________________
२२२०८ ]
२ अनुमान प्रस्तावः
२३५
प्रकृतो विधिमुखेन निषेधमुखेन वा साधयितव्यतथा मकान्तो यः अशेषः समयः साध्यसाधनरूपः, तत्त्वाथों न सौगतवत् कल्पितस्वभावस्तस्य प्रकाशः सभ्यचेतसि समर्पणं तत्र पडुवादिनः सकाशात् यो विपरीतः तत्प्रकाश पाटविकलः स निगृह्यते पराजयं प्राप्नोति । तथाहि यदा जैनो वादी सम्यक हेतु प्रयोगेण स्वपक्षं प्रकाशयति--परिणामी भादो ऽर्थं क्रियाकारित्वात् । न हि नित्यैकान्ते तत्कारित्वं कमयौगपद्यविरोधात्, क्षणिकान्ते सदसत्तामय विकल्प योगाच्च । न च तदुभयविकल्पानामा ५ प्रकारान्तरं सम्भवति यतस्तदेकान्ते तत्कारित्वावस्थितिस्तस्य बहिरन्तश्चाप्रतिपत्तेरिति तदा सौगतादिः प्रतिवादी पराजीयते । यदा वा जैन एव प्रतिवादी प्रकृतमेव हेतुं परमयुक्तं विरुद्धमुद्भाव्य ततः स्वपक्षमवद्योतयति तदापि परस्यैव पराजयावाप्तिस्तद्विपरीतखेनेति प्रतिपत्तव्यम् । अथ यदा सौगतादिरेव वादी प्रतिवादी वा स्वपक्षे परपक्षे च साधनं वा क्रिश्चित् समोचीनमनवलोकयन् छलादिना प्रत्यवतिष्ठते समाभीरुतया तूष्णीं वा तिष्ठति तदा तदनुद्भावने जैनस्यैव निग्रह इति चेत् न प्रकृतार्थ- १० प्रस्यायने सति तदद्भावनस्यादोषत्वात् । यदि च तत्प्रत्यवस्थानादिना जयः परस्य पराजयश्च तदनुद्भावनेन जैनस्य किमर्थास्तर्हि पक्षप्रतिपक्षपरिग्रहादयो विनापि तैस्तत्सम्भवात् । तदुक्तम्" वादिनो गुणदोषाभ्यां स्यातां जयपराजयौ । यदि साध्याप्रसिद्धौ च व्यपार्थाः साधनादयः ॥" [ किञ्च, अनुद्भावितमेवास्य तदनुद्भावनं यदि ।
] इति ।
निग्रहाय छला किन्न स्यात् प्रतिवादिनः || १५६४॥ उद्भावितं चेत् केनास्य कल्प्यमुद्धावनं त्वया । सभ्यैश्चेत् किन्न ते कुर्यश्छाद्युद्भावनं तथा ||१५६५॥ तद्वादिनैव चेत् सोऽयं स्वकौपीनप्रकाशनम् । कुर्वन् कथं जयी नाम न परस्यास्ति सम्भवः || १५६६ ॥ तदुद्भायनतस्तस्य गुणत वेज्जयस्तदा । पक्षविक्षेपणाद्दोषादजयोऽपि सकृद्भवेत् || १५६७ ||
न च तौ युगपद्युक्त अन्ममृत्यू इति । यथा वा तमत्रलोकी यथा वा स्थितिथिभ्रमी || १५६८||
१५
२०
ततो न परिक्षीणपक्षस्य तदुद्भावनं गुण इलि पराजय एव तस्योपपत्र इति सूक्तमिदं २५ विवाणो विसदृशं दूषणमभिदधानः अत्रु वाणो वा तूष्णीमासीनो वा विपरीत एव निगृह्यत इति । तदनेनासिद्धानैकान्तिकत्वाभासोद्भावनमपि न पक्षसिद्धिविफलस्य गुण इति प्रतिपादितं प्रतिपत्तव्यम् अङ्गीकृतनिर्वहणस्यैव सर्वथा गुणत्वोपपत्तेः, तद्भावाभावाभ्यामेव जयपराजययोः सम्भवात् । किमर्थं तर्हि तवाभासोद्भावनमिति चेत् ? परस्थानुषायपक्षतां प्रतिशद्य पुनः स्वपक्षव्यव स्थापनार्थम् । अत एवोक्तम्
१ यथा आ, ब०, प०। २-विवमेश- आ. ब०, प० । ३ दह आ०, ब०, प० ।
३०