SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २३४ न्यायविनिश्चयविवरणे [ २०४-५ सुगतोऽपि मृगो जातो मृगोऽपि सुगतः स्मृतः। तथाऽपि सुगतो बन्यो मृगः खायों ययेष्यते ॥२०४॥ तथा वस्तुपलादेव भेदाभेदव्यवस्थितः । चोदिनो दधि खादेति किमुष्ट्रमभिधावति ॥२०५॥ इति । सुगताऽपि न केवलमन्यो जातः पूर्वस्मिन् भवे मृगः मृगोऽपि न केवल मनुष्य एव सुगतः स्मृतोऽनुमतः तदुत्तरभवे शाक्यैः । ततः किम् ! तथाऽपि मृगसुगतभवयोः उपादानोपादेयतयैकसन्तानत्वेऽपि सुगतो बन्यो न मृगो मगस्तु खाधो न सुगत इति यथा येन अवस्थाभेदप्रकारेण इष्यते सौगतः, तथा वस्तुबलादेव वस्तुशक्तित एव भेदाभेदयोरसाकर्येण व्यवस्थिते चोदितो दधि खादेति कस्मात् उष्ट्रमभिधापति सत्येव तत्साकर्ये तदुपपत्तेः । सम्प्रति जात्यन्तरं दर्शयन्नाहअत्रैवोभयपक्षोक्तदोषारेका [ अनवस्थितेः ] । इति । अत्रैव मेदामेदव्यवस्थिताबेर उभयपक्षः नित्यैकान्तपक्षः क्षणिकैकान्तपक्षश्च तत्र य उक्तः स्या दिना मोषः अर्थ किरण द युज्येत नित्यक्षणिकपक्षयोः" [ लघी० श्लो० ८ ] इत्यादिः तस्य आरेका संशीति तिरिति वक्ष्यमाणेन सम्बन्धः । कुत इत्याह--अनवस्थितेः तदारेकायाः १५ प्रमाणाधितत्वेन स्थित्यभावात् । अन्यथा सर्वस्यापि प्रमाणस्य निविषयतापत्तेः । पुनरपि तदन्तरमाह अनन्वयादिदोषोक्तेः प्रपश्चो वा [ अनया दिशा ] इति ।२०६|| चा इति समुच्चये अनन्वयः सर्वानेकान्तसाधने सपक्षवैकल्यम् आदिशब्दात् अपक्षधर्मत्वं सत्त्वादिसाधने हेतुसाध्यै व्यावृत्त्यभावश्च स एव दोषस्तदुक्तः प्रपञ्चः प्रबन्धो जातिरिति पूर्ववत्सम्बन्धः । कयोपपत्त्येत्याह-'अनया दिशा' इति । अनया पूर्वप्रतिपादितया दिशा अन्वयाधभावेऽपि गमक२० स्वोपपत्तिवर्मनेति। ननु यथाऽन्यापि साधादिसमा जाति यायिकादिना कथ्यते तथा स्वया किन्नेति चेत् ! अत्राई मिथ्योत्तराणामानन्त्याच्छास्ने वा विस्तरोक्तितः । साधादिसमत्वेन जानिर्नेह प्रतन्यते ।।२०७॥ इति । न पुनरिह शास्त्रे साधर्म्यवैधादिसमा तयाऽपि जातिविस्तरेण निरूप्यते । कस्मादिति चेत् ! मिथ्योत्तराणां पुरुषाभिप्रायनिबन्धनत्वेनेयत्तापरिच्छेदाभावात् विलक्षणकवर्थने वा शास्त्र विस्तरेणा श्रीपात्रकेसरिस्वामिना प्रतिपादनादित्यलमभिनिवेशेन । तदेवमनुमानतदामासभेदे निरूपिते यथा जयेतरव्यवस्था तथा दर्शयन्नाह --- प्रकताशेषतत्वार्थप्रकाशपटुवादिनः। विब्रुवाणोऽब्रुवाणो वा विपरीतो निगृहयते ॥२०८॥ इति । १ -स्वासत्तासा- आ०, बन, प० । २ -साभ्याम्यात्यभा- आ०, ब०, प० । -साध्यायावस्था भा-ता।३ न्यायसु०५।११-३७ ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy