________________
२३६
न्यायविनिश्वयविवरणे
" विरुद्ध हेतुमुद्भाव्य वादिनं जयतीतरः । आभासान्तरमुद्भाव्य पक्षसिद्धिमपेक्षते"" ॥ [ तस्मादेकस्य प्रकृतसिद्धरेव परस्य निग्रहो न प्रकारान्तरेण । तदेवाह
] इसि ।
असाधनाङ्गवचनमदोषोद्भावनं द्वयोः ।
न युक्तं निग्रहस्थानमर्थापरिसमासितः ॥ २०९ ॥ इति ।
[२२०६
सिद्धिः सिषाधयिषितवस्तुनोतिः साधनं तस्याङ्ग निर्वर्तकं प्रत्यक्ष लिङ्ग वा तस्थाचचनमनुस्वारणं वादिनो निग्रहस्थानं वादमभ्युपगम्य तूष्णीम्भवतो गत्यन्तराभावादिति । एतत् न युक्तम् । कस्मात् ? अर्धस्य वादप्रयोजनस्य साध्यनिर्णयलक्षणस्य अपरिसमाप्तितः तदा हि तस्य नमस्थानमुपपन्नं यदा प्रतिवादिनः पक्षनिर्णयफलपरिसमाप्तिः, तदा तस्य जयाद्वादिनः पराजयो१० पपत्तेः, पराजयस्य जयसव्यपेक्षत्वात् । न च विना तत्परिसमाप्तस्तस्य जपः तदर्थत्वा तद्वयापारस्य ।
न च वादिनस्तूष्णीम्भावादेव तस्य तत्परिसमाप्तिः; ममाण कल्पना वैफल्यात् । न तत्परिसमाप्तेः तस्य जयः किन्तु वादिदोषस्योद्भावनादिति चेत्; उक्तमत्र पक्षपरिग्रह देवैफल्यमिति । कथं वादिनस्तृष्णीभायो दोषः तावता तत्पक्षस्यापरिक्षयात् । शक्तिपरिक्षयादिति चेत्; न; शक्तस्थापि कुतश्चिज्जिद्दाकीलनादेस्तत्सम्भवात् । तस्मात् स्वपक्षं व्यवस्थाप्य जयवाकया प्रवृतो यदि तन्न व्यवस्थापयति मा १५ भूय एव तस्य, कस्मात् पुनः पराजयः १ स्वपक्षासाधनादिति चेत्; न; साधनस्य अयनिमित्तत्वेन जयस्यैव तदभावे भावात् । तदभाव एव पराजय इति चेतुः नः तस्य प्रतिवादिन्यपि पक्षसिद्धिचिकलत्वेन भावात् । न च द्वयोः पराजयः कयचिज्जयाभावे तदनुपपत्तेः ।
यद्ध्यत्र व्याख्यानंम्–“प्रत्यक्षाविषयस्यार्थस्य सिद्धेरङ्गं त्रिविधं लिङ्गं तस्य वचनं समर्थनम्, तच्च यत्कृतकं तदनित्यं दृष्टं यथा घटादिकमिति साध्यसाधनयोः साकल्येन २० विपक्षे बाधक सामर्थ्यात् व्याप्त्युपदर्शनम्, अप्रदर्शितव्याप्तिकस्यानुक्त कल्पत्वेनागमकत्वात् । पक्षधर्मप्रदर्शनं वा कृतकच शब्द इति, तदनुपदर्शनेऽपि गमकत्वासम्भवात् चाक्षुषत्वादिवत् । तस्यावचनमसाघनाङ्गवचनम् । तदुद्भाच्यमानं वादिनो निग्रहस्थानम् ।" [ ] इति तदपि न समीचीनम् तदुद्भावनमात्रेण स्वपरपक्षसिद्धिमतिक्षेपयोरभावात् तन्निबन्धनत्याच जयेतरव्यवस्थायाः । यदि च, व्याप्तेरवचनमसाधनाङ्गवचनम् ; कथं तदपरिज्ञांत (त) तत्प्रतिबन्धं प्रति तदवचनं न दोषायेत्यभ्युपगमः १ यत इवं शोभेत -
२५
१ ‘'अकलङ्कोप्यभ्यद्भात्-बिरुद्धं हेतुमुन्द्राध्य...." - रत्नाकरा० पृ० १२४१ | उद्धृतोऽयम्त० श्लो० पृ० २८० | सन्मति० टी० प्र० ७५९ । प्रमाणमी० पृ० ६४ । २ जयाभाव ३ "सावनाङ्गस्यासमर्थेनाद्वा | त्रिविमेव हि लिङ्गमप्रत्यक्षस्य सिङ्गम् - स्वभात्रः कार्यमनुपतन्भश्च । तस्य समर्थन साध्येन व्याप्तिं प्रसाध्य धर्मिणि भावसाधनम् । यथा यत्सत्कृतक वा तत्सर्वमनित्यं यथा षञ्चदि, सकृतको का शब्द इति... तस्यासमर्थनं साधनाङ्गावचनं तद्भादिना पराजयस्थान मारवार्थावाचनात्। (१०१२ ) साधनं त्रिरूपहेतुवचनसमुदायः तस्याङ्ग पक्षधर्मादिवचनम् ..." वान्या० पृ०६१।४ - ज्ञानम् आ०, ब० ।