SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे [१४ सिद्धाः प्रमाणतो निश्चितास्तास्ताश्च हिंसा चानृतं च [स्तेयं च ] अब्रह्मचर्य च प्रवृत्तिश्च सास्तथोक्ताः ताभ्यस्तत इति । तत्र प्रमादक्ता योगेन कायवायनोव्यापारात्मना यत्माणिभ्यः प्राणानामिन्द्रियादीनां मच्यावनं सा हिंसा ! "प्रमचयोगात् प्राणध्यपरोपणं हिंसा' [त००७।१३] इति वचनात् । सा च सुगतस्य साक्षादाविनी तावदस्ति-बुभुक्षापरिपीडितां मृगराजवधूमवलोक्य ५ तन्मुखे तेन स्वशरीरं निपातितमिति तन्मत एवं श्रवणात् अथात्मवधो दोषो न भवति परोपकारनि मितत्वेन गुणत्वात् ; परवषोऽपि तर्हि दोषो न भवेच्छागादिवत् अस्यापि सन्निमित्तत्वेन गुणत्वस'भवात्। छागादेः पीडनाव दोष एवेति चेत् आत्मनः पीडनात् तद्वघोऽपि कुतो न दोषः स्यात् ! अथ योगिनं तत्पीडा नोपसर्पति योगबलेन प्रतिरोधात् ; तहिं योगिनः परस्यापि वधो न दोषः स्यात् तेनापि परोपकारस्य सम्भवात् तस्तिमिवस्य च परिपीडनस्य योगमलेनैव प्रतिरोधात् । तथा चेत ; महानयं कृपालः १० यदि योगिनोऽपि व्यापादयेत् ! ततो यथा परहिंसा दोषः तद्वदात्महिंसाऽपीत्यस्त्येव साक्षाशायी दोषस्तस्य । तथा परम्पराभावी च, स्वयं सस्य पिशितभक्षिणामग्रगण्यत्वात् ।। तब्रक्षणस्य च पाएधिकार प्रेरकत्वेन वनमृगादिव्यापादनहेतुत्वात् , तदभावे तद्व्यापादनासम्भवात् । अत एवोक्तम् "भक्षकश्चेन विद्येत वधकोऽपि न विद्यते ।" [ ] इति । तथा तस्य अनृतमप्यस्ति सकलविनेयवर्ग प्रत्यपायनिबन्धनव्यापारोपकल्पनस्य नैरास्यादेः प्रमाणानुपपनत्वेनासत एव तेनाभिधानात्, अनृतस्य च तल्लक्षणत्वात् । “असदभिधानमनृतम्।" [ त० सू० ७१४ ] इति वचनात् । सदभिधानमपि तस्य दृश्यत एव नष्टमुष्ट्याधतीन्द्रियार्थविषयस्य सम्पनस्याविसंवादमतीतेरिति चेत्, न; रिंशक्षणिकपरमाणुरूपे तदर्शनप्रसिद्धभावात्मनि तत्र तदभावात् , तत्र प्रमाणाभावस्य मतिपादितत्वात् । क्रमाक्रमानेकान्तात्मनीति चेत् तर्हि तद्वचने भगवतः स्पाद्वादन्यायनायकस्यैव न सथागतस्य । तदुक्तम् "सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति या: काश्चन सूक्तिसम्पदः । तवैव ताः पूर्वमहार्णवोत्थिताः जगत्प्रमाणं जिनवाक्यविग्रुषः ॥" [सिद्ध० द्वात्रिं० १।३० ] इति । स्वशास्त्रत्वेन तु तस्य प्रकाशन चौर्यमेव अदचापहारसद्भावात् चौर्यस्य च तल्लक्षणत्वात् । सदुक्तम्-"बदनादानं स्तेयम्" [ त० सू० ॥१५] इति । तद्वदनमाऽपि तस्यास्ति मैथुनन भावात् । "मैथुनमग्रम, [त. सु. ७।१६ । इति च तल्लक्षणाभिधानात् । न च तद्धावस्तस्या सिद्धा, स्वयमनेकमूत्रवियरपरिवीतथिमहतया गर्द भीमरवा मदनशरपरिपीडितेन गर्दभानां शतेन मैथुनमचीकरोदिति तदीयानामेव प्रसिद्धेः । कामामिनिवेशेन तत्करणमेव दोषो न परोपकारार्थया रुपया, रूपया च तत्करणं बुद्धस्येति चेत् ; न; जननीगुरुपल्यादावपि तज्ज्वरपरिपीडिते तथा तस्करणस्यादोषश्वेन पृथग्जनस्यापि तत्कारिणो दण्डाभावापत्तेः । 'पृथग्जनः कृपण तत्र तत्कारी' प्राणिय-ता०।२-सादिदोषः श्रा०,०, प० । ३ भक्षणानाम-मा०, ब०,५०। ४रणर-आ०, प०, प०। ५कामज्वर ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy