित्तत्स्वभावः । तद्भावे वा न ततो वचनम् । विकल्पकार्यत्वेन निश्चितस्यान्यतो भावे निर्हेतुकत्वापत्तेरिति दुष्परिहारोऽयं दोषोपनिपातः परस्य । सन्न यथागतस्य १५ प्रवतथं यतस्तदुक्तप्रतिपत्त्यर्थं प्रेक्षावतां तदन्वेषणं भवेत् ! अथ कुख्यादीनां प्रकृत्यमेव लस्यापि वक्तृत्वं तस्य तत्सन्निधिनिबन्धनत्वादिति चेत्; अहो महदिदमद्भुतं यत्करज्ञानाधिष्ठानादपि तस्मादनुपन्नं ज्ञानगःयेनापि शून्यात् बुद्ध्यादेर्भवतीति ! नायं दोषः तथागतपभावस्य तादृशत्वादिति चेत्; सतरतहिं कुतस्तस्य स्वयमेव न प्रयवतृत्वम् एवं हि पारम्पर्य परिहृतं भवति - सुगतात् कुब्यादेः प्रभावस्ततो वचनमिति । मा भूतस्य वचनम् प्रव२० वतृत्वं तु तस्य विनेयानां तत्सन्निधानाचत्वज्ञानप्रादुर्भावादिति चेत्; तज्ज्ञानं यदि न प्रमाणं कथं तत्त्वविषयं विरोधात् ? प्रामाण्यमपि न तस्य प्रत्यक्षावेन इन्द्रियादिप्रत्यक्षेष्वनन्तर्भावात् । न हि तदिन्द्रियज्ञानम्; इन्द्रियादनुत्पत्तेः । नापि मानसम् इन्द्रियज्ञानादप्रसुतेः, तरयं तद्विषयानन्तरविषयमा - श्रीगोचरत्वाच्च । नापि योगिज्ञानम्; भावनाप्रकर्षनिरपेक्षत्वात् । नापि स्वसंवेदनत्वेन सत्य चतुष्टयविषयत्वामायापत्तेः । प्रत्यक्षान्तरत्वे च तज्ज्ञानचातुर्विध्यनियमव्यावर्णमन्त्राघातोपनिपातात् । नाप्यनु३५ मानत्येनं; लिङ्गाभावात् । सुगतसन्निधानमेव लिङ्गमिति चेत् सुगत एवं तर्हि तच्चतुष्टयस्यानुमितिभवेत् तत्रैव लिक्वान्न सत्त्वान्तरेषु पक्षधर्मत्वाभावात् न च तत्र तदस्ति तस्य शुद्धज्ञानस्वभावतया दुःखादिरूपत्वानभ्युपगमात् । न प्रमाणान्तरत्वेनापि प्रमाणद्वय नियमोपगमात् । तच तत्सन्निधानात् तत्त्वज्ञानं दिनेयानामुपपन्नं यतस्तदेव तस्य वक्तृत्वं भवेदिति सूतम् - 'हेय' इत्यादि सर्वथा तस्व प्रवक्तृत्वाध्यवस्थितेः । ܪ १ उपाय इति अत्रापि सम्बन्धः" वा० टि० २ तत्सरघान नि आ०, ब०, प० । ५ त्रिनेयज्ञानस्य । ६ गो-प० । ७ श्य ३ सुगात् । ४ प्रवादस्त-आ०, ब०, प० । प्रामाण्यमिति सम्मन्
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy