________________
न्यायविनिश्चयविवरण
२१७४-१५ लिङ्गभेदप्रदर्शनार्थत्वादिति; अग्रप्युक्तम्-नवविधत्वेन सप्तविंशतिविधत्वेन च तदर्शनं कर्तव्यमिति । कथं चैवं कृत्तिकोदयादेः गम सत्यम् , संयोगिसमवायिनोरिच एकार्थसमवायिन्यपि तस्यानन्तर्भावात् ! न हि तदुदयादितत्साध्ययोः कचिदेकत्र समवायः, नापि तत्रोः कस्यचित् तत्कार्यस्येति । तन्न संयोग्यादिभे
देनापि त्रैविध्यवर्णनमुपपन्नम् । ततः स्थितम्-'एतेन' इत्यादि । न केवलं तेषां भेद एवैवं प्रत्या५ ख्यातव्योऽपि तु लक्षणमपीत्याह
तल्लक्षणप्रपञ्चश्व निषेद्धव्यो दिशाऽनया । इति ।
तेषां पूर्वववादीनां लक्षणमसाधारणं रूपं तस्य प्रपञ्चः पशव्यायित्वे सत्पन्वयव्यतिरेकावाधितविषयत्वमसत्प्रतिपक्षत्वं चेतिरूपः सोऽप्यनया सौगतहेतुलक्षणं निराकरणरूपया दिशा निषेद्धव्यः इति । तथाहि
अन्यथानुषपत्तिश्चेत् पाश्चरूप्येण किं फलम ? विनापि तेन तन्मात्रात् हेतुभावावकल्पनात् ||१५३१।। नान्यथानुपपत्तिश्चेत् पाश्चरूप्येण किं फलम् ! सताऽपि व्यभिचारस्य तनाशक्यनिराकृतः ॥१५३२ अन्यथानुषपत्तिश्चेत् पाश्चरूप्ये ऽपि कल्प्यते । 'पाप्यात् पञ्चरूपत्वनियमो नावतिष्ठते ॥१५३३॥ पाश्चरूप्यात्मिकवेय नान्यथानुपपन्नता ।
पक्षधर्माद्यभावेऽपि चास्याः सत्वोपपादनात् ।।१५३४।। ततः तल्लक्षण इत्यायपि स्थितम् । सम्प्रति हेत्वाभासं दर्शयन्नाह
अन्यथानुपपन्नस्वरहिता ये विडम्बिताः ।।१७४।। हेतुत्वेन परस्तेषां हेत्वाभासत्वमीक्ष्यते । इति ।
परैः एकान्तवादिभिः ये न हेतवः अपि तु हेतुत्वेन विडम्बिताः कल्पिताः तेषां हेस्वाभासत्वं हेतुबदाभासमानत्यम् ईक्ष्यते। कुत एतत् ? अन्यथानुपपन्नत्वरहिता यत इति । अथ अन्यथानुपपत्तिवैकल्येऽपि हेतुत्वम् ; सदाभासत्वमेघ न कचिद्भवेत् , कल्पनया सर्वत्र हेतुल्व
स्यैवोपपत्तेः । कथं पुनस्तद्विडम्बितानां तद्रहित्वमिति चेत् ! उक्तमेतत्-असिद्धत्वाविदोषस्य तेषु २५ सर्वेषु सम्भवात' इति । इदमत्रोदाहरणं यथा क्षणिकः शब्दः सत्त्वादिति । न हि क्षणिकं सन्नाम अर्थ
क्रियायास्तत्रासम्भवात् । निरूपितं चैतत्-'यस्मिन्नसति यञ्जातम्' इत्यादी । तत्कथं तस्यान्यथाऽनुपपन्नत्वम् ? 'अन्यथाऽनुपपन्नत्वमसिद्धस्य न सिद्धयति । सिद्धिवि० परि० २] इति न्यायात् । सिद्धमेव तत्रापि तत् संवृत्येति चेत्, न; नित्ये ऽपि तया तद्भावात् । तथापि कपमन्यथाऽनुपपन्नत्वम् ? व्यभिचाराविरुद्धवास, यस्तुतः सत्त्वस्य परिणाम एवं भावात् । निवेदविण्यते
१-दप्रतिद- आ०, बक, प० । २ तादृप्यात् ३० । ३ ये हेतवः ता०। ४ य इति अप-आय ०प०१५-यु भाषादिति ता०। ६ न्यायधिः श्लो० १५३। ७ संवृत्या । -