________________
२६५-१७७ ]
२ अनुमानप्रस्तावः
२११
चैतत् - 'सत्ता सम्प्रतिवद्ध्रुव परिणामे' इत्यादिना । तदनेन कृतकत्वादयोऽपि तदाभासतया प्रतिवक्तव्याः तेषां सत्त्वविशेषत्वात् । यद्यन्यथानुपपत्तिवैकल्यमेकान्ततः सत्त्वादीनाम् क्षणभङ्गादिवत् परिणामेऽपि न तेषां हेतुत्वं स्यादिति चेत्; न; एकान्ततः तदभावात् । एतदेवाह - विरोधादन्वयाभावाद व्यतिरेकाप्रसिद्धितः ॥ १७५ ॥ कृतकः क्षणिको न स्यात् नैकलक्षणहानितः ॥
1
अपेक्षित व्यापारी भावः कृतकः । उपलक्षणमिदं तेन सन् प्रयत्नजन्यश्च शब्दादिः । किम् ? क्षणिको न स्यात् क्षणमात्रवृत्तिर्न भवेन् । कुत एतत् ? अन्वयाभावात् । न हि क्षणिकत्वेन तस्य वचिदन्यः, प्रदीपादावपि तस्यामिश्रयात् । कथमन्यथा परापरतैलादिव्यापार वैफल्यकल्पनेन तत्र तदुपपादनम् अविप्रतिपत्तिविषये तदनुपपत्तेः ? भवतु तेनैव तत्र तदुपपादनमिति चेतुः न तस्य कचित्तेनानन्वयात् तन्निदर्शनेऽपि तस्यासिद्ध | पुनस्तत्रापि परापरत्तत्कारणव्यापार वैफल्येन १० तदुपपाद अनवस्थापतेः । तदुपपादनमनुमानमेव तदयमदोष इति चेत्; न तर्हि प्रमाणं परामर्शात्मकत्वेन प्रत्यक्षत्वस्याप्यभावात् । प्रमाणान्तरखेच प्रमाणद्वय सङ्ख्या नियमव्यापत्तेः । अप्रमाणाच तत्प्रतिपत्तावन्यत्रापि प्रमाणकल्पनात् । मा भूदन्वयो व्यतिरेकादेव गमकत्वोपपत्तेरिति चेत्; न; अन्ययाभावे तस्यैव सिद्ध: । न हि कचित् क्षणभङ्गेनान्वयस्याप्रतिपत्तौ तन्निवृत्त्या क्वचिद्धेतुव्यावृत्तेः शक्यो ऽवगमः, बुद्धिसंस्पर्शविरहिणस्तस्यैव निवृतेरनवगमात् । कथं पुनरन्वय. १५ व्यतिरेकयोरभावे ऽपि कृतकत्वादेरहेतुत्वं ताभ्यां हेतुत्वस्य अव्याप्तेरिति चेत्; सत्यमिदं वस्तुवृत्त्या, परेण योस्तद्वाप्तेर्रेभिधानादेवमुक्तम् । वस्तुतस्तहिं तस्य कुतः क्षणिकत्वं प्रत्यगमकत्वम् अन्यथाऽनुपपत्तिवैकल्यादिति चेत् तत् तर्हि तस्यैकान्तिकमिति कथं परिणामेऽपि तस्य हेतुत्वमिति चेत ? समाधानम् - नैकलक्षणहानित:' इति । एकस्य लक्षणस्यान्यथाऽनुपपन्नत्वस्य येयमेकान्ततो हानिः ततः कृतकः क्षणिको न स्यादित्येतत् न अपि तु क्षणक्षयायपेक्षयैव कथचि २० नाविन्य इति यावत् । अत्रैवोपपत्तिः 'विरोधात्' इति । तात्पर्यमत्र यतः क्षणक्षयादिव्यावृत्त्या द्विरुद्धस्य परिणामस्य ततः साधनं ततो नैकान्ततः तत्र तद्धानिरिति । कथं पुनरप्रतिपन्ने क्षणभङ्ग तदन्वयव्यतिरेकयोरिव कवित्तद्विरोधस्यापि प्रतिपत्तिः । तथापि तद्भावे क्रिमन्वयव्यतिरेकाभ्यामपराद्धं यतस्तावपि न प्रतीयेते इति चेत् न प्रतिपत्तेर तल्लक्षणानुगमेन तत्र भावात्, केवल प्रमाणतस्तदनयगमादेव तदन्वयव्यतिरेकयोर्निषेधात् नित्यान्वयव्यतिरेकवत् । विरोधमेव दर्शयन्नाह -
अस्य
सत्ता सम्प्रतिवद्ध व परिणामे क्रियास्थिते ॥ १७६ || fraud हि भावः स्यान्नित्यत्वे घा निरन्वये । इति ।
एवकारो भिन्नप्रक्रमः परिणाम इत्यत्र दर्शनात् । ततः सत्ता सच्वं सम्यक् प्रतिबद्धा । क परिणाम एव न क्षणभङ्गादौ । ततस्तत्रैव सा हेतुरित्यर्थः । एतदेव कुतः १ क्रियास्थितेः, परिणाम
५
४ अपेक्षित व्यापारी हि भावः स्वभावनिष्यतो कृतक इति।" न्यायचि ० ० ६७ । २ बुद्ध-आ०, १० ३ मिदमत्र-आ०, ब०६० ४ नभि-आ०, ब०, प०५ चेत्तर्हि आ०, ब०, प० ।
२५