SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २११८५-१८५]] २ अनुमान प्रस्ताब: २१९ वचनस्य विज्ञानमेव कारणम् , असति तस्मिन्निच्छायामपि तदभावादिति निवेदनात् । तच्च तस्य यावत् यत्प्रमाणं प्रकृष्यते रूपं तावत् सरप्रमाण कार्य वचन तेन नो विरुद्धयते अपि तु तदपि प्रकृयत एव । सति विशिष्टे वहिप्रकर्षे धूमेऽपि तत्कार्ये प्रकर्षस्यैव दर्शनात् । सतः प्रकर्षपर्यन्तगते ऽपि ज्ञाने वचनस्याविरोधात् कथन सम्भवी वक्ता सर्वज्ञः ? किन्तु सम्मव्येव सफलवेद्यपि वक्ता । तन्नान्यथाऽनुपपत्तिरत्र | स्यादेवं यदि विज्ञानाद्वचनम्, न चैव विवक्षाया- ५ स्तत्कारणत्वात् । सा च रागविशेषत्वेन दोषारमा सती विधूताशेषदोपतो निःशेषतत्त्वज्ञानान्निवर्तमाना यचनमपि निवर्तयत्येव, तत्कथं नान्यथाऽनुपपत्तिर्यतस्तत्सुगतादौ अनियतितपसरतया प्रवर्तमानं विवक्षादोपोपस्थापनेन निःशेषवेदित्वं न व्यापादयेदिति चेत् ! अत्राह विवक्षामन्तरेणापि वाग्वृतिजातु धीयते ॥१८५।। वाञ्छन्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः । इति । १० ने सर्वदा वक्तुकामतयैव वचनप्रवृत्तिविनापि तया गोत्रस्खलनादौ तदुपलब्धः, तदापि ममादनिबन्धनत्वात् तस्या न विज्ञानहेतुकत्वम् । ततो यदि विवशातः प्रमादाद्वा तत्मवृत्तिरुभयथापि दोष नातेरनतिवर्तनात् भवत्येव ततः क्वचिदोषोपस्थापनद्वारेण सकलजयपतिक्षेप इति चेत्, इदमप्ययुक्तम् ; तदुभयाभावेऽपि तत्प्रवृत्तेर्दर्शनात् । यथा तोबाभियोगवतो निमन्तरा संस्कृतप्रवृत्तिः । नहि तत्र प्रमादः: लक्षणस्य क्रियाकारकान्वयस्य चापरिभ्रंशात् । नापि इच्छा ऽनुगमः; अतः परमिदमुच्चारया- १५ मीत्यभिनिवेशाभावात् । ततो विज्ञानस्यैव तद्धतुत्वं निर्हासातिशयानुविधानात् | अनुविधत्ते हि तत्प्रवृत्तिर्विज्ञानस्य निर्वासातिशयञ्च, मन्दे तस्मिन् मन्दायाः पटोयसि च पटीयस्याः तस्या अपि प्रतियत्तेः । अपि च, यदि वाञ्छायाः तद्धेतुत्वं मन्दमतयो ऽपि शास्त्राणां व्याख्यातारो भवेयुः । न । चैवम्, वाञ्छतामपि तेषां तदप्रतिपत्तेः । अतो विज्ञानहेतुकैव तत्मवृत्तिः एतदेव दर्शयन्नाह प्रज्ञा येषु पटीयस्यः प्रायो वचन हेतवः ॥१८६॥ विवक्षानिरपेक्षास्ते पुरुषार्थ प्रचक्षते । इति । येषु बुद्धयः पटीयस्यो भवन्ति पुरुषेषु प्रायः सामस्त्येन वचनहेतवः कदाचिदपि तदभावे तदप्रवृत्तेः ते प्रचक्षते कथयन्ति । किम् ? पुरुषार्थ धर्मस्तत्प्रयोजनादिकम् । कीदृशाः ? विवभानिरपेक्षास्ते वक्तुकामतानिऱ्यापेक्षाः । तत एरोक्तम्-- "आसिसिपादिविरहितः स्वासनगमनप्रभापणस्थानायः। निरवद्यचित्ररचितैः प्रवरगुण त्वमसि चित्रचरितो नाम्ना ।" [ ] इति । भवतु वा विवक्षा तथापि न दोष इत्याह अप्रमत्ता विवक्षेपमन्यथा नियमात्ययात् ॥१८७॥ इति ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy