SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २१८ न्यायविनिश्वयवित्र रंग [ २११८३-१-५ यासां पुरुपत्वादीनां सिद्धीनां ता अपि सर्वज्ञम्य बाधन्य इति वचनपरिणामेने सम्बन्धः । कुतस्तास्तद्र्बाधन्य इति चेतु विरुद्धेन निषेव्यप्रत्यनीकेन किञ्चिज्जत्वेन व्याप्तास्ता पत्र सिद्धय इति उपलब्धयो यत इति । तत्रोदाहरणं यथा न वेदाः प्रमाणं दृप्टेष्टविशेनादिति । प्रामाण्यविरुद्धं स्वत्वप्रामाण्यं तद्यामध्य दृष्टेष्टविरोध इति । प्रसिद्धं चेदं बौद्धस्येति न निवृत्य कथ्यते । तदेवं विरुद्ध कार्योपलब्धि ५ विरुद्धव्याप्तोपलब्धिं च प्रतिपाद्य व्यापकविरुद्धोपध्यादिनाऽपि तद्बाधनं दर्शयन्नाह - सत्सम्प्रयोगजस्वेन विरुद्धः सकलग्रहः ॥ १८३॥ स्वभाव कारणा सिद्धिरेकलक्षणविद्विषाम् । इति । सद्भिर्विद्यमानैरथैः अक्षाणां यः समीचीनप्रयोगः तस्माज्जातं तस्य भावः सत्सम्प्रयोग जत्वं तेन प्रत्यक्षज्ञानधर्मेण विरुद्धः सकलस्य देशादिविप्रकृष्टस्य ग्रहः सकलवे दिल्वम् । तस्य हि १० व्यापक्रमसत्सम्प्रयोगजस्वं तद्विरुद्धखेदं सत्सम्प्रयोगजत्वं ताथागतेऽपि प्रत्यक्ष प्रतीयमानं स्वप्रत्यनीकाऽसम्प्रयोगजन्यावर्तनद्वारेण तद्वयाप्यं सकलग्रहं व्यावर्तयतीति युक्ता व्यापक विरुद्धोपलब्धिः । यथा नात्र तुषारस्पर्शो वहूनेरिति । बहुनेर्हि शीतस्पर्श विरुद्धस्योपलब्ध्या तद्व्याप्यस्य तुपारस्पर्शस्यात्र प्रतिक्षेप इति प्रसिद्धमेवात्र तद्विरुद्वोपलब्धित्वम् । अथ हाथागते ज्ञाने सत्सम्प्रयोग जत्वमसिद्धम् ; भावनाप्रकर्षपर्यन्तादेव तस्योत्यत्तेरिति तन्नः तस्यापि प्रत्यक्षत्वादेव साघनात् । ताथागतमपि प्रत्यक्षं १५ सत्सम्प्रयोगजं प्रत्यक्षत्वात् अस्मदादिप्रत्यक्षवदिति । एतदपि स्वसंवेदन प्रत्यक्षेण व्यभिचारीति चेत्; न; निरंशवस्तुवादिनः स्वसंवेदनमर्थवदनं चेति स्वभावद्वयस्यैकत्रा सम्भवात् । २० तथा, स्वभावकारणा सिद्धिरवि बाघनी तंत्र भवेत् । नन्वेवं स्वभावासिद्धिः स्वभावानु - पलब्धिः यथा नास्ति सर्वज्ञो ऽनुपलब्धेरिति । कथं पुनरदृश्यानुपलब्धेर्गमकत्वं सत्यपि वस्तुनि सम्भवात् परचेतोवृत्तिविशेषवदिति चेत् किं पुनः सर्वज्ञस्य अदृश्यत्यम् तथा चेत्; न; स्वयमपि तत्सङ्गात् । परापेक्षतयैवादृश्यत्वमिति चेत्; न; निरंशैकान्ते स एव दृश्यंश्चादृश्यश्चेति स्वभावद्वयानुपपत्तेः ततो दृश्य एव ।साविति कथं तदनुपलब्धिरदृश्यानुपलब्धिर्यतो न गमिका भवेत् नन्वेवं न काचित् दृश्यानुपलब्धिः; सर्वस्य केनचिदृश्यस्य सर्वैरपि दर्शनादिति चेत् अयमपि भवत एव निष्कलवस्तुवादिनो दोषः । तथा कारणसिद्धिः कारणानुपलब्धिः । यथा नातीतादिविषयं योगिप्रत्यक्षं तदभावात् इति, अतीतादिकं हि तत्प्रत्यक्षस्य कारणं "नाकारणं विषयः" [ २५ चातीतादेर्भावः प्रध्वस्तत्वेनातीतस्य अनागतस्य चानुत्पन्नत्वेनाभावग्रस्तत्वादिति । एवमेते वचनादयः कार्यस्वभावानुपलम्मरूपतया त्रैविध्यमपरित्यजन्तोप्यन्यथा ऽनुपपत्तिवैकल्यादेव अगमकाः । तदेव दर्शयति ] इत्यभिधानात् । न कथन्न सम्भवी वक्ता सर्वज्ञस्तस्य तेन नो ॥ १८४ ॥ यावत् प्रकृष्यते रूप' तावत् कार्ये विरुध्यते । इति । १-दीनां ता आ, ब०, प० | २न कृतः स-आ०, ब०, प० । ३ तत्र स्वभा- आ, ब०, प० । ४ परचेोनिषु - आ ० प ५ - चिदहरया आ, प० ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy