________________
न्यायविनिश्वयविवरणे
[२११७९-१८१ फस्मात् ? नियमाभावान- असतो हेतोरनन्तरमेव कार्य न पूर्व नापि पश्यादित्यवधारणस्याभावात् तदत्सत्त्वस्य तदाप्यविशेषात् । ततश्चिरव्यवधानेन प्रागपि च तद्भवेदिति मन्यते। यदि वा, हेवायत्तमेव कार्यमित्यस्य नियमस्य अभावात् । न हि समर्थे नित्यहेतावनुत्पन्नस्य पुनः स्वेच्छया यथा
काले भवतस्तदायत्तत्वमुपपन्नमतिप्रसङ्गात् इत्याशेते । ततः क्षणिकावेरर्थक्रियाव्यावृत्तिनिर्णयात् तदात्मक ५ सय कृतकवादयस्तु तद्विशेषास्तत्साधनाय मयुक्ता विरुद्धः एय; परिणामस्यैव साधनादित्यावेदयति
सध्यमर्थक्रियाऽन्ये वा वस्तुधाः क्षणक्षये ॥१७९॥
हेत्वाभासा विरुद्धाख्याः परिणामप्रसाधनाः। इति ।
सत्वमित्यस्यैव अर्थक्रियेति व्याख्यानम् अर्थक्रियात एव सत्तासम्बन्धस्यापि सम्भवात् नान्यथाव्योमकुसुमादिवत् । अतोऽर्थक्रियैव सत्त्वम् अन्ये वा कृतकवादयश्च, वेति समुच्चयात् ते हेत्वा१० भासा विरुद्धाख्याः क्षणक्षये | उपलक्षणमिदं तेन निरये ऽपि । कुतस्ते तथा ? परिणामप्रसाधना यत इति ।
सम्प्रत्यनकान्तिकान् तदामासानाह
सर्वज्ञप्रतिषेधे तु मन्दिग्धा घचनादयः ॥१८०॥ इति ।
वचनमादिर्येषां पुरुषादीनां ते सन्दिग्धाः अन्यथानुपपत्त्येति शेषः । ततोऽनैकान्तिका एव १५ निािनुपपत्तीनामेवैकान्तिकत्वोपपत्तेः । व पुनस्ते तथा ! सर्ववस्य यावज्ज्ञेयव्यापिज्ञानसम्ब
न्धिनः पुरुषस्य, उपलक्षणमिदं तेन परिक्षीणदोषस्य च प्रतिषेधे साध्ये इति । निवेदयिष्यते च तेषां तत्र सन्दिस्यत्वम् । येषां तु त्रैरूप्याद् गमकत्वं तन्मत्या हेतव एवेत्याह
रागादिसाधनाः स्पष्टा एकलक्षणविद्विषाम् । इति ।
रागादेरादिशब्दादसर्वज्ञत्वस्य साधना वचनाच्यः । केषाम् ? एकलक्षणविद्विषां सौगतादीनां २० सन्दिग्धाः, तेषामपि कथं ते तथेति चेत् ! न; स्पष्टाः पक्षधर्मवादी सन्देहविकला यत इति ।
तथा हि-'सुगतो रागादिम.न् सर्वज्ञो वा न भवति, वक्तृत्वादेः रथ्यापुरुषवत्' इति । अत्र तावत् स्पष्टमेव पक्षधर्मत्वम् ; सुगते पुरुषत्वादिवन वकृत्वस्यापि भावात् । कुड्यादावेव तन्न सुमत इति चेत्, न; "मानवान् मृम्यते" [ प्र० या० ११३२ ]
इत्यादिना सुगत एव तस्योक्तेर्न कुड्यादौ तस्याचेतनत्वात् । कुझ्यादिगतमेव तत्तत्रोच्यते २५ उपचारान्न तत्वत इति चेत्, तत्त्वतः तत्र तत् कस्मान्न भवति ? रागादेस्तद्धतोरभावादिति चेत्,
कुझ्यादावपि न भवेत् । तत्रं तदभावेऽपि भवति न सुगत इति निर्निबन्धनैव कल्पना। तन्न पक्षधर्मत्वमप्रसिद्धम् । नापि सपक्षे सत्यम्; रथ्यापुरुषे रागादिमत्यसर्वज्ञे च दर्शनात् । नाप विपक्षाद्वद्यावृत्तिः; पाषाणादौ तस्यापतिपत्रेरित्युपपन्नमेव तत्र तेषां गमकत्वम् । परकीयं तत्रोसरं दर्शयति
१ सुगतसन्निधानात् कुट्यादिन्यः देशना निस्सरन्तीति मनसिकृत्य सौगतः प्राह । २ "ज्ञानघान् ग्यते कश्चित्तरूपसिपत्तये । यज्ञोपदेशकरणे विमलभ्मनशक्तिभिः ।।"-ता० टिक। ३ वनत्यम् । ४ कुड्यादी।५ रागाद्यभाषेऽपि ।