________________
१ए
२२१७१-७२
२ अनुमानप्रस्तावः अपलब्धेश्च हेतुत्वादन्तर्भावात् स्वभावतः ॥१७१॥
तयोरनुपलम्भेषु नियमो न व्यवस्थितः । इति ।
उपलब्धेः उपलम्भस्य न केवलं कार्यावरेवेति । अपिशब्दार्थः चशब्दः । हेतुत्वात् गमकत्वात् नियमः कार्यादिभेतेन त्रिविधमेव लिङ्गमित्यवधारणं न व्यवस्थितः। न हि कार्यादेस्न्यस्यापि हेतुरवे तन्नियमोपपत्तिः । अस्ति च तस्या हेतुत्वम् अस्त्यात्मोपलब्धेः' इत्यारमसद्धावस्य तत्तः ५ प्रतीतेः । आत्मनो यद्यन्यतः प्रतिपत्तिरस्ति किमुपलक्या कर्तव्यं सिद्धोपस्थायित्वात् । अथ नास्ति न तस्या हेतुबमाश्रयासिद्धेरिति चेत्; भवेदेवं यहाभकर गमदार , सन्याधिः एव तद्भायात् । निवेदितं चैतत्–'असिद्ध धर्मिधर्मत्वेऽपिः इत्यादिना' । कथं पुनस्तदपरिज्ञाने कुतश्चित्तदन्यथानुपपत्तेरप्यवगमः ? इत्यपि न चोद्यम् ; कार्यादावपि तत्मसङ्गात् । अप्रतिपन्नेऽपि साध्ये तस्य तस्वभावत्वात् भवत्येव परिज्ञानम्' इत्यपि समाधानम् उपलम्भेऽपि न विमुखभावमाविर्भावयति । १० कथं पुनरुपलब्धेर्गमकत्वं व्यभिचारस्यापि दशनान् ? न झुपलब्धिरित्येव भावास्तथा भवन्ति विभ्रमाभावापत्तरिति चेत; न; तन्मात्रस्य हेतुत्वानभ्युपगमात्, अन्यथानुपपत्तिसंवलितशरीराया एव तस्यास्तदभ्यनुज्ञानात् । न च तस्या व्यभिचारोऽनुपलब्धियत् । का पुनरियमुपलब्धिर्वतस्तदस्तित्वं साध्यत इति चेत् ? इयमेव येयं तत्र तत्र बुद्धिविवर्तेष्वन्धितरूपतया अहमिति प्रतिभाति । न तत्र कश्चिदात्मा नाम तद्व्यतिरिक्तः प्रतिशतीति चेत; सत्यम्; तस्या एवात्मत्वोषणयात् । न चैवमुपलब्धेयर्थ्यम्; १५ व्यवहारसाधनार्थत्वादनुपलब्धिवत् | एवमप्युपलब्धेस्तद्विपयामिप्यम्भावेन स्वभाव एवान्तर्भावात् कथं तया नियमाव्यवस्थितिरिति चेत्ः अनुपलब्धिवत् साध्यभेदेनेति ब्रूमः । ततो भवत्येव तया तदव्यबस्थितिः अन्यथाऽनुपलब्धेरपि तत्रैवानुप्रवेशात् द्वैविध्यमेव स्यात् । तथा तयोः कार्यस्वभावयोः स्वभावतः स्वरसतोऽन्तर्भावादनुप्रवेशात् । क? अनुपलम्भेषु वैविध्यनियमो न व्यवस्थितः सर्वस्यानुपलम्भवेन ऐकविध्यस्यैवोपपत्तेः । तथा हि-परस्यायं स्वभावहेतुः अनित्यः शब्दः प्रयत्नान्तरीय. २० कत्वादिति । तत्र प्रयत्नानन्तरीयकत्वं यदि प्रयत्नानन्तरं निष्पत्तिः, इयं विरुद्ध व्याप्तोपलब्धिरेव नित्यत्वविरुद्धन अनित्यत्वेनास्य न्याप्तत्वात् | अथ तज्ज्ञानम् । तथापि विरुद्धकार्योपलब्धिरेव तस्य नित्यविरुद्धानित्यकार्यत्वात् । ततः कथमनुपलम्भेषु तयोरन्तर्भावो विरुद्धविधेरनुएलम्भमेदत्वेन स्वयमभ्युपगमात् । बहुवचन कार्यादिबहुस्वेन तद्रूपानुपलम्भानामपि बहुत्यात् ।
स्यान्मतम्-यदा निषेधयरः प्रयोगो न नित्य इति तदा भवतु तत्रान्तर्भावः, यदा तु विधि- २५ पर एव अनित्य इति तदा स्वभावादित्वेन तयोर्हेतुत्वान्न सन्नियमाव्यवस्थितिरिति, तन्न; सर्वदा लिकस्य सामान्यविषयतया तनिषेधपरतयैवावस्थानात्, अन्यथा तद्विपमत्यायोगात् । न हि सामान्य नाम अन्यव्ययनछेदादपरं परस्य सम्भवति । तथा चोक्तम् - "अतद्रपपरावृत्तवस्तुमात्रप्रसाधनात् ।" [ ] इत्यादि । विधिपरत्वे वा कथन वस्तुविषयत्वम् ? इष्टमेव लेशतस्त
१ न्यायवि इलो, २६।२ उपलब्धिमावस्य : ३ "स्वभावहता"- तादि विध्यनियमान्यवस्थितिः" -ता०टि० । ५ साध्याभेदेनेति-आ०,०,१०। ६ “यदुक्तं धर्मकीतिना-अतद्रूपपरावृत्त ..." -अष्टसह पू०२८ । 'आह चात्र-अतन्प"-प्र० वार्तिकाल १।२।७ –च ततस्तदपीति आ०,बछ, प०/