SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २२१६७-६८ ] २ अनुमानप्रस्तावः १६१ पिशाचादेरपि तथा दृश्यत्वोपपत्तेः । ततो न स्वभावानुपलभातन्निषेधः । नापि कार्यानुपलम्भात्; ततोऽपि तदुपलभनिषेधादेव तनिषेधात् । "अनिषिद्धोपलम्भस्याभावासिद्ध" [ ] इत्यभिधानात् | न चाटश्यस्य तनिषेधेऽपि निषेधः संशयोपगमात् | भक्नपि ल्याहारादिकार्यानुषलग्भातस्य निषेधः अमतिबद्धशक्तिकस्यैव स्यान्नापरस्य, तत्कथं तद्विवेकानिश्चयादाहादिसाहसकरणं पातकासात् । अथ व्याहारादौ तत् प्रतिबन्धविकलमेव ततो भवत्येव तदनुपलम्भात्तस्य निषेधः, सति तस्मिन् तम्या- ५ सम्मवादिति चेत्, आगतोऽसि पन्थानम् । अदृश्यविशेषणस्यापि तस्यान्यथानुपपत्त्या गमकत्वोपगमात् । इदमेव केवलमपरीक्षितमुक्तवानसि "नावश्यं कारणानि कार्यवन्ति भवन्तिः' [ हेतुनि० टी.पृ० २०१ ] इति । अवश्य तद्वतोऽपि विज्ञानादेः भावात्, अन्यथा तत्प्रभवादनुपलम्भात्तनिषेधानुपपत्तेः । तच्चावश्यम्भावितद्वत्वं तर्कादेव' शक्यनिर्णयमुपायान्तराभावात् । तदेवमहश्यानुपलम्भस्य गमकत्वमन्यथानुपपत्तिबलेनोपपाद्य दृश्यानुपलभस्यापि तत एव तत्, न तदन्तरेणेति दर्शयन्नाह- १० प्रत्यक्षानुपलम्भश्च विधानप्रतिषेधयाः ॥१६७।। अन्तरेणेह सम्बन्धमहेतुरिव लक्ष्यते । इति । उपलभ्यत इति उपलभ्यतेऽनेनेति वा उपलम्भः तदन्यः अनुपलम्भः भावान्तरमुपलम्भयोग्य सज्ञानं वा । प्रत्यक्षस्य दृश्यस्य स च सोऽपि न केवलं कार्यादेरेव अहेतरिच अगमक इय लक्ष्यते । कथम् ? इह अन्यथानुपपत्तो सम्बन्ध सागस्यमन्तरेण विनेति । के स तथा लक्ष्यते ? १५ विधानप्रतिषेधयोः विधानं प्रदेशादेः प्रतिषेधो घटादेस्तयोरिति । तथा हि-न तावत् प्रतिषेधः कस्यचित्तुच्छोऽनभ्युपगमात् । प्रदेशादिभावान्तरस्वभावत्वेऽपि न तत्र अनुपलम्भस्याऽप्रतिपन्नस्य हेतुत्वम् ; असिद्धस्यान्यथानुपपत्तिवैकल्यात् । प्रतिपत्तिरपि तस्य यदि प्रतिषेधरूपत्वेनान्यतोऽनुपलम्भात्; अनवस्थापत्तिः । स्वतोऽपि यद्यनिश्चयरूपा; तदेवाहेतुत्वम् । निश्चयात्मिकायां तु व्यर्थं तस्य तत्र हेतुत्वम् ; तन्निश्चयादेव प्रतिषेध्यामावस्यापि निश्चयात, तद्विषयतयैव तत्र तनुत्पत्तेः । न सन्निश्चयार्थं तस्य तत्त्वमपि तु तन्नासदिति ज्ञानार्थम् ; इत्यपि न युक्तम् । अनुपलम्मम्यैव तदसज्ज्ञान- ३० वात् । ततोऽपि तदन्तरकल्पनायामनवस्थादोषात् । तदभित्रानार्थमित्यपि नोत्तरम् : उत्पत्तात्र निश्चयरूपस्य तस्य साभिधानत्वात् । अनभिधानत्वेऽपि कुतस्तस्य तादर्थ्यम् । तस्य करणात्, ज्ञापनाद्वा ! करणादिति चेत् नः ज्ञापकस्याकारकत्वात् । ज्ञापनादिति चेत् तथापि कथं तज्ज्ञापफस्य प्रतिषेधज्ञापकत्वम् ? तस्यापि तविषयस्यैव ज्ञापनादिति स चेत्, यद्यस्ति, किं ततस्तज्ज्ञापनेन ? प्रत्यक्षादेव जप्ते : । अथ नास्ति; नास्ति ज्ञापनमसतस्तदयोगान् । प्रतिषेधस्य तयोम्यत्वज्ञापनमेय तज्ज्ञापन- २५ मिति चेत् ; न; असति तस्मिन् योग्यत्वस्यापि तदपेक्षस्यासम्भवात् । सम्भवेऽवि किमर्थ तज्ज्ञापनम् ? अभिधानादिन्यवहारार्थमिति चेत्; स किभनुपलग्मविषयादव ततो न भवति येन ततस्तज्ञापनं ततश्च स इति पारम्पर्य परिकरुध्यते ? तथा चेत; अनुपलम्भेऽपि तदन्यज्ञापितादेव स --- १ तत्कार्यादेष आ०, ब०, प० । २ गमत्वम् । ३ यद्यपि निश्चयरूपातदे- आo,व०, १०। ४ तद्वत्स-आ०, बन,प०। ५-पकंत-आ०, ०,१०।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy