________________
१५]
२५७
स्वयं कामाभिनिवेशेन वा' इति न निश्चयः परचेतोवृत्तीनां दुरम्बयत्वादिति चेत्; न; तथागतेऽपि तुल्यत्वात् । तदुक्तम्
"अभवत् सुगतः खरी खराणां स्वयमुत्पाद्य भगान् समन्ततः ।
कृपया स तु कामपीडयाचा न वयं तत्र विनिश्वयं गताः ॥" [ ] इति । योगित्वादेव तस्य तत्पीडा न भवतीति चेत्; न; तस्यैव चितधर्मत्वेन दुरवबोधत्वात् । ५ यदि चायं योगी तर्हि तत्त्वदर्शनादुन्मार्गतः प्राणिनां निवारणमेव कर्तव्यं कथं तत्र प्रवर्तनं साधुचेष्टाया अनेवंविधत्वात् । निवार्यमाणा अपि न व्यवतिष्ठन्त इति चेत् औदासीन्यमेव तर्हि कर्तव्यं न स्वयमयुक्ताचरणम् । तथा च कस्यचित् सुभाषितम्
;
"अपारयन् वारयितुं पृथग्जनानसत्प्रवृतेष्वपि नासदाचरेत् । अशक्नुवन् पीतविषं चिकित्सितुं पिवेत् वियं का स्वयमप्यवालिशः ॥” [ ] इति ।
१०
ततः सत्पीडयैव तस्य तत्करणमिति सुनिश्चितोऽस्याब्रह्मचर्यदोषः ।
३ प्रवचन प्रस्ताव:
सथा परिग्रहदोषोऽपि कषायपरिधानबोधितरुच्छाया मण्डलादौ ममेदग्भावरूपाया मूर्च्छा यास्तस्य भावात् तल्लक्षणत्वाच्च परिग्रहस्य, "मूर्च्छा परिग्रहः " [ ० सू० ७ १७ ] इति सूत्रात् । कारिकायां च देवैस्तस्यो एव मवृत्तिशब्देनाभिधानात् । कथमेवं भगवत्यपि तद्दोषपरिहारः १५ छत्रचामर हरिविष्टरादेर्महापरिग्रहस्य तत्रापि भावादिति चेत् न निरतिशय पुष्पमभावमरतैरम र पतिभिरुपकल्पिते तस्मिन् भगवतो ममेदम्भाव बुद्धेरभावात् । तदुक्तम्
"प्रातिहार्यविभवैः परिष्कृतो देतोऽपि विरतो भवानभूत् ।"
[ बृहत्स्य० श्रो० ७३ ] इति । सदभावस्य दृष्टागमाविरोधिनस्तुत्य वचनादेव अध्यवसायात् । न च तादृशं किञ्चित् २० शुद्धोदनतनयस्य वचनमस्ति यतः तस्यापि तदभावपरिज्ञानात् 'सन्नपि कषायकटाद्युपश्लेषः कुतश्चिदन्यत एव न मूच्छतिः' इति निश्चिन्वन्ति विपश्चितः । मूर्च्छति इत्यपि कुतो निश्चय इति चेत् ? इमे ब्रूमहे - तथागतस्य तदुपश्लेषो मूर्च्छनिबन्धनः तत्त्वदर्शन विकल सम्बन्धिले सति तदुपश्लेषात् पृथाजनस्य तदुपश्लेषवत् । तन्त्रिकलत्वं च तस्य तच्छास्त्रेणैवावसीयत इति निरूपितमनन्तरमेव । ततः परिहदोषोऽपि तस्य विद्यत एव । हरिहरादेस्तु सकलजनसंवादविषयो हिंसादिर्दोष इति न २५ विविच्य व्यावर्ण्यते । ततो हिंसादयो दोषाः सर्वथैकान्तवादिन] सन्तीत्यत्र न संशीतिरस्ति वस्तुविवेकिनाम् । भवतु नाम सुगतस्तथाविधस्तथाऽपि किम् ? इत्याह
"
हेयोपादेयतत्त्वस्य सोपायस्य किलेदृशः ।
प्रवक्ता [ घिगनात्मज्ञं तदसाध्यमसाधनम् ] ॥५॥ इति । ईदृशोऽप्रत्यस्तमिताशेषदोषतया प्रतीयमानस्तथागतः प्रचता प्रतिपादयिता किलेत्यरु- ३० चिचनेन न प्रवक्तेति कथयति । करयासी न प्रवक्ता ! हेयोपादेयतत्त्वस्य हेयं च पञ्चस्कन्ध
१- वस्तस्यामा - आ०, ब०, प० । २ मुच्छार्वा एव ।
३३