________________
२।१७३]
२ अनुमान प्रस्तावः
२०६
तदपि न युक्तम् ; विभिन्नान्तरालादपि तस्मादविनाभावनिर्णये पर्वतशिरसि पावकस्य प्रतिपतेः । तद्वयवधानादेव नासौ त समदायी । यत्पुनरत्रोदाहरणम् - समवायी गोविषाणमिति तन्त्र युक्तम् विषाणे मोसमवायस्य निषिद्धत्वात् । अनिषेधेऽपि गवयादावपि तद्भावेन व्यभिचारात् । नायं दोषोऽवधारितविशेषस्यैव गमकत्यादिति चेत न समवायित्वादेव तदवधारणासम्भवात् । अन्यतस्तत्सम्भवे च तत एव गमकत्वात् किं समवायित्वेन यद्यप्युदाहरणान्तरं समधार्थी शब्द आकाशस्येति तदपि न ५ युक्तम् शब्दस्य पुद्गल पर्यायत्वेनाकाशसमवायस्य प्रतिषेधात् । कथं वा तत्र तत्समवाये तद्विकलमध्याकाशम् ? व्याप्या तत्र तस्यासमवायादिति चेत् कथमव्याप्तिः ? तर वष्टधादन्यस्याकाशरूपस्याभावात् । तदवष्टम्भोऽपि तत्प्रदेशस्यैवेति चेत्; न; प्रदेशवत्त्रे तस्य कार्यत्वेनानित्यत्वप्रसङ्गात् घटादिवत । न चैतदिष्टम्, “द्रव्यत्वनित्यत्वे वायुना व्याख्याते ।" [ वैशे० २ १ २८ ] इत्यस्य व्याघातात । न व्याघातः कल्पनयैव प्रदेशोपगमादिति चेत ; प्रदेशस्यैव तर्हि तदवष्टब्धस्य लिङ्ग शब्द १० इति न युक्तमिदं सूत्रम् - "शब्दो लिङ्गमाकाशस्य" [ वैशे० २। १ । २७ ] इति, प्रदेशस्था
नाकाशखात्
यध्येकार्थसमवायिलिङ्गस्योदाहरणमुक्तम् - रूपं स्पर्शस्य एकार्थसमवायिलिङ्गम् । एकत्र कारणे तेजस्वर्थे तत्कार्ययोः साधनसाध्ययोः रूपस्पर्शयोः समवायात्, पाण्यादिकं वा पादादेर्लिङ्गम्, एकस्य तत्कार्यस्यार्थस्य शरीरस्य तयोः समवायादिति तदपि न युक्तम् रूपासेजसि स्पर्शवत् गन्धा- १५ देरप्यनुमानापत्तेः तेनापि तस्यैकार्थसमवायित्वस्य पृथिव्यादावुपलम्भात् । तस्य तत्रासम्भवदनुभवावानेति चेत्; न; तादृशस्थाषि उष्णस्पर्शस्य सुवर्णादावनुमितेः । तज्जातीये सम्भवदनुभव एव स इति तुः समानं गन्धादामषि, पृथिव्यादौ तस्यापि तथाविधत्वात् । कुतः पुनः पृथिव्यादेस्तज्जातीयत्वमिति चेत् १ तेजसोऽपि हेमजासीयत्वं कुतः भासुराद्भूषादिति चेत रूपमात्रादितरस्यापि स्यात् । नदेव वाय्वादावपि स्पर्शादेव गन्धादेरप्यनुमानोपपत्तेः कथं पृथिव्यादिभेदेन भूतानां चातुर्विध्यमिति २० चेत् न उद्भवापेक्षया तदुपपतेः । यत्र हि स्पर्शस्यैवोद्भवः स वायुः यत्र तु सरूपस्य तत्तेजः, यत्र संरूपरसस्य ता आपः, यंत्र सरूपरसगन्धस्य सा पृथिवीति । ततो न युक्तमिदम्- "रूपरसगन्धस्पर्शवती पृथिवी रूपरसस्पर्शवत्य आयो द्रवा स्निग्धाश्च तेजो रूपस्पर्शवत् वायुः स्पर्शवान् " [ वैशे० २।१।१-४] इति रूपादीनां सर्वेषामपि सर्वत्र भावात् ।
1
यदपि पाप्यादिकं पादादावेकार्थसमवावि लिमुक्तम् ; तदप्यनुपपन्नम् व्यभिचारात् पादा- २५ मावेऽपि पाप्यादेः सम्भवात् । यदेव निश्चिताव्यभिचारं तदेव लिङ्गम्; अत एव न रूपादयि तेजसि गन्धादेरनुमानं स्पर्शाव्यभिचारस्यैव तत्रापि निश्ववादिति चेत्; न; एकार्थसमवायात्तन्निश्वये प्रकृता"परित्यागात । अन्यतस्तन्निश्चये तत्समवाय कल्पनवैफल्यात् । न तन्निश्चयार्थं संयोग्यादित्यकरूपनं तस्य
१ प्रतिपत्तिप्रसङ्गात् । २. कालव्यवधानादेव । ३ कृतिकोदयः । ४ शकटोदयस्य । ४ महिवादिव्यावृत्तं विशिष्ट विषाणम् । ६ शब्दसभषाये । ७ शब्दावदम्भी पि चामुना साथ ९ " परिशेषा लिङ्गमाकाशस्य " -वैशे० १० सू० । १० - बायानिश्चये आ०, ब०, प० । ११ प्रकृतस्य एकार्थसमवायिलिङ्गव्यभिचारस्य तदवस्थत्वात् |
२७