SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २२८ न्यायधिनिश्चयविवरणे 1२|१९८-१६६. उत्पत्तिः; अवस्तुन्येव तस्याहेतुत्वान् । न च प्रतिबन्धान्तरम् । अप्रतिबद्धस्य च न सद्विषयत्वमतिप्रसङ्गादिति | * आश्रयासिद्धो यथा भावमात्रानुपङ्गी विनाशो भावानां निर्हेतुकत्वादिति । निरन्वयो छत्र भावप्रध्वंसो धर्मी निर्दिष्टः स चासिद्ध एव । अन्यथा क्रिमनेन हेतुना तस्यैवातोऽपि साधनात् ? ५ तत्कथमसिद्धावस्य सिद्धिः सिद्ध एव धमिणि सद्धर्मसिद्धरुपपत्तेः । असिद्धिश्चास्य सान्वयस्यैव विनाशस्य प्रतीतः, यथा बाल्यादेयौवनादौ । न हि तत्रान्वयो नास्ति, 'स एवायम् इत्यपरिस्खलितात् प्रत्ययात् | हेतुफलमायादेवायं' नान्वयादिति चेत्, न: तन्निमितत्वे ऽतिप्रसङ्गस्याभिहितत्वात् । भवतु तर्हि सान्वयनिरन्धयविशेष विवक्षारहितं तदुभयसाधारणं विनाशमात्रं धर्मी सिद्धत्वादिति चेत्; न. विशेपट्टयस्य असम्भवात् । न हि निरन्वयोऽपि विनाशः कचिदवगतिपथप्रस्थायी सान्वयात्यैव प्रतीतेः, १० तत्कथं तयोः किञ्चित् सामान्यं नाम यस्य हेतुं प्रत्याश्रयत्वमुपाल्प्येत ? तदेवाह सवेथा नास्ति सामान्यं परिणामविनाशयोः । यो हेतोराश्रयः [अनिष्ट्ररिष्टः स्वास्मा विशेषतः] ॥१६॥ इति । व्यक्तमेतत् । भवतु सहिं परिणामात्मैव विभाशो धर्मीति चेत् आह-अनिष्टेरिति । न हिं परिणामः सौगतस्येष्टो यतस्तस्य भावमात्रानुषङ्गित्वं साध्यते । न च तत्साधनमुपपन्नं जैन प्रति १५ विवादाभावात् । कराई सौगतस्येष्टः इत्याह-'इष्टः स्वात्मा विशेषतः' इति । विशेषेण हि निरनुगम लक्षणेन सौगतस्येष्टी वस्तुस्वभावो न परिणामेन । स च प्रमाणाभावादसिद्ध इति कथमस्याश्रयासिद्धत्वं न भवतीति मन्यते ? निरंशवस्तुवादिनः सत्यादिः सोऽपि प्रतिज्ञार्थंकदेशासिद्धः । तद्यथा अनित्यः शब्दः सत्त्वात् कृतकत्यात् उत्पत्तिमत्त्वाच्चेति । प्रतिज्ञार्थो हि अत्र धर्मिसाध्यधर्मसमुदायः । तदेवदेशः पुनः शब्दोऽनित्यत्वं च, तत्र यथा अनित्यत्वस्य न हेतुत्वं साध्यत्वेनासिद्धत्वात् तथा २, शब्दस्यापि । अत एव शब्दस्वादेस्तरस्वभावस्य परैतत्त्वमनभिप्रेतं सदत्सवादेरपि भवेत्, शब्दस्वभाव स्य सत्त्वादिनानाधर्मस्याभावात्, अन्यथा निष्कलनिखिलबस्तुप्रतिज्ञाव्यापत्तेः । वस्तुरूप एव तत्र न विद्यत एव नानाधर्मो व्यावृत्तिरूपस्तु विधत एव व्यावर्त्य भेदेन तद्भवस्य प्रतिष्ठितेः, “यावन्ति पररूपाणि तावत्यस्तनिवृत्तयः ।" इति [ ] वचनादिति चेत्, न तद्भदस्याप्येकस्वभावनिबन्धनस्य कार्यमेदवदसम्भवात् अनेकस्वभावस्य च शब्दे वस्तुन्यभावात् ! भाव एव . व्यावृत्तिरूपस्येति चेत्, २५ न; तन्निबन्धनस्यापि पुनस्तद्रुपानेकस्वभावस्य कल्पनायामनवस्थापत्तेः । सत्यमेतत्, केवलं विकरूपा एवाविचारितरम्या व्यावृत्तिभेदेन तद्भ दमुपकल्पयन्तीति चेत्, न तर्हि ततः फस्यचित् सिद्धिरवस्तुसस्पर्शित्वात्,अन्यथा ततः साध्यस्यैव सिद्धरनर्थकं लिङ्गसमर्थनम् । तन्न कल्पनासिद्धस्य सिद्धत्वमित्यसिद्ध एव सत्वादिः । एतदेवाह साध्यसाधनभायो न शब्दे नाशित्वसषयोः । इति । १ स एषायमिति प्रत्ययः । २ अर्थध-- आ०, ब०, ५० । ३ "तस्मादेकस्य भावस्थयावन्ति पररूपाणि सावत्यस्तदपेक्षया व्यावृप्तयः ।" -प्र०या० स्वकृपृ० १५६ ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy