________________
न्यायविनिश्वयविवरणे
[ २१७३
प्रमाणान्तरावगतत्वादात्मनो नायुक्तं तत्साधनमिति चेत ; न; तथाप्यतिप्रसङ्गात् । तथा हि-यथा प्राणादेर्घटा दिव्यावृत्तस्य दर्शनाज्जीवच्छरीरे तद्विशेषस्य साधनं तथा बालशरीरादिव्यावृत्तस्य विशेषतारतम्याधिष्ठानस्ये तस्य युवादिशरीरे दर्शनात् पूर्वपूर्वविलक्षण: सम्बन्धविशेषस्तत्र साधयितव्यः प्राप्नुयात् । प्राप्नोतु न कश्चिद्दोष इति चेत्; शास्त्रं तर्हि न्यून प्राप्तं तथा तस्यानिरूपणात् । न ५ प्राप्त प्रकृतविशेषनिरूपणादेव तस्यापि तज्जातीयत्वेनाभ्यू होपपत्तेरिति चेत्; आत्मनिरूपणादेव तर्हि प्रकृतस्यापि तद्धर्मत्वेनाभ्यहारान्निरूपणमपि न भवेत् । तदपि न क्रियत एव प्रज्ञाशादिनं प्रति मन्दानुग्रहाथैव तत्करणादिति चेत् तदर्थं तर्हि परापरस्यापि तत्साधनस्य निरूपणं कर्तव्यमिति कथं शास्त्रमतत्करणात न्यूनमेव न भवेत् ? कुतश्वास। तद्विशेषो जीबच्छरीरे एव न लोष्टादावपि तत्कारणस्यात्मनस्तत्रापि भावात् ? माविले कारणे कार्यानुत्पत्तिः, नित्यस्य सहकारिपलीक्षायाश्च प्रतिक्षेपात । १० तन्जेदं व्यतिरेकिलिङ्गमुपपन्नम् ।
२०६
यदध्यन्वयव्यतिरेकिणः सपक्षैकदेश वृत्तेरुदाहरणम् - अनित्यः शब्दः [ सामान्यवत्त्वे सति ] अम्मदादिबाह्यकरण प्रत्यक्षत्वात् कुम्भवदिति तत्र कः पुनरसौ अस्मदादि: आत्मैव संसारीति चेत् किं तस्य बाह्यकरणेन कर्तव्यं यतस्तेन विशिष्येत ? विषयोपलब्धिरिति चेत् सावि तस्येति कुतः सम्बन्धात् ? समवायादिति चेतु यदि सम्बन्धत्वमेवरून समजायादिति निविश्रुति१५ र्थाभावात् । सम्बन्धत्वस्यैव तादर्थे पौनरुक्त्यम् । यदि पुनः समवायशब्दायाच्यमन्यदेव तस्य रूपम् ; तदपि न युक्तम् ; सम्बन्धश्रुतौ पूर्ववदोषात् । कुतश्चैवं तस्य प्रतिपत्तिः ? इहेदप्रत्ययस्त्रात् 'लिङ्गादिति चेत्; व तस्य तेन व्याप्तिः : इह कुण्डे दधीति प्रत्यय इति चेत्; न; तस्य संयोगादेव भावात् तस्य च समवाय विलक्षणत्वात् । अविलक्षणत्वमपि सम्बन्धत्वेनेति चेत् अस्ति तर्हि तत्र सम्बन्धत्वं साधारणं च समवायशब्दवाच्यं रूपम् । तयोश्च कस्तत्र सम्बन्धः समवाय एवेति चेत्; न तस्यैकस्यैवोपगमात् । अनेकत्वे ऽनवस्थाप्रसङ्गात् । संयोग इति चेत्, न तस्य गुणत्वेन द्रव्यश्रयत्वात् समवायतद्रूपयोश्चाद्रव्यत्वात् । तद्विशेषणत्वमिति चेत न तस्य सम्बन्धाय सत्वेन स्वयमसम्बन्धत्वात् दण्डादिवत् । सम्बन्धत्त्रेऽपि तस्य समवायत्तदूषाभ्यामन्यत् कुतस्तयोरिति व्यपदेश: ? पुनरप्यन्यतः तद्विशेषणत्वादिति चेत् कथमनवस्थातो निर्मुक्तिः भवत्वमेद एव तत्र तयोः सम्बन्ध इति चेत ; न; तस्याप्येकान्तेन भावे स एवेहेति दोषात् अनेकान्तस्य च भवद्भिरनभ्यनुज्ञानात् । तन्न समवायो नाम सभ्यन्ये । येनास्मदादेस्तदुपलब्धिः । तत्कार्यत्वात् सा तस्येति चेत ; व्यर्थं तर्हि बाह्यकरणम्, अस्मदावेरेव तद्भावात् । ततोऽषि 'तत्सहायादेव न केवलादिति चेत् सावि द्वयोरेव स्यात् न केवलस्य । एवञ्च -
१- स्य थु- आ०, ब०, प० । २- गुः स- आ०, ब०, प० । ३ श्रनित्यः शब्दः सामान्यवर सत्यस्मादिवायें न्द्रियग्राह्यत्वात् । " - न्यायसा० पृ० ६ । ४ विशेष्येत आ०, ब०, प० । ५-पित आ०, ब०, प० । ६ “इह तन्तुषु पट इत्यादिप्रत्ययः सम्बन्धपूर्वकः इदम्प्रत्ययत्वात् इह कुण्डे दधति प्रत्ययवत्" ता दि० । ७ श्रस्मदादिकार्यत्वात् उपलब्धिः श्रस्मदादेः ।
बाह्यकरासहायादेव |