________________
२।२०३]
२ अनुमानप्रस्ताव तदेवमुपदर्य हेतुतदाभासान् सम्मति ठूषणाभासं दर्शयन्नाह
तत्र मिथ्योत्तरं जातिः [ यथाऽनेकान्त विविषाम् ] । इति ।
प्रमाणोपपन्ने साध्ये धर्मे यस्मिन् मिथ्योत्तरं भूतदोषस्योद्भावयितुमशक्यत्वेनासदुषणोंभावनं सा जातिरिति । तत्केषामित्याह-'यथाऽनेकान्तविद्विपाम्' इति । अथेत्युदाहरणमदर्शने । अनेकान्तविद्वियः सौगतावयस्तेषामिति । कीदृशं तत् ! इत्याह
दध्युष्ट्रादेरभेदस्वप्रसङ्गादेकचोदनम् ॥२०३।। इति । दधि चोष्ट्रश्चादिर्यस्य कर्कगुडादेस्तस्य एकचोदनमेकशब्दाभिधेयत्वम् । कुल एतत् ! अमेदत्वस्य दध्युष्ट्रायरेकायस्य प्रसङ्गात् । प्रसज्यते हि अनेकान्तवादिनो यथा क्षीरविकारस्य दधित्व तथा करमत्वमषि, अन्यथा 'सों भावस्तदतस्वभावः' इति सिद्धान्तव्यापत्तेः । तथा च दधिशब्देनैव क्षीरविकारस्येवोष्ट्रस्यापि तदेकतामापनस्याभिषानात् दधि खादेति चोदितेन करभेऽपि तद्भक्षणाय १० प्रवर्तितव्यम् । तदुक्तम्-"सर्वस्वोगापदे व. २! १८२ । इत्यादि । विथत एव वनि कश्मिद्विशेषो यसो न करमत्वं तस्येति चेत्, तर्हि स एव दधीति वक्तव्यं तत एव तत्फलस्य तृप्त्यावर्भावात, स च न करभादौ अस्तीति कर्थ तदतत्स्वभावत्वं भावानां यत एकान्तवाद एवं प्रशस्तो न भवेत् ! इदमप्यमिहिसम्
"अथास्त्यतिशयः कश्चित् येन भेदेन वर्तते ।। स एव दघि सोऽन्यत्र नास्तीत्यनुभयं चरम् ।" [प्र. वा. ३) १८२ ] इति ।
कथं पुनरस्यासदुत्तरत्वं यतो जातित्वमिति चेत्, प्रमाणबलावलम्बिन्यनेकान्ते प्रवृत्तेः। प्रतियादितं हि तदवलम्बितत्वमनेान्तस्य प्रत्यक्षतः,सत्वादसाधनसमुद्भवादाभिनिचोधिकादपि तस्यैव प्रतिपत्तेः सविस्तरं समर्थितत्वात् । न च प्रमाणपरिशोषिते वस्तुनि दूषणसम्भवः । तथा हि-तदपि तदतदात्मके वस्तुनि दूषणमुक्षुष्यमाणं न तावत् सामान्यविशेषात्मके भवितुमर्हति; दध्याद्यन्वयिनः सामान्यस्यैकस्या- २० भावात् । सहशपरिणामो हि सामान्यम्, तच्च दध्यादिपर्यवसितमेव न किश्चिदपि सत्त्वमन्यद्वा समन्वितमस्ति नीलतज्ज्ञानयोः सारूप्यवत् । तत्कथं दभ्युष्ट्रयोरेकत्वं यत एकचोदनायामन्यत्रापि प्रवृत्तिः | नाषि द्रव्यपर्यायात्मके; दधिद्रव्यस्य स्तब्ध-स्तब्धतरादिभिः स्वपर्यायैरेय अभेदात नोष्ट्रपर्यायैः । एवमेव निर्वाधायास्तत्प्रतीतेरनुभवात् , अन्यथा विकल्पज्ञानस्यापि स्वगतेनेव तदन्तरगतेनाप्यभिलाप्याफारेणाभेवायत्तेः न भाविकल्पो मातृविकल्पाद्भिद्येत, तथा च तद्विकल्पप्रयुक्तस्य भार्यायामिव मातर्यपि प्रवृत्ति- २५ भवेत् । ततः स्याद्वादिमतमनवबुद्धय तन्त्रेदमुच्यमानं धर्मकीर्विदूपकत्वमावेदयति-"पूर्वपक्षमविज्ञाय दुषकोऽपि विदपकः ।" [ ] इति प्रसिद्धः । भवतु वा दधिकरभयोः सामान्यपरायामेव चोदनायो दधिवन करमे ऽपि प्रवृत्तिः,न च दधिचोदनायास्तत्परत्वं क्षीरविकारविषयतया विशेषपरताया एव तत्रोपलम्भत्, तद्विकाराच्च करभरूपस्य विशेषस्यार्थान्तरस्यात् । एतदेव परप्रसिद्ध न निदर्शनेन दर्शयन्नाइ
१ सदेव सर्वेको नेच्छेत् स्वरूपादिचतुष्टयात् । अनदेव विपर्यासात् ..."-आप्तमी० श्लो० १५ । २ तदारम-आ०, १०, प०। ३ विकल्पान्तर ।