________________
५
१०
न्यायविनिश्चयविवरण
[ २६४-१६६
यदि परदुःखादिकं सर्वज्ञो न जानाति कथं तज्जत्वम् जानाति चेत् कथन्न दुःखादिमान् ? नहि परस्यापि तत्साक्षात्करणारं दुःखादिमत्त्वमिति चेत् अत्राह
परदुःख परिज्ञानाद्दुःखितः स कथं भवेत् || १९४ || स्वती हि परिणामोऽयं दुःखितस्य न योगिनः । इति । परेषां छद्मस्थानां दुःखं तस्य उपलक्षणमिदं तेन रागादेश्च परिज्ञानात् दुःखितः सः सर्वज्ञः कथं नैव भवेत् ? न हि दुःखपरिज्ञानादेव दुःखित्वम् अपि तु स्वतस्तथा परिणामात् । न चायमस्ति योगिनः अपि तु दुःखितस्य संसारिण एव । ततः स एव दुःखी न तज्ज्ञानमात्रेण योग्यपि । न हि पितुरपि पुत्रदुःखपरिज्ञानादेव दुःखित्वं किन्तु स्वतस्तथापरिणाम देव, अन्यथा दुश्चरितपुत्र परिक्लेशरज्ञानादपि तस्य दुःखितत्वं प्राप्नुयात् ।
किं पुनर्भानापावात् कुतश्चिद् बुद्धिप्रर्षो दृष्टोऽस्ति यतः सकलबेदनमपि ततो भवेदिति चेत् ? बाढमस्तीत्याह
२२४
१५
भावनापाटवादु बुद्ध: प्रकर्षोऽयं [मलक्ष्यः ] || १६५३ | इति वैद्यादिशास्त्रार्थस्य चेतसिं भूयः परिमलनं भावना तस्याः पाटवं शक्तिविशेषस्ततो बुद्ध : साध्यासाध्यरोगविभागतन्निदानादिप्रतिपत्तेः प्रकर्षो ऽतिशयपर्यन्तप्राप्तिः अयं प्रसिद्धो लोके, तथा सर्वोऽपि जीवादिपदार्थनिवहः पवनः पनीतया प्रज्ञयोपसंगृह्य परिभाव्यमानः तत्प्रकर्षकाष्ठाभश्रितिष्ठतीति भावो देवस्य । तथा हि-विवादापन्ना बुद्धि: स्वविषये प्रकर्षमधितिष्ठति, भाव्यमानत्वात्, वैद्यादिबुद्धिवत् । प्रकर्षस्वरूपमाह 'मलक्ष्य' इति । 'अयम्' इत्यत्रापि योज्यम्; अयमुच्यमानः प्रकर्षो मलस्य प्रकाशावरणादेः पर्यन्ते क्षयो नापरम्, स्वरसाम्भविरूपापादनं भावनाशतेनाषि तस्याशक्यत्वात् । कुतः पुनस्तक्षय एव स इति चेत् उच्यते - विवक्षितो बुद्धिप्रकर्षो मक्षय२० रूपस्तस्यात् काचामाद्युपशमरूपदपादिबुद्धिप्रकर्षवत् । तत्क्षयः किम् ? इत्याहकारणासम्भवाक्षेपविपक्षः सम्प्रतीयते । इति ।
I
कारणस्य सकलज्ञेयप्रतिपत्तिनिमित्तस्य असम्भवाक्षेपः स्वीकारस्तस्य विपक्ष विरोधी सम्प्रतीयते निश्चीयते । तथाहि यस्य यत्र मक्षवः स तं साक्षात् करोति यथा कश्चिदपगतलोचनमलोचनमलो नीलधवलादि, लक्षयश्च कस्यचिंटू जीवादिनिखिला गमार्थत्रिय इति । किं पुनस्तद्बुद्ध: मलं यत्परिक्षयो हेतु: ? न तावदयं रागादिः सत्यपि तरिमन् बुद्धेर्भावात् । नापि शरीरादिः सकलवेदित्यपि तदभ्युपगमात् । अत एव न दूरदेशादिस्पीति चेत नः शरीरेन्द्रियादिव्यतिरिक्तस्य आत्मसमवायिपुलपरिणतिविशेषस्य तत्त्वात् । कुतस्तदस्तीति चेत उच्यते- 'यत स्वविषये ज्ञानमस्पष्टं तत्तादृशमलनिमित्तं यथा मदिरोपयोगिनः सन्निहितेऽपि वाद अस्पष्टवेदनम्, अस्पष्टं च सर्वत्रापि स्वविषये प्रवचनज्ञानम् ।"
२५
+
१ तुलना - "संवेदनाद्भागिता चेत् स्त्रीमनू स्यात्तनिरूत्सम्बन्धाद्रानिता तस्य न तु रागादिवेदनात् । प्र० वातिकाल० ११२३३ २ कलदेवस्य । ३-सम्भत्री रूयादा आ०, प० । ४- पपाटवादि - ता । ५- श्रिदमित्री- आप० ।