________________
२२० न्यायविनिश्चयविवरणे
151662-4€ इयं सकलवेदिनि परैः परिकल्प्यमाना विवक्षा वक्तुमिच्छ| अप्रमत्ता प्रमादरहिता कस्मात ! अन्यथा अन्येन प्रमत्तप्रकारेण योऽसौ नियमस्तकृतस्य वचनप्रबन्धस्य स्थानत्रयेऽपि अविसंवादावधारणं तस्या अत्ययोऽभावस्तस्मात् । नहिं प्रमादबद्धतुनिबन्धनस्य तन्नियमः सम्भवति,
अस्ति चाय प्रत्यक्षविषये प्रथमेन अनुमानवेधे द्वितीयेन अत्यन्तपरोक्षे च तृतीयेन प्रस्ताबेन तन्नियमस्य ५ प्रसाधनात् । ततः सा प्रमादरहितैव ततो न दोषवतोत्याह
इष्ट सत्यं हितं वक्तुमिच्छा दोषवती कथम् । इति ।
इष्टं श्रेयोऽर्थिभिरभिलषितं संसारतत्कारणादिकं सत्यं न सौगतादिवत् कल्पितम् । अत एव हितं पुरुषार्थभूत वक्तुमिच्छा कथायितु कामता कथं दोपवती न कथञ्चिदिति ? कुतः पुनः कस्यचित् सफलज्ञान यतः कथमित्याधुच्यत इति चेत् । अत्राह--
प्रशाप्रकर्षपर्यन्तभावः सोर्थगोचरः ॥१८८॥ इति ।
प्रज्ञायाः सकलश्रुतार्थबुद्धेर्योऽसौ प्रकर्षो भाव्यमानाया अतिशयमनस्य ( ने तस्य ) यः पर्यन्तभावः परिस्फुटव्यापारात्मा स सर्वार्थगोचरः सर्वदेशकालादिव्ययहितोऽर्थो जीवादिर्गाचरो यस्य स तथोक्त इति । एतदुक्तं भवति-सकलश्रुतार्थभावनायां तत्पर्यन्ते सा परिस्फुटसकलवस्तुप्रभाववती
भवत्ति कामिन्याविभावनावत् । तवांश्च सर्वज्ञ इति । भवतु वक्ता सर्वज्ञः तद्वचनस्य तु कथं यथार्थत्वं १५ यतस्तत्त्वज्ञानार्थिनाभयेमन्वेषणीयः स्यात् ! स्वरसत एव शब्दानामयथार्थबुद्धिहेतुत्वेन तदुक्तानामपि वस्तुगोचरत्वानुपपत्तेरिति चेत्, अत्राह
___ तत्कार्योत्कर्षपर्यन्तभावः सर्वहिताभिधा । इति ।
तस्य तत्पर्यन्तभावस्य कार्य वचनं तस्योत्कर्षः एकान्तप्रबादापेक्षोऽतिशयोऽविपतिसारलक्षणः तस्य पर्यन्तभावः स्वविषये सर्वत्र सत्त्वम्, सर्वेभ्यो हितस्य श्रेयसः तःमार्गस्य च २० अभिधा प्रकाशनमिति | तात्पर्यमत्र
वाचा हि तत्मयुक्तानामविसंवादभावतः । प्रतीयते यथार्थत्वं कथं तेनायथार्थता ॥१५४०॥ अयथार्थं वः सर्वमिदं चेदर्थवद्वचः । अयथार्थं वचः सर्वमिति सन्धा विलिप्यते ॥१५४१।। इदमप्ययथार्थं चेद्यथार्थं स्याद्वचः परम् | अयथार्थायथार्थत्वे यथार्थत्वव्यवस्थितेः ॥१५४२|| यथार्थवे स्वतः सर्वं वचः किन तथेति चेत् । चक्षुरादि तथा किन्न सर्वमर्थवदुच्यताम् ॥१५४३॥
अर्थक्दगुणवत्तच्चेन्मिथ्यार्थमितरन्मतम् | १ "स्थानत्रया विसं वादि श्रुतज्ञानं हि वक्ष्यते।" -त० श्लोक पत १३ । प्रत्यक्षानुमेषअत्यन्तातीन्द्रियलक्षणे स्थानप्रये । २. यमुन्मेपणी-आ०, ब, १० ।
. .-.
-.
..
-
.
--