________________
२०१६]
२ अनुमानप्रस्ताव लब्धेरिति चेत्, किमिदानीं तत्रानुमानेने ? आरोपव्ययच्छेद इति चेत; तेनापि फिम् ? सत्यप्यारोपे प्रवृत्यादिव्यवहारस्य प्रत्यक्षादेव तत्समर्थादुपपसः । तदसमर्थे ऽपि तस्मिन् न किञ्चित् तद्ध्य वच्छेदेन, सत्यपि तस्मिन् व्यवहारस्यासम्भवात् । अथ स एव तस्य तत्सामर्थ्य तदयमदोषः; कथमर्थान्तरं स तस्य सामर्थ्यमतिमसात् ? सम्बन्धादिति चेत्, न; भेदे सत्युपकारादन्यस्य तस्यासम्भवात | R च तस्योपकार्यवं नित्यवत् क्षणिकस्यापि निरंशस्य तदयोगात् । ५ भवत्यनुमानादेव तस्योपलब्धिरिति चेत्, न; तस्याप्यनिर्णयरूपस्याप्रामाण्यात् तत्क्षणक्षयसंवेदनवत् । निर्णयरूपमेव तदिति; कुतस्तस्य परिज्ञानम् ! स्वत इति चेत्, 'तत्तस्यानिश्चयरूपमेव प्रत्यक्षत्वात् नीलादिप्रत्यक्षवत् । स्वाभिमुखमेव रूपं तस्यानिर्णयस्वभाव न बायाभिमुखमिति चेत; तस्य सहि कुतः परिज्ञानम् ! स्वाभिमुखात्तवयोगात् । स्वत एवेति चेत; तदप्यनिश्चयमेव पूर्ववत् प्रत्यक्षखादिति न निश्चयरूपं तस्योत्पश्यामः । "पुनस्तदन्तरकल्पनायामनवस्थाकल्पनात् । निश्चयान्त- १० रात् तत्परिज्ञानमेतेन प्रतिव्यूढम् । तन्न ततोऽपि तस्योपलब्धिरिति कथमसिद्धिरनुपलब्धेः १ ।
___ तथा न क्षणक्षयकान्ते कार्य कारणानुपलम्भात् । न हि तत्र कारणत्व कस्यचित् तत्समये कार्यानुपगमात्, “सन्तानाभावप्रसङ्गाच्च । नापि भिन्नसमये; स्वयं तदानीमसत्त्वात् । तथा हियत्कार्यकाले नास्ति न तत्तत्कारणं यथा अनुत्पन्नम् , नास्ति च तत्काले प्रध्वस्तमिति ।
अपि च, असतोऽपि कारणत्वे यथा ततोऽनन्तरं कार्य तथा ततः पुनस्ततोऽपि पुनः" १५ किन्न स्यात् ? असतः तदापि तस्याविशेषात् । एव च कथं "तस्यानित्यत्वमनुपरमात् ? कारणस्यानुपरतिहेतोरेव" भावात् । अथ तदपहस्त्य स्वयमेवोपरतिः; एवं सति उपरतियत् उत्पत्तिरपि तस्य स्याघीनैव स्यात् । तागुत्पत्तिर्निस्यैव भवेदिति चेत् ; उपरतिरपि स्यात् ।
तथा च हेतुसामर्थ्यादुत्पत्त्या तस्य भूयताम् | स्वतः किं वोपरत्येति दुस्तरं दौस्थ्यमापतेत् ॥१५१३।। क्षणादेवोर्ध्वमस्थानं तस्य चेत् स्यात् स्वशक्तितः ।। क्षण एव ततः स्थानं तस्य कस्मान्न कल्प्यते ॥१५१४॥ उत्पन्नस्य स्वतः शक्तिः शक्तादुत्पत्तिरित्यतः । अन्योऽन्याश्रयदोषाचेन्नैष "पक्षोऽवकल्पते ॥१५१५।।
१"सचे क्षणिक सरवादित्यादिना"- सादिक । २ "तस्मात् दृष्टस्य भाषस्य दृष्ट एवाखिलो गुणः । भ्रान्तेनिश्चीयले नेति साधनं समवर्तते ।" इति वचनात् । ३ व्यवहारासमर्थेऽपि 'भारोपव्यबच्छेद एवं ।" -ता०टिक।५ प्रत्यक्षस्य । ६ सम्बन्धस्य | ७क्षणिस्वस्य । ८ तस्यानि-आवपक्ष, पक्ष ५ "सर्वचित्तानामात्मसं पेदन प्रत्यक्षमिति वचनात् ।"-तारिक। १० सुगतस्त-०, ब०, १०। ११ कार्येऽनुपग- ता०।१२ यदि कारणकाले कार्य स्वात्तदा सर्वस्यौतरोत्तरक्षणस्य आद्यक्षणतित्त्वप्रसङ्ग, अनन्तरंच नाशात् सन्तानाभावः स्यादिति भावः । १३ उत्तरोतरक्षणेषु । १४ तस्यान्तिकत्वमनु-आम्बर, प० । १५ यतः कारणादनुपरतिः तस्य कारणस्य सद्भावात् । १६ पक्षोऽत्र क-५०।