________________
१९६ न्यायविनिश्चयविकरणे
[२११६९-७० तन्न सारम् ; एवं नित्ये ऽर्थक्रियानिषेधेऽपि चोद्यात् । न अप्रतिपन्ने तंत्र तन्निषेधः, प्रतिपन्न एच प्रदेशे मशकादिनिषेधोपलम्भात् । न च तस्य प्रतिपत्तिः प्रमाणात्: क्षणभङ्गयादव्याघातात् । कल्पनातधेत्, निषेध्यत्वमपि तद्विषयस्यैव स्यात्, अर्थक्रियाया अपि तादृश्या एव तत्त्वात् । प्रत्यक्षत एव तेस्याः क्षणभके पतिपतिरिति चेत्, नैवम् ; अनिश्चयात् । निश्चये वा किं नित्ये तन्निषेधेन ? स हि ५ ततस्सद्भक साधनाय, निश्चिते च किं तत्साधनेन ! समारोपस्यापि तत्रानुपपत्तेस्तद्व्यवच्छेदस्याप्यसम्भ
धात् । अनिब्धयेऽपि यदि प्रतिपप्तिः, तथापि किमर्थ तत्साधनम् ? व्यवहारार्थमिति चेत् न तस्यापि तत एव भावात, कथमन्यथा ततो नित्ये तन्निषेधव्यवहारः | तन्न प्रत्यक्षतस्तत्र तस्याः प्रतिपत्तिः, इत्यारोपिताया एव निषेधस्तथा तभङ्गादेरपीति सूक्तम्-'नापक्ष प्रत्यक्षवृश्चितः' इति ।
यत्पुनरेतत्-वैशेषिकादेः 'सामान्यसमवायादिकं निराकुर्वन् यदि न प्रतिपद्यते तन्निषेधहेतोरा१० श्रयासिद्धत्तम् । प्रतिपयते चेत् कथं निषेधः ? तत्मतिपत्त्या वाचनात्' इति; तदप्यनेन प्रतिविहितम् ;
प्रमाणतः प्रतिपसावेव तदनुपपत्तेर्न कल्पनातः । तत्प्रतिफ्नस्य च तस्य पॅरेनिषेधः फलप्यते । अभ्युपमन्सव्यं चैतत्ः कथमन्यथा स्वयमपि क्षणभङ्गादेनिराकरणम् । न हि तस्यापि सौगतादिकल्पितस्य कचित् प्रमाणतः प्रलिपत्तिः बुद्धयादावपि षट्क्षणस्थायित्वादेरेव स्वयमवगमात् । अथ न तस्य निषेधः;
कथं तद्वादी पराजीयताम् ? अप्रतिक्षिप्तपक्षस्य तदनुपपत्तेः । तद्विपर्यस्य नित्यादेविधानादेवेति चेत; न १५ अप्रतिपन्ने तस्मिन् तद्विपर्ययत्वस्यैव कचिननधिगमात् । ततः कल्पनयैव सस्यापि प्रतिपत्तिरित्यलमनुबन्धेन ।
साम्प्रतम् उन्नामावेस्तदुत्पत्त्याधभावेऽपि गमकत्वोपदर्शनेन हेतुत्रैविध्यमपि विध्वंसयन्नाह
तुलोन्लामरसादीनां तुल्यकालतया न हि ॥१६॥ नामरूपादिहेतुत्यं न च तदन्यभिचारिता । इति ।
तुलाया उन्नामश्चोर्ध्वगमनं रसश्च तावादी येषामग्भिागसास्नादीनां तेषां न हि स्फुटम् | किम् ? नामश्चाधोगमनं रूपं चादिर्येषां परभागविषाणादीनां त एव हेतवो येषां तेषां भावस्तत्त्वम् । कया युत्तया तत्तेषां न तुल्यकालसया समसमयतयेति । न हि समसमयत्वे युक्तो हेतुफलभावः परस्परमनुपयोगात, सत्येतरनारीकुचचूचुकवदनभ्युपगमात् । न चैवमहेतुत्वम् अव्यभिचारात् । न हि नामावरुनामादिव्यभिचारो निर्व्यभिचाराय। एव ततस्तत्प्रतिपत्तेरुपलम्मात् । न ततस्तस्य प्रतिपत्तिरपि तु गौरवावः तस्य तत्कारणत्वात्, ततस्तु नामाविसहभाविन उन्नामादेरिति चेत्; तथापि व्याघात एव वैविध्यस्य कारणस्यापि "लिङ्गत्वोपगमात्) तथा रसावे रूपाद्यधिगमाच्च । ततोऽपि न तस्यापिगमः अपि तु सत्कारणस्यैव पूर्वरसादिस्तवकस्येति चेत्, न; रूपादेरेव समसमयस्य तद्दर्शनात् । तत्कारण
२५
१ नित्ये | २ अर्थक्रियायाः। ३ प्रक्रियायाः। ४ "श्रथ यदि परेया प्रमाणारप्रतिपन्नः तेनैव बाध्यमानत्वादनुस्थान विपरीतानुमानस्य ।..."-प्रश० व्यो० पृ०४६ । ५ "जैनादि:"- ता०टिक। ६- तावेदगुप-आ०,०प० । “जैन ता०दिका ८ "वैशेषिकादिना"-तादि०। ९-विशेषणाश्रा०, ब०, प० । १० -तुरत्यभि- आ०, ब, प० । ११ लिकुस्योप-श्रा०, ब०प० ।