________________
न्यायचिनिश्चयविधरणे
[२१न; तत्रापि प्रत्यक्षतस्तदमहात् । कार्यादेव तु ग्रहणेऽनवस्थापत्तेरिति चेत्; इदमपि न दूषणं पक्ष एवास्माभिः सम्बन्धग्रहणस्याभ्युपगमात्, सम्बन्धस्य कार्यस्वरूपत्वेन अप्रतिपन्नायामपि शक्ती शक्याबसायत्वात् । प्रमाणस्य च तत्र तर्काभिधानस्य निवेदितत्वात् । तन्न शक्तः प्रतिवेघो न्याय्यः ।
नापि ब्यापारस्य,तथा हि-यदि नित्यस्य सामग्रीसन्निपातेऽपि प्राच्यस्वभावापरित्यागः कथं ५ कारणत्वं पूर्ववत् । तत्परित्यागे वा कथमन्यापारस्वं तत्परित्यागस्यैव व्यापारस्यात् | नास्त्येव तस्य तत्परित्यागो निस्यवहानेः कारणत्वे तुतदा तस्य तत्सन्निधानादिति चेत; तरिफ पूर्व नास्ति ? तथा चेत् । कथं नित्यत्वम् ? अस्ति चेत; कुतो न कार्यम् ? सहकार्यभावादिति चेत् ; कुतस्तदावे तदभावः ? तस्य तत्कारणत्वादिति चेत् यथा ताई सहकारी तत्कारणत्वात् स्वनिवृत्या कार्यं निवर्तयति तथा तत पत्र
नित्यमपि स्वप्रवृत्त्या तत्प्रवर्तयेत् । न चेत्; तदपि न निवर्तयेदिति वक्तव्यम् । प्रवृत्तिनिवृत्तिभ्यां १० निर्मुक्तस्य कीदृशी तदा कार्यस्य गतिरिति ? न नित्यस्य केवलस्य कारणत्वं यदेवं स्याद् । अपि तु
सहकारिसहितस्यैव । न च तत्सहित 'सरप्रागस्ति यतः कार्य स्यादिति चेत्; तथापि कथं नित्यत्वं ससहितम्य तस्वभावस्यैव पूर्वमभावात् । सहकार्यभाव एव तत्सहिताभावो न त स्वभावाभाव इति चेत्, तसद्भाव एव तत्सहितसद्भावोऽपि स्यात, तथा च तत्सहित नित्यं कारणमिति सहकार्येव कारणमित्युक्तं
स्यात् । न नित्यं सहकारि वा केवलं कारणम् अपि तु तत्समुदाय इति चेत् : एकैच ताई तद्रूपा १५ शक्तिरिति कथं तद्भेदकल्पनं सहकारिशक्तिः स्वरूपशक्तिरिति च । तद्भेदे बा कथं प्रत्येकमेव न
कारणत्वं (ग) शक्तित एव तत्त्वात् । समुदायस्यैव कारणत्वे च न नित्यस्य सहकारिणो वा वस्तुत्वम् अकारणत्वात् । समुदायकारणस्यमेव तयोरपि कारणत्वं तद्वयतिरेकेण तदभावादिति चेत्, तथापि समुदायतयैव वस्तुत्वं न पृथगिति कथन्न (कथं) नित्यं वस्तु पृथगेव स्यात् ! ततः प्रत्येकं भावानां
यस्तुरबमुररीकुर्वता समुदायदशायां प्राच्यरूपपरित्यागात्मा व्यापारस्तेषां कारणल्वोपपादी वक्तव्य २० एव । स च नित्यत्वे तेषामनुपपन्न एव, सति तस्मिन् तत्प्रच्युतेः । ननु यदि शक्तिः किं व्यापारेण ?
तस्मिन् वा किं शक्त्या ? तदन्यतरत" पच कार्यनिष्पत्तेरिति चेत् न, शक्तरेव कार्य प्रत्युन्मीलनस्य व्यापारत्वात् । तदुन्मीलने च शक्तरेव कार्यनिष्पतिः न व्यापारादिति चेत्, न; शक्तरेव सत्युन्मीलने व्यापारत्वात् । ततो युक्तं निरन्थयविनाशनित्यत्वयोर्भावस्य निर्व्यापारत्वात् परिणाम एव कियाया अबस्थितिरिति । कः पुनस्यमन्वयो नाम यतो निरन्बयो निर्व्यापारस्वमुच्यते इति चेत् ! अन्नाह
अवस्थादेशकालानां भेदेऽमेदव्यवस्थितिः ॥१७७॥
या हष्टा सोऽन्वयों लोके व्यवहाराय कल्पते । इति ।
अवस्थादयः प्रसिद्धाः तेषां भेद आमः पञ्च इति परभागोऽर्वाग्भाग इति नवः पुराण इति च नानास्वं तस्मिन् सति या दृष्टा प्रतिपन्ना अभेदस्य कथञ्चित्तादाम्यस्य व्यवस्थितिः साकर्यादि
परिहारेणावस्थानं लोके लोकग्रहणेन तदृष्टर्लोकप्रसिद्धतया अशक्याऽपहनवत्वं दर्शयति । स तद्वयव३० स्थितिरन्वयः कल्पते । किमर्थोऽसौ ! व्यवहाराय तन्निमित्तमिति । ततो यरपरमतम्-नामपक्का
१ तथा तस्ष आ०,ज०, प० । २ सहकार्यभावे कार्याभावः । ३ नित्यो नि प०१४ नित्यम् । ५- तर एव आग, ब०, प०।६ वैशेषिकमहम् (प्रशव्यो पृ०४४)