________________
९२२
न्यायविनिश्वयविचरणे
[ २११६१-१९३
•
हितोयस्य पाचकत्वेन परिभावितस्यापि पावकमयत्वमिति तन्न; स्वशक्तित एव तासामशेषविषयत्यात्, अन्यथा व्याप्तिज्ञानानुपपत्तेरिति निवेदितत्वात् । किमिदानीं तद्बलेनेति चेत् न तेन लगतस्यैव स्वष्टासाघारणाकारप्रतिभास प्रत्यर्थिनः कर्ममलस्यैव प्रत्याख्यानात् चैतन्योन्मीलनप्रत्यर्थिनो विषोपलेषस्यैवामृतध्यानबलेन । अत एवामनन्ति - " तपसा निर्जरा च" [त० सू०९ | ३] ५ इति । तदेव दर्शयति
१०
अक्षयात् पुरुषत्वादेः प्रतिपक्षस्य संक्षयात् ॥१९१॥ सर्वतोऽक्षमयं ज्योतिः सर्वार्थैः सम्प्रयुज्यते । इति |
ज्योतिर्ज्ञानमेव प्रभास्वरत्वाद अक्ष आत्मा प्रकृतः प्रकर्षेण निश्चितो यस्मिन्नि न्यक्षमयम् आत्मस्वरूपं स्वरूपादन्यत्र तम्मिश्चयानुपपत्तेः । तत् सर्वार्थः ग्राहकत्वेन सम्प्रयुज्यते । किमेकस्मिन्नेव मुखे ? नः सर्वतः सर्वात्मना ऊर्ध्वमघस्तादत्रतः पृष्ठतः सर्वतश्च । कुतस्तथा १५ प्रतिपक्षस्य ज्ञानावरणस्य संक्षयात् निःशेषपगमात् । त
सर्व प्रकाश सामर्थ्यं ज्ञानावरणसंक्षयात् । इति ।
ज्ञानमा म्रियते येन तज्ज्ञानावरणं कर्म वक्ष्यमाणसद्भावं तस्य संक्षयः समन्तात परिक्षयः श्रुतविषयभावनात् । ततः सर्वस्य यः प्रकाशः स्वष्टा साधारणाकारमतिभासरूपः तत्र सामर्थ्य बुद्धीनामिति शेषः । एतदेव स्पष्टवन्ना
口
"निरावरणवाभास दिव्य बोधमहोमयी ।
प्रख्यायोर्ध्वमधस्तिर्यक् प्रतिव्यक्ति प्रकाशते ।" [
] इति । प्रतिपक्षपरिक्षये तदाहितविशेषस्य ज्ञानस्यापि परिक्षयात् । कथं तस्ये पुनः सर्वार्थैः सम्प्रयोग
इति चेत् न तदापि तद्विशेषस्यैवा स्पष्टप्रतिभासविभ्रमरूपस्य व्यावृत्तेः न ज्ञानमात्रस्थापि
निरन्वयायां वस्तुनिवृत्तौ प्रमाणाभावात् । अत एवेदम्- 'अक्षयात् पुरुपत्वादेः" इति । पुरुषत्व - मन्वितं जीवरूपम् आदिशब्दाच्चेतनत्वादीति तस्यैवेति चेत् ननु चेतनत्यमेव पुरुषत्वं तत्कथं तदन्यत् यत आदिपदेन सङ्ग्रह इति चेत् ? न तापि तद्विशेषस्यैवास्पष्ट प्रतिभासविभ्रम [रूप] पुरुषत्वस्य साधारणेतरस्वभावस्य अचिद्रूपतन्मात्रस्त्यात चेतनत्वस्य चोपयोगव्यपदेशस्य असाधारणरूपरयात् । अत एवोक्तम् - "उपयोगस्वात्मान्यो वस्तुत्वादिस्तदुभयभावो जीवः" ] इति । यदि प्रतिपक्षपरिक्षयाज्ज्योतिः छद्धस्थानां तद्भावात् कथं रूपादिवेदनमिति चेत ? अत्राह
२५ [
कथञ्चित् स्वप्रदेशेषु स्यात् कर्म पटलाच्छता ॥ १९२॥ संसारिणां तु जीवानां यत्र से चक्षुरादयः । इति ।
९ भवानाबलेन । २ पुनस्तस्य आ०, ब०, प० । ३ तथापि ० ब० प० । ४ न चेतआ०, ब०, प० । ५ स्य ताः ।