________________
न्यायविनिश्चय विवरणे
[ ३१
प्रवचनमिति श्रमनिर्देशः, सकलमित्यपि तस्यैव विशेषणम् । न हि वेदवचनवत् प्रवचनस्य कश्विदेव विभागः प्रतिपादितेऽर्थे प्रमाणमपरस्य तु प्रतिपा दतार्थासम्भवात् अर्थवादव्यमित्ययं विभागः, सर्वस्यापि प्रतिपादितार्थे प्रामाण्यात् । तदाह- सिद्धमिति । सिद्धं प्रमाणमित्यर्थः । सिद्धयति निर्णयविषयतां गच्छत्यनेनार्थं इति सिद्धम् इति करणे "कृतव्युदो बहुलम् " [ ] इति बहुलग्रहणेन ५ निष्ठाविधानात् । सिद्धत्वं च तस्य सिद्ध: निर्णतः निमित्तत्वेनोपचारात् मुख्यतो निर्णयात्मनोज्ञानस्यैव सिद्धत्वात् । साधनं तत्र निर्बाधत्वम् । तथा हि-यत् स्वविषये निर्बाधं तत्प्रमाणं यथा प्रत्यक्षादि, निर्बाधं च स्वविषये जीवादी प्रवचनमिति । निरूपितं जीवाजीवयोस्तस्य निर्बाधत्वम्, निरूपयिष्यते चास्त्रवादाविति | 'सिद्धमेतत् साधनमेव' इति च सर्वथेत्यादिना प्रतिपादितम् । हेत्वन्तरमाह - 'सिद्धपरमात्मानुशासनम् इति । सिद्धो निश्चितः परमात्मा सफलवस्तुयाथात्म्यदर्श पुरुषविशेषोऽ१० नुशासनः काले देशे च कचिदुत्सन्नस्योत्सारय अनु पश्चाच्छासनः शास्ता यस्य तथोक्तम् । यतं एवं प्रवचनं ततः सिद्धमिति । प्रवचनस्य वेदवत् अपौरुषेयत्वात् असिद्धं तदनुशासनत्वमिति चेत्; न; वेदस्यणमेवसिद्धेः! हा भारतादिवत् । स्वशक्तित एव तस्य तत्प्रतिपादनं न पौरुषेयत्वादिति चेत ; नियतार्थ तच्छक्तिः, अनियतार्था वा द्वितीयकल्पनार्या सर्वस्थापि ततः सर्वार्थप्रतिपतिर्भवेत् । तथा च
१५
२०
२५
३०
२५०
नियोगमेव तरयार्थं बर्थ ब्रूयात् प्रभाकरः । भावनामेव भट्टोऽपि तदर्थान्तरसम्भवे ॥ १५९२ ॥ समयापेक्षिणी शक्तिवेदार्थप्रतिपादिनी । समयश्च न सर्वत्र मट्टादेरिति चेत् कथम् ॥ १५९३ ॥ अन्यस्यान्यमताविच सत्र दूषण कल्पनम् । सन्मतप्रतिपत्ती वा समयासम्भवः कथम् ।। १५९४ ॥ समयोऽप्येष वेदश्वेतादृशस्यापि सादृशात् । समयात्प्रतिपत्तौ स्यादवस्था कथन्न वः ॥ १५९५ ॥ समयः कृत्रिमश्चेत्तत्कर्ता वेदार्थदिन चेत् । पृथग्जनवदेवासी कुर्वीत समयं कथम् ॥ १५९६ ।। विनाऽपि समयान्तस्य तद्वेदित्वे वृथैव सः । स्वकृतात् समयाद्वित्तौ भवेदन्योऽन्यसंश्रयः || १५९७ ॥ सिद्धे वेदार्थवेदिले समयस्तत्कृतो भवेत् । तत्कृतात् समयात्तस्यं तद्वेदित्वमिति स्फुटम् ॥ १५९८ ॥ नरान्तरकृतासस्य ततस्तद्विचिकल्पने । नन्तरं तदर्था वित्त् कथं तत्कर्तृतां ब्रजेत् ॥ १५९९ ॥
१-कुत्पन्नस्यानु आ० ब०, प० ।