________________
२१६६ ]
२ अनुमान प्रस्तावः
“प्रध्वस्तस्य न हेतुत्वं यथैव प्रागभाविनः ।
असतह भावेऽथ परचात्किन भविष्यति ॥" [ ] इति । अप्राग्भाविनोऽपि इष्टमेव हेतुत्वं भाविज्ञन्मादयचित्तादाधुनिकस्य मरणचित्तस्योत्पत्तेः, अन्यथा ततस्तदनुमानासम्भवात् कथमसौ असतो हेतुत्वे दृष्टान्त इति चेत् ? नन्वेवं मरणचित्तं कस्य हेतुः ! अहेतोः अवस्तुत्वप्रसङ्गात् । तत्पूर्वस्येति चेतु तदपि तर्हि तत्पूर्णस्य तदप्येवं यावदा - ५ दयचितमिति । ततः कथं प्राग्भवचित्तस्यानुमितिः कारण लिङ्गस्यानुपगमात् ? अन्यथा मरणचित्तस्यापि तल्लिङ्गत्वादेव गमकत्वात् कार्यत्वकल्पनं वृथैव स्यात् । अथ तत् उत्तरचित्तस्येव प्राग्भवचित्तस्यापि कार्यमेव तदयमदोष तहिं न कचिदपि कारणमिति न वस्तु भवेत् । अथ तदपि तयोरन्यतरस्य हेतुरेव न तहिं ततस्तस्यानुमानम् । ततो नासतः कारणत्वमिति सिद्धा कारणानुपलब्धिः ।
I
तथा कार्यानुपलब्धिरपि । तदयथा, न तदेकान्ते कारण कार्यानुपलम्भात् । नहि वस्य १० सत्कार्यम्; निरपेक्षत्वात् । नाप्यसत् विनापि तेनाभावात् । रूपान्तरेण तत्तस्य कार्यमिति चेत्; तदपि सत् कथं तरच अक्षच्चेत एव विना इत्यादि । यदि चासत सद्रूपमापद्यमानं तस्य कार्यम्, न क्षणभङ्गः, तस्य पूर्वापरीभूतस्यैकस्योपगमात् । न पक्षान्तरेऽपि अर्थ प्रसङ्गः; क्रमेण चित्रवस्तुन्येव तत्र हेतुफलव्यवहारात् । तस्य च चित्रकज्ञानवत् प्रतीत्युपा रूढत्वात्, न तथा तदेकान्तस्य | ततः कार्यानुपलब्धिरपि गमिकैव । व्यभिचारशङ्कया तद्गमकत्वकल्पनाय १५ नित्यादेरनिषेधाषन्तेः ।
१९५
तथा विरुद्धोपलब्धिरपि । तद्यथा- न नित्यो जीवः परिणामादिति । नित्यत्वविरुद्धस्य परिणामस्य जीवे दर्शनात् तत्र नित्यत्वप्रतिषेधोपपत्तेः केचिदुष्णत्वोपलब्ध्या शीतप्रतिषेधवत् ।
तथा विरुद्ध व्याप्तोपलब्धिरपि । तद्यथा, नेदं निरात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति । नैरास्यविरुद्धेन सात्मकत्वेन व्याप्तस्य प्राणादिमत्वस्य जीवच्छरीरे दर्शनात् तत्र नैरास्यप्रतिषेधोपपत्तेः २० कचिच्छूरत्वस्य वनस्पत्तित्वविरुद्ध वृक्षस्वव्यासस्य दर्शनात वनस्पतित्वप्रतिषेधवत् ।
एवं विरुद्ध कार्योपलब्धिरपि । तद्यथा कल्पनापोढमश्रान्तमपि ज्ञानं न प्रमाणं विसंवादादिति । प्रामाण्यस्योतविशेषणे ज्ञाने तद्विरुद्धाऽप्रामाण्यकार्यस्य विसंवादस्योपलम्मेन निषेधोपपत्तेः, महर्षादिविशेषस्य शीत कार्यस्योपलम्भेन तद्विरुद्धपावकप्रतिषेधवत् । न चासिद्धा विसंवादोपलब्धिः तत्र निरंशादिरूपेण दृष्टस्यापि विषयस्य स्थूलादिरूपेण प्राप्तेः, अयथादर्शनप्राप्तेश्व २५ विसंवादार्थत्वात् । एवमन्या अप्यनुपलब्धयो वृत्तिप्रतिपादिता गमिकाः प्रतिपत्तव्याः ।
स्यान्मतम् - यदि क्षणक्षयैकान्तादेर्न प्रतिपत्तिः कथं स कचिन्नास्तीति तदनुवादी निषेधः ! ' नास्तीह घटः' इति प्रतीतस्यैव "तस्य "तदर्शनात् । प्रतिषौ तु कथमनेकान्तनियमो भावेष्विति ?
1
१ क्षणिकान्ते । २ अद्रूपत्वात् । ३ श्रसत् ४ श्रसतः । ५ "स्याह्नादिपक्षे" -ता० दि० ।
६ क्षणिकान्तस्य । ७ कश्चिदुष्ण आ०, ब०, प० । कचिदुपल- सा० । ८ साज्ञत्वस्य | शूरः सालवृक्षविशेषः । - बादस्योप- आ०, ब०, प०। १० दृष्टस्यास्यापि प०, ता० | ११ घरस्य । १२ निषेधदर्शनात् ।