________________
२।१९६-२०१]
२ अनुमानप्रस्ताव न हि शब्दे धर्मिणि नाशिस्त्रस्य साध्यभावः साधनमावो वा सत्त्वस्य उपलक्षणमिद तेन कृतकवादेश्च,तस्य वस्तुतः कल्पनया चावस्तुरवात् । अत्रैव प्रतियस्तूपमया दृष्टान्तमाचष्टे
__ अमल: पाचकाऽग्नित्वात् [इत्यनेकान्तयिविषाम् ] ||१९९|| इति ।
चयहि साले गिनि पायकर-शानियोन साध्यसाधनभावः शब्दभेने ऽपि वस्तुभेदाभावात् तथा प्रकृतयोरपि । न हि तत्रापि वस्तुभेदो विकल्पमेनस्यैव भावात् । केषां पुनस्तत्र तयोर्न तद्भावः । ५ इत्याह-'इत्यनेकान्तपिद्विपाम्' इति । विकल्पबुद्धी अनेकान्तं ये विद्विषन्ति तेषामिति । न हि अनामिलाप्येतराकारस्यानेकान्तस्याभावे विकल्पो नाम, यतः विकल्पिताऽपि हेतुसिद्धिर्भवेत् । भवतु कल्पितस्तत्र अनेकान्त इति चेत्; न; अनवस्थादोषस्योद्घोपितत्वात् । भवतः कथं तत्र तयोस्तद्भाव इति चेत् ! आह
सर्वान्यसदृशः शब्दः सन्यादिपरिणामतः ।
सर्वान्यार्थासमः शब्दः शब्दादिपरिणामतः ॥२००|| इति ।
साधारणेतरस्वभावो हि शब्दः स्याहादिनां प्रतीतिबलात् । प्रतीयते हिं तत्र साधारणस्वभावत्वं सत्त्वज्ञेयत्वादिना परिणामेन, तपेण तम्य सर्वापरपदार्थसादृश्यात, असाधारणरूपत्वं च शब्दस्यश्रावणत्वादिना, तस्य तदन्यत्र सर्वत्राभावात् । अतः शन्दानित्यत्वसाघनेन ते सत्वादे प्रतिज्ञाऽर्थंकदेशासिद्धत्यम् । शब्दादसाधारणपरिणामात्मनम्तस्य तद्विपरीतत्वेन न निरंशवादिनामिते १५ भावः । शब्दस्य परिणामत्वे परिणामिना भवितव्ये तस्य तन्धमत्वात् । न चासौ कश्चिदपि अस्तीति चेत; न; पुद्गलपरमाणूनां भाव त् । एतदेवाह
अणूनां श्रुतयोग्यत्वातिशयादानहानयः ।
शब्दोत्पत्तिविनाशा नत्साध्यसाधनसंस्थितिः ] ॥२०१॥ इति ।।
शब्दस्य हि उत्पत्तिर्नाम पुदगलपरमाणूनां ताल्बादिभिः श्रवणज्ञानविषयापनोग्यासन्ध. २, रूपातिशयोपादानमेव, विनाशोऽपि कुतश्चिदतिशयपरिहाणिरेव, नासतः सर्वथा प्रादुर्भायो नापि नोरूप प्रध्वंसः प्रमाणाभावात् । ततो युक्तं परिणामत्वं शब्दस्य पुद्गलपर्यायत्वात् । न चेदसिद्धमवसोद्धव्यं तृतीये निमपयिष्यमाणत्वात् । बहुवचनं तु उभयत्रापि व्यक्तिमत्वापेक्ष प्रतिपत्तव्यम् । ततः किम् ? इत्याह-तत्साध्यसाधनसंस्थितिः । नन् तस्मात् साधारणेतरस्वभावसद्भावात् साध्यसाधनानामनित्यत्वसत्त्वादीनां मंस्थितिरस्तीति शेषः । एवमन्ये ऽप्यसिद्धा हेत्वाभासा अभ्यूहितव्याः । १५
____सम्प्रत्यनेकान्ति कस्तदाभास उच्यते । कथं पुनर्विरुद्धेत्यादौ 'कारिकायामनुक्तस्तदाभासः कथ्यते तदुक्तस्यैव विवरणीयत्वादिति चेत् ! न; सन्दिग्धशब्देन तस्यैव अभिधानात् । सन्दिग्धसाध्यविषयत्वेन तन्न लच्छन्दोपपत्तेः । स च यथा तनुकरणभुवनादिकं बुदिधमधेतुकम् अचेतनोपाद!नत्वात् सन्निवेशविशिष्टत्वाच्च घटादिवदिति ।
स्यान्मतम्-सत एव साध्ये तद्विपक्षे च भावादनकान्तिकत्वम् | न च तन्यादी तादृशम- ३० १ न्याय वि० श्लोक २१६७ ।